अध्यायः 096

शकुन्तलाया दुष्यन्तं प्रति प्रेषयितुं कण्वकृत उपदेशः ॥ 1 ॥ हास्तिनपुरगमनविषयेकण्वशकुन्तलासर्वदमनानां विवादः ॥ 2 ॥ कण्वेन स्वशिष्यद्वारा शकुन्तलासर्वदमनयोर्हास्तिनपुरप्रेषणम् ॥ 3 ॥ पुरप्रवेशान्निर्विण्णैः शिष्यैः कण्वाश्रमं प्रति निवर्तनम् ॥ 4 ॥

वैशंपायन उवाच ।
तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम् ।
समयो यौवराज्याय इत्यनुध्याय स द्विजः ॥
`शकुन्तलां समाहूय कण्वो वचनमब्रवीत् ।
कण्व उवाच ।
शृणु भद्रे मम सुते मम वाक्यं शुचिस्मिते ॥
पतिव्रतानां नारीणां विशिष्टमिति चोच्यते ।
पतिशुश्रूषणं पूर्वं मनोवाक्कायचेष्टितैः ॥
अनुज्ञाता मया पूर्वं पूजयैतद्व्रतं तव ।
एतेनैव च वृत्तेन पुण्याँल्लोकानवाप्य च ॥
तस्यान्ते मानुषे लोके विशिष्टां तप्स्यसे श्रियम् ।
तस्माद्भद्रेऽद्य यातव्यं समीपं पौरवस्य ह ॥
स्वयं नायाति मत्वा ते गतं कालं शुचिस्मिते ।
गत्वाऽऽराधय राजानं दुष्यन्तं हितकाम्यया ॥
दौष्यन्तिं यौवराज्यस्थं दृष्ट्वा प्रीतिमवाप्स्यसि ।
देवतानां गुरूणां च क्षत्रियाणां च भामिनि ॥
भर्तॄणां च विशेषेम हितं संगमनं भवेत् ।
तस्मात्पुत्रि कुमारेण गन्तव्यं मत्प्रियेप्सया ॥
प्रतिवाक्यं न दद्यास्त्वं शपिता मम पादयोः ॥
वैशंपायन उवाच ।
एवमुक्त्वा सुतां तत्र पौत्रं कण्वोऽभ्यभाषत ।
परिष्वज्य च बाहुभ्यां मूर्ध्न्युपाघ्राय पौरवम् ॥
सोमवंशोद्भवो राजा दुष्यन्त इति विश्रुतः ।
तस्याग्रमहिषी चैषा तव माता शुचिव्रता ॥
गन्तुकामा भर्तृपार्श्वं त्वया सह सुमध्यमा ।
गत्वाऽभिवाद्य राजनं यौवराज्यमवाप्स्यसि ॥
स पिता तव राजेन्द्रस्तस्य त्वं वशगो भव ।
पितृपैतामहं राज्यमातिष्ठस्व स्वभावतः ॥
तस्मिन्काले स्वराज्यस्थो मामनुस्मर पौरव ॥
वैशंपायन उवाच ।
अभिवाद्य मुनेः पादौ पौरवो वाक्यमब्रवीत् ।
त्वं पिता मम विप्रर्षे त्वं माता त्वं गतिश्च मे ॥
न चान्यं पितरं मन्ये त्वामृते तु महातपः ।
तव शुश्रूषणं पुण्यमिह लोके परत्र च ॥
शकुन्तला भर्तृकामा स्वयं यातु यथेष्टतः ।
अहं सुश्रूषणपरः पादमूले वसामि वः ॥
क्रीडां व्यालमृगैः सार्धं करिष्ये न पुरा यथा ।
त्वच्छासनपरो नित्यं स्वाध्यायं च करोम्यहम् ॥
एवमुक्त्वा तु संश्लिष्य पादौ कण्वस्य तिष्ठतः ।
तस्य तद्वचनं श्रुत्वा प्ररुरोद शकुन्तला ॥
