अध्यायः 109

भीष्मस्य काशिपतिकन्याहरणार्थं वाराणसीगमनम् ॥ 1 ॥ कन्यां हृतवता भीष्मेण युद्धे राज्ञां पराजयः ॥ 2 ॥ मध्येमार्गं साल्वपराजयः ॥ 3 ॥ विचित्रवीर्यविवाहोपक्रमे तमनिच्छन्त्या ज्येष्ठाया अम्बयाः साल्वं प्रति गमनम् ॥ 4 ॥ तेन प्रत्याख्यातायाः पुनर्भीष्मं प्राप्ताय अम्ब्रायाः भीष्मेण निराकरणम् ॥ 5 ॥ भीष्मजिघांसया तपस्यन्त्या अम्बायाः प्रसन्नात्कुमारान्मालाप्राप्तिः ॥ 6 ॥

वैशंपायन उवाच ।
हते चित्राङ्गदे भीष्मो बाले भ्रातरि कौरव ।
पालयामास तद्राज्यं सत्यवत्या मते स्थितः ॥
`तथा विचित्रवीर्यं तु वर्तमानं सुखेऽतुले ।' संप्राप्तयौवनं दृष्ट्वा भ्रातरं धीमतां वरः ।
भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् ॥
अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरोपमाः ।
शुश्राव सहिता राजन्वृण्वाना वै स्वयंवरम् ॥
ततः स रथिनां श्रेष्ठो रथेनैकेन शत्रुजित् ।
जगामानुमते मातुः पुरीं वाराणसीं प्रभुः ॥
तत्र राज्ञः समुदितान्सर्वतः समुपागतान् ।
ददर्श कन्यास्ताश्वै भीष्मः शान्तनुनन्दनः ॥
`तासां कामेन संमत्ताः सहिताः काशिकोसलाः । वङ्गाः पुण्ड्राः कलिङ्गाश्च ते जग्मुस्तां पुरीं प्रति ॥'
कीर्त्यमानेषु राज्ञां तु तदा नामसु सर्वशः ।
एकाकिनं तदा भीष्मं वृद्धं शान्तनुनन्दनम् ॥
सोद्वेगा इव तं दृष्ट्वा कन्याः परमशोभनाः ।
अपाक्रामन्त ताः सर्वा वृद्ध इत्येव चिन्तया ॥
वृद्धः परमधर्मात्मा वलीपलितधारणः ।
किकारणमिहायातो निर्लज्जो भरतर्षभः ॥
मिथ्याप्रतिज्ञो लोकेषु किं वदिष्यति भारत ।
ब्रह्मचारीति भीष्मो हि वृथैव प्रथितो भुवि ॥
इत्येवं प्रबुवन्तस्ते हसन्ति स्म नृपाधमाः ।
वैशंपायन उवाच ।
क्षत्रियाणां वचः श्रुत्वा भीष्मश्चुक्रोध भारत ॥
भीष्मस्तदा स्वयं कन्या वरयामास ताः प्रभुः ।
उवाच च महीपालान्राजञ्जलदनिःस्वनः ॥
रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः ।
आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः ॥
अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि ।
प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि ॥
वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च ।
प्रमत्तामुपयन्त्यन्ये स्वयमन्ये च विन्दते ॥
आर्षं विधिं पुरस्कृत्य दारान्विन्दन्ति चापरे ।
अष्टमं तमथो वित्त विवाहं कविभिर्वृतम् ॥
स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च ।
प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः ॥
ता इमाः पृथिवीपाला जिहीर्षामि बलादितः ।
ते यतध्वं परं शक्त्या विजयायेतराय वा ॥
स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः ।
वैशंपायन उवाच ।
एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् ॥
सर्वाः कन्याः स कौरव्यो रथमारोप्य च स्वकम् ।
आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः ॥
ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः ।
संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् ॥
तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् ।
आमुञ्चतां च वर्माणि संभ्रमः सुमहानभूत् ॥
