अध्यायः 099

दुष्यन्तशकुन्तलाविवादः ॥ 1 ॥

शकुन्तलोवाच ।
राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि ।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ॥
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् ।
ममैवोद्रिच्यते जन्म दुष्यन्त तव जन्मतः ॥
क्षितौ चरसि राजंस्त्वमन्तरिक्षे चराम्यहम् ।
आवयोरन्तरं पश्य मेरुसर्षपयोरिव ॥
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च ।
भवनान्यनुसंयामि प्रभावं पश्य मे नृप ॥
`पुरा नरवरः पुत्र उर्वश्यां जनितस्तदा ।
आयुर्नाम महाराज तव पूर्वपितामहः ॥
महर्षयश्च बहवः क्षत्रियाश्च परन्तपाः । अप्सरःसु ऋषीणां च मातृदोषो न विद्यते ॥'
सत्यश्चापि प्रवादोऽयं प्रवक्ष्यामि च ते नृप ।
निदर्शनार्थं न द्वेषाच्छ्रुत्वा तत्क्षन्तुमर्हसि ॥
विरूपो यावदादर्शे नात्मनो वीक्षते मुखम् ।
मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ॥
यदा तु रूपमादर्शे विरूपं सोऽभिवीक्षते ।
तदा ह्रीमांस्तु जानीयादन्तरं नेतरं जनम् ॥
अतीव रूपसंपन्नो न कंचिदवमन्यते ।
अतीव जल्पन्दुर्वाचो भवतीह विहेतुकः ॥
`पांसुपातेन हृष्यन्ति कुञ्जरा मदशालिनः ।
तथा परिवदन्नन्यान्हृष्टो भवति दुर्मतिः ॥
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव ।
सुनास्तिकोप्युद्विजते जनः किं पुनरास्तिकः ॥
स्वयमुत्पाद्य पुत्रं वै सदृशं योऽवमन्यते ।
तस्य देवाः श्रियं घ्नन्ति तत्रैनं कलिराविशेत् ॥
अभव्येऽप्यनृतेऽशुद्धे नास्तिके पापकर्मणि । दुराचारे कलिर्ह्याशु न कलिर्धर्मचारिषु ॥'
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।
अशुभं वाक्यमादत्ते पुरीषमिव सूकरः ॥
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।
गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसि ॥
`आत्मनो दुष्टभावत्वं जानन्नीचोऽप्रसन्नधीः ।
परेषामपि जानाति स्वधर्मसदृशान्गुणान् ॥
दह्यमानास्तु तीव्रेण नीचाः परयशोग्निना । अशक्तास्तद्गतिं गन्तुं ततो निन्दां प्रकुर्वते ॥'
अन्यान्परिवदन्साधुर्यथा हि परितप्यते ।
तथा परिवदन्नन्यान्हृष्टो भवति दुर्जनः ॥
`अपवादरता मूर्खा भवन्ति हि विशेषतः । नापवादरताः सन्तो भवन्ति स्म विशेषतः ॥'
अभिवाद्य यथा वृद्धान्साधुर्गच्छति निर्वृतिम् ।
एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ॥
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः ।
यथा वाच्याः परैः सन्तः परानाहुस्तथाविधान् ॥
अतो हास्यतरं लोके किंचिदन्यन्न विद्यते ।
यदि दुर्जन इत्याहुः सज्जनं दुर्जनाः स्वयम् ॥
`दारुणाल्लोकसंक्लेशाद्दुःखमाप्नोत्यसंशयम् ॥' कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् ॥
उत्तमं सर्वधर्माणां तस्मात्पुत्रं तु न त्यजेत् ।
स्वपत्नीप्रभवाँल्लब्धान्कृतान्समयवर्धितान् ॥
क्रीतान्कन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् ।
`ते च षड्वन्धुदायादाः षडदायादबान्धवाः ॥
धर्मकृत्यवहा नॄणां मनसः प्रीतिवर्धनाः ।
त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन् ॥
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि ।
तस्मात्पुत्रं च सत्यं च पालयस्व महीपते ॥
उभयं पालयस्वैतन्नानृतं वक्तुमर्हसि ।' आत्मानं सत्यधर्मौ च पालयेथा महीपते ।
नरेन्द्रसिंह कपटं न हि वोढुं त्वमर्हसि ॥
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः ।
वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् ।
सत्यस्यैव च राजेन्द्र कलां नार्हति षोडशीम् ॥
नास्ति सत्यसमो धर्मो न सत्याद्विद्यते परम् ।
न हि तीव्रतरं पापमनृतादिह विद्यते ॥
राजन्सत्यं परो धर्मः सत्याच्च समयः परः ।
मात्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते ॥
`यः पापो न विजानीयात्कर्म कृत्वा नराधिप ।
न हि तादृक्परं पापमनृतादिह विद्यते ॥
यस्य ते हृदयं वेद सत्यस्यैवानृतस्य च ।
कल्याणावेक्षणं तस्मात्कर्तुमर्हसि धर्मतः ॥
यो न कामान्न च क्रोधान्न द्रोहादतिवर्तते । अमित्रं वापि मित्रं वा स एवोत्तमपूरुषः ॥'
अनृतश्चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम् ।
आश्रमं गन्तुमिच्छामि त्वादृशो नास्ति सङ्गतं ॥
`पुत्रत्वे शङ्कमानस्य त्वं बुद्ध्या निश्चयं कुरु ।
गतिः स्वरः स्मृतिः सत्वं शीलं विद्या च विक्रमः ॥
धृष्णुप्रकृतिभावौ च आवर्ता रोमराजयः ।
समा यस्य यदा स्युस्ते तस्य पुत्रो न संशयः ॥
सादृश्येनोद्धऋतं बिम्बं तव देहाद्विशांपते ।
तातेति भाषमाणं वै मा स्म राजन्वृथा कृथाः ॥
ऋते च गर्दभीक्षीरात्पयः पास्यति मे सुतः ।' ऋतेपि त्वां च दुष्यन्त शैलराजावतंसिकाम् ।
चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति ॥
`शकुन्तले तव सुतश्चक्रवर्ती भविष्यति ।
एवमुक्तं महेन्द्रेण भविष्यति न चान्यथा ॥
साक्षित्वे बहवो ह्युक्ता देवदूतादयो मया ।
न ब्रुवन्ति तथा सत्यमुताहो नानृतं किल ॥
असाक्षिणी मन्दबाग्या गमिष्यामि यथागतम् ॥'
वैशंपायन उवाच ।
एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला ।
`तस्याः क्रोधसमुत्थोग्निः सधूमो मूर्ध्न्यदृश्यत ॥
संनियम्यात्मनोऽङ्गेषु ततः क्रोधाग्निमात्मजम् ।
प्रस्थितैवानवद्याङ्गी सह पुत्रेण वै वनम्' ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोनशततमोऽध्यायः ॥ 99 ॥