स्नेहात्पितुश्च पुत्रस्य हर्षशोकसमन्विता ।
निशाम्य रुदतीमार्तां दौष्यन्तिर्वाक्यमब्रवीत् ॥
श्रुत्वा भगवतो वाक्यं किं रोदिषि शकुन्तले ।
गन्तव्यं काल्य उत्थाय भर्तृप्रीतिस्ववास्ति चेत् ॥
शकुन्तलोवाच ।
एकस्तु कुरुते पापं फलं भुङ्क्ते महाजनः ।
मया निवारितो नित्यं न करोषि वचो मम ॥
निःसृतान्कुञ्जरान्नित्यं बाहुभ्यां संप्रमथ्य वै ।
वनं च लोडयन्नित्यं सिंहव्याघ्रगणैर्वृतम् ॥
एवंविधानि चान्यानि कृत्वा वै पुरुनन्दन ।
रुषितो भगवांस्तात तस्मादावां विवासितौ ॥
नाहं गच्छामि दुष्यन्तं नास्मि पुत्र हितैषिणी ।
पादमूले वसिष्यामि महर्षेर्भावितात्मनः ॥
वैशंपायन उवाच ।
एवमुक्त्वा तु रुदती पपात मुनिपादयोः । एवं विलपतीं कण्वश्चानुनीय च हेतुभिः ।
पुनः प्रोवाच भगवानानृशंस्याद्धितं वचः ॥
कण्व उवाच ।
शकुन्तले शृणुष्वेदं हितं पथ्यं च भामिनि ।
पतिव्रताभावगुणान्हित्वा साध्यं न किंचन ॥
प्रतिव्रतानां देवा वै तुष्टाः सर्वरप्रदाः ।
प्रसादं च करिष्यन्ति आपदो मोक्षयन्ति च ॥
पतिप्रसादात्पुण्यं च प्राप्नुवन्ति न चाशुभम् ।
तस्माद्गत्वा तु राजानमाराधय शुचिस्मिते ॥
वैशंपायन उवाच ।
शकुन्तलां तथोक्त्वा वै शाकुन्तलमथाब्रवीत् ।
दौहित्रो मम पौत्रस्त्वमिलिलस्य महात्मनः ॥
शृणुष्व वचनं सत्यं प्रब्रवीमि तवानघ ।
मनसा भर्तृकामा वै वाग्भिरुक्त्वा पृथग्विधम् ॥
गन्तुं नेच्छति कल्याणी तस्मात्तात वहस्व वै । शक्तस्त्वं प्रतिगन्तुं च मुनिभिः सह पौरव ॥'
इत्युक्त्वा सर्वदमनं कण्वः शिष्यानथाब्रवीत् ।
शकुन्तलामिमां शीग्रं सपुत्रामाश्रमादितः ॥
भर्तुः प्रापयताभ्याशं सर्वलक्षणपूजिताम् ।
नारीणां चिरवासो हि बान्धवेषु न रोचते ॥
कीर्तिचारित्रधर्म्नस्तस्मान्नयत मा चिरम् ॥
`वैशंपायन उवाच ।
धर्माभिपूजितं पुत्रं काश्यपेन निशाम्य तु ।
काश्यपात्प्राप्य चानुज्ञां मुमुदे च शकुन्तला ॥
कण्वस्य वचनं श्रुत्वा प्रतिगच्छेति चासकृत् । तथेत्युक्त्वा तु कण्वं च मातरं पौरवोऽब्रवीत् ।
किं चिरायसि मातस्त्वं गमिष्यामो नृपालयम् ॥
एवमुक्त्वा तु तां देवीं दुष्यन्तस्य महात्मनः ।
अभिवाद्य मुनेः पादौ गन्तुमैच्छत्स पौरवः ॥
शकुन्तला च पितरमभिवाद्य कृताञ्जलिः ।
प्रदक्षिणीकृत्य तदा पितरं वाक्यमब्रवीत् ॥
अज्ञानान्मे पिता चेति दुरुक्तं वापि चानृतम् ।
