अध्यायः 102

महाभिषगुपाख्यानम् ॥ 1 ॥ महाभिषग्गङ्गयोः शापः ॥ 2 ॥ अष्टवसूनां गङ्गायाश्च संवादः ॥ 3 ॥

वैशंपायन उवाच ।
इक्ष्वाकुवंशप्रभो राजासीत्पृथिवीपतिः ।
महाभिषगिति ख्यातः सत्यवाक्सत्यविक्रमः ॥
सोऽश्वमेधसहस्रेण राजसूयशतेन च ।
तोषयामास देवेशं स्वर्गं लेभे ततः प्रभुः ॥
ततः कदाचिद्ब्रह्माणमुपासांचक्रिरे सुराः ।
तत्र राजर्षयो ह्यासन्स च राजा महाभिषक् ॥
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम् ।
तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ॥
ततोऽभवन्सुरगणाः सहसाऽवाङ्मुखास्तदा ।
महाभिषक्तु राजर्षिरशङ्को दृष्टवान्नदीम् ॥
सोपध्यातो भगवता ब्रह्मणा तु महाभिषक् ।
उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ॥
यया हृतमनाश्चासि गङ्गया त्वं हि दुर्मते ।
सा ते वै मानुषे लोके विप्रियाण्याचरिष्यति ॥
यदा ते भविता मन्युस्तदा शापाद्विमोक्ष्यते ।
वैशंपायन उवाच ।
स चिन्तयित्वा नृपतिर्नृपानन्यांस्तपोधनान् ॥
प्रतीपं रोचयामास पितरं भूरितेजसम् ।
सा महाभिषजं दृष्ट्वा नदी दैर्याच्च्युतं नृपम् ॥
तमेव मनसा ध्यायन्त्युपावृत्ता सरिद्वरा ।
सा तु विध्वस्तवपुषः कश्मलाभिहतान्नृप ॥
ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः ।
तथारूपांश्च तान्दृष्ट्वा प्रपच्छ सरितां वरा ॥
किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् ।
तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि ॥
अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना ।
विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम् ॥
सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा ।
तेन कोपाद्वयं शप्ता योनौ संभवतेति ह ॥
न तच्छक्यं निवर्तयितुं यदुक्तं ब्रह्मवादिना ।
त्वमस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि ॥
न मानुषीणां जठरं प्रविशेम वयं शुभे ।
इत्युक्ता तैश्च वसुभिस्तथेत्युक्त्वाऽब्रवीदिदम् ॥
गङ्गोवाच ।
मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति ।
वसव ऊचुः ।
प्रतीपस्य सुतो राजा शान्तनुर्लोकविश्रुतः ।
भविता मानुषे लोके स नः कर्ता भविष्यति ॥
गङ्गोवाच ।
ममाप्येवं मतं देवा यथा मां वदथानघाः ।
प्रियं तस्य करिष्यामि युष्माकं चेतदीप्सितम् ॥
वसव ऊचुः ।
जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि ।
यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे ॥
जिघृक्षवो वयं सर्वे सुरभिं मन्दबुद्धयः ।
शप्ता ब्रह्मर्षिणा तेन तांस्त्वं मोचय चाशु नः ॥
गङ्गोवाच ।
एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम् ।
नास्य मोघः सङ्गमः स्यात्पुत्रहेतोर्मया सह ॥
वसव ऊचुः ।
तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् ।
तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः ॥
न संपत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः ।
तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् ॥
एवं ते समयं कृत्वा गङ्गया वसवः सह ।
जग्मुः संहृष्टमनसो यथासंकल्पमञ्जसा ॥ ॥

इति श्रीमन्महाभारते आदिप्रवमि संभवपर्वणि द्व्यधिकशततमोऽध्यायः ॥ 102 ॥

1-102-6 अपध्यातः शप्तः ॥ 1-102-10 विध्वस्तवपुषो दिवश्च्युतत्वात् ॥ 1-102-14 अत्यभिसृता अतिक्रान्तवन्तः । वक्ष्यमाणेन तद्धेनुहरणेनेति शेषः ॥ 1-102-19 नचिरकालं शीघ्रम् । नोऽस्माकम् ॥ 1-102-22 तुरीयार्धमष्टमांशम् ॥ द्व्यधिकशततमोऽध्यायः ॥ 102 ॥