अकार्यं वाप्यनिष्टं वा क्षन्तुमर्हति तद्भवान् ॥
एवमुक्तो नतशिरा मुनिर्नोवाच किंचन ।
मनुष्यभावात्कण्वोऽपि मुनिरश्रूण्यवर्तयत् ॥
अब्भक्षान्वायुभक्षांश्च शीर्णपर्णाशनान्मुनीन् ।
फलमूलाशिनो दान्तान्कृशान्धमनिसंततान् ॥
व्रतिनो जटिलान्मुण्डान्वल्कलाजिनसंवृतान् ।
समाहूय मुनिः कण्वः कारुण्यादिदमब्रवीत् ॥
मया तु लालिता नित्यं मम पुत्री यशस्विनी ।
वने जाता विवृद्धा च न च जानाति किंचन ॥
आश्रमात्तु पथा सर्वैर्नीयतां क्षत्रियालयम् ।
द्वितीययोजने विप्राः प्रतिष्ठानं प्रतिष्ठितम् ॥
प्रतिष्ठाने पुरे राजा शाकुन्तलपितामहः ।
अध्युवास चिरं कालमुर्वश्या सहितः पुरा ॥
अनूपजाङ्गलयुतं धनधान्यसमाकुलम् ।
प्रतिष्ठितं पुरवरं गङ्गायामुनसङ्गमे ॥
तत्र सङ्गममासाद्य स्नात्वा हुतहुताशनाः । शाकमूलफलाहारा निवर्तध्वं तपोधनाः ।
अन्यथा तु भवेद्विप्रा अध्वनो गमने श्रमः ॥'
तथेत्युक्त्वा च ते सर्वे प्रातिष्ठन्त महौजसः ।
`शकुन्तलां पुरस्कृत्य दुष्यन्तस्य पुरं प्रति ॥
गृहीत्वा चामरप्रख्यं पुत्रं कमललोचनम् ।
आजग्मुश्च पुरं रम्यं दुष्यन्ताध्युषितं वनात् ॥
शकुन्तलां समादाय मुनयो धर्मवत्सलाः ।
ते वनानि नदीः शैलान्गिरिप्रस्रवणानि च ॥
कन्दराणि नितम्बांश्च राष्ट्राणि नगराणि च ।
आश्रमाणि च पुण्यानि गत्वा चैव गतश्रमाः ॥
शनैर्मध्याह्नवेलायां प्रतिष्ठानं समाययुः ।
तां पुरीं पुरुहूतेन ऐलस्यार्थे विनिर्मिताम् ॥
परिघाट्टालकैर्मुख्यैरुपकल्पशतैरपि ।
शतघ्नीचक्रयन्त्रैश्च गुप्तामन्यैर्दुरासदाम् ॥
हर्म्यप्रसादसंबाधां नानापण्यविभूषिताम् ।
मण्टपैः ससभै रम्यैः प्रपाभिश्च समावृताम् ॥
राजमार्गेण महता सुविभक्तेन शोभिताम् ।
कैलासशिखराकारैर्गोपुरैः समलङ्कृताम् ॥
द्वारतोरणनिर्यूहैर्मङ्गलैरुपशोभिताम् ।
उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥
सर्वपुष्करिणीभिश्च उद्यानैश्च समावृताम् ।
वर्णाश्रमैः स्वधर्मस्थैर्नित्योत्सवसमाहितैः ॥
धनधान्यसमृद्धैश्च संतुष्टै रत्नपूजितैः ।
कृतयज्ञैश्च विद्वद्भिरग्निहोत्रपरैः सदा ॥
वर्जिता कार्यकरणैर्दानशीलैर्दयापरैः ।
अधर्मभीरुभिः सर्वैः स्वर्गलोकजिगीषुभिः ॥
एवंविधजनोपेतमिन्द्रलोकमिवापरम् ।
तस्मिन्नगरमध्ये तु राजवेश्म प्रतिष्ठितम् ॥
इन्द्रसद्मप्रतीकाशं संपूर्णं वित्तसंचयैः ।
तस्य मध्ये सभा दिव्या नानारत्नविभूषिता ॥
तस्यां सभायां राजर्षिः सर्वालङ्कारभूषितः ।
ब्राह्मणैः क्षत्रियैश्चापि मन्त्रिभिश्चापि संवृतः ॥
संस्तूयमानो राजेन्द्रः सूतमागधबन्दिभिः ।
कार्यार्थिषु तदाऽभ्येत्य कृत्वा कार्यं गतेषु सः ॥
सुखासीनोऽभवद्राजा तस्मिन्काले महर्षयः ।
शकुन्तानां स्वनं श्रुत्वा निमित्तज्ञास्त्वलक्षयन् ॥
शकुन्तले निमित्तानि शोभनानि भवन्ति नः । कार्यसिद्धिं वदन्त्येते ध्रुवं राज्ञी भविष्यसि ।
अस्मिंस्तु दिवसे पुत्रो युवराजो भविष्यति ॥
वैशंपायन उवाच ।
वर्धमानपुरद्वारं तूर्यघोषनिनादितम् ।
शकुन्तलां पुरस्कृत्य विविशुस्ते महर्षयः ॥
प्रविशन्तं नृपसुतं प्रशशंसुश्च वीक्षकाः ।
वर्धमानपुरद्वारं प्रविशन्नेव पौरवः ॥
इन्द्रलोकस्थमात्मानं मेने हर्षसमन्वितः ॥
ततो वै नागराः सर्वे समाहूय परस्परम् ।
द्रष्टुकामा नृपसुतं समपद्यन्त भारत ॥
नागरा ऊचुः ।
देवतेव जनस्याग्रे भ्राजते श्रीरिवागता ।
जयन्तेनेव पौलोमी इन्द्रलोकादिहागता ॥
इति ब्रुवन्तस्ते सर्वे महर्षीनिदमब्रुवन् ।
अभिवादयन्तः सहिता महर्षीन्देववर्चसः ॥
अद्य नः सफलं जन्म कृतार्थाश्च ततो वयम् ।
एवं ये स्म प्रपश्यामो महर्षीन्सूर्यवर्चसः ॥
वैशंपायन उवाच ।
इत्युक्त्वा सहिताः केचिदन्वगच्छन्त पौरवम् ।
हैमवत्याः सुतमिव कुमारं पुष्करेक्षणम् ॥
ये केचिदब्रुवन्मूढाः शाकुन्तलदिदृक्षवः ।
कृष्णाजिनेन संछन्नाननिच्छन्तो ह्यवेक्षितुम् ॥
पिशाचा इव दृश्यन्ते नागराणां विरूपिणः ।
विना सन्ध्यां पिशाचास्ते प्रविशन्ति पुरोत्तमम् ॥
क्षुत्पिपासार्दितान्दीनान्वल्कलाजिनवाससः ।
त्वगस्थिभूतान्निर्मांसान्धमनीसन्ततानपि ॥
पिङ्गलाक्षान्पिङ्गजटान्दीर्घदन्तान्निरूदरान् ।
विशीर्षकानूर्ध्वहस्तान्दृष्ट्वा हास्यन्ति नागराः ॥
एवमुक्तवतां तेषां गिरं श्रुत्वा महर्षयः ।
अन्योन्यं ते समाहूय इदं वचनमब्रुवन् ॥
उक्तं भगवता वाक्यं न कृतं सत्यवादिना ।
पुरप्रवेशनं नात्र कर्तव्यमिति शासनम् ॥
किं कारणं प्रवेक्ष्यामो नगरं दुर्जनैर्वृतम् ।
त्यक्तसङ्गस्य च मुनेर्नगरे किं प्रयोजनम् ॥
गमिष्यामो वनं तस्माद्गङ्गायामुनसङ्गमम् ।
एवमुक्त्वा मुनिगणाः प्रतिजग्मुर्यथागतम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षण्णवतितमोऽध्यायः ॥ 96 ॥

1-96-10 पुत्र्याः पुत्रः पौत्रः दौहित्र इत्यर्थः ॥