ताराणामिव संपातो बभूव जनमेजय ।
भूषणानां च सर्वेषां कवचानां च सर्वशः ॥
सवर्मभिर्भूषणैश्च प्रकीर्यद्बिरितस्ततः ।
सक्रोधामर्षजिह्मभ्रूकषायीकृतलोचनाः ॥
सूतोपक्लृप्तान् रुचिरान्सदश्वैरुपकल्पितान् ।
रथानास्थाय ते वीराः सर्वप्रहरणान्विताः ॥
प्रयान्तमथ कौरव्यमनुसस्रुरुदायुधाः । ततः समभवद्युद्धं तेषां तस्य च भारत ।
एकस्य च बहूनां च तुमुलं रोमहर्षणम् ॥
ते त्विषून्दशसाहस्रांस्तस्मिन्युगपदाक्षिपन् ।
अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तथाऽन्तरा ॥
अच्छिनच्छरवर्षेण महता लोमवाहिना ।
ततस्ते पार्थिवाः सर्वे सर्वतः परिवार्य तम् ॥
ववृषुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ।
स तं बाणमयं वर्षं शरैरावार्य सर्वतः ॥
ततः सर्वान्महीपालान्पर्यविध्यत्त्रिभिस्त्रिभिः ।
एकैकस्तु ततो भीष्मं राजन्विव्याध पञ्चभिः ॥
स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमन् ।
तद्युद्धमासीत्तुमुलं घोरं देवासुरोपमम् ॥
पश्यतां लोकवीराणां शरशक्तिसमाकुलम् ।
स धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि ॥
चिच्छेद समरे भीष्मः शतशोथ सहस्रशः ।
तस्यातिपुरुषं कर्म लाघवं रथचारिणः ॥
रक्षणं चात्मनः संख्ये शत्रवोऽप्यभ्यपूजयन् ।
`अक्षतः क्षपयित्वान्यानसङ्ख्येयपराक्रमः ॥
आनिनाय स काश्यस्य सुताः सागरगासुतः ।' तान्विनिर्जित्य तु रणे सर्वशस्त्रभृतां वरः ॥
कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति ।
ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः ॥
अभ्यगच्छदमेयात्मा भीष्मं शान्तनवं रणे ।
वारणं जघने भिन्दन्दन्ताभ्यामपरो यथा ॥
वासितामनुसंप्राप्तो यूथपो बलिनां वरः ।
स्त्रीकामस्तिष्ठतिष्ठेति भीष्ममाह स पार्थिवः ॥
साल्वराजो महाबाहुरमर्षेण प्रचोदितः ।
ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः ॥
तद्वाक्याकुलितः क्रोधाद्विधूमोग्निरिव ज्वलन् ।
विततेषुधनुष्पाणिर्विकुञ्चितललाटभृत् ॥
क्षत्रधर्मं समास्थाय व्यपेतभयसंभ्रमः ।
निवर्तयामास रथं साल्वं प्रति महारथः ॥
निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते ।
प्रेक्षकाः समपद्यन्त भीष्मसाल्वसमागमे ॥
तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे ।
अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ ॥
ततो भीष्मं शान्तनवं शरैः शतसहस्रशः ।
साल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः ॥
पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं साल्वेन ते नृपाः ।
विस्मिताः समपद्यन्त साधुसाध्विति चाब्रुवन् ॥
लाघवं तस्य ते दृष्ट्वा समरे सर्वपार्थिवाः ।
अपूजयन्त संहृष्टा वाग्भिः साल्वं नराधिपम् ॥
क्षत्रियाणां ततो वाचः श्रुत्वा परपुञ्जयः ।
क्रुद्धः शान्तनवो भीष्मस्तिष्ठतिष्ठेत्यभाषत ॥
सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः ।
यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट् ॥
ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः ।
तेनाश्वांश्चतुरोऽमृद्गात्साल्वराजस्य भूपते ॥
अस्त्रैरस्त्राणि संवार्य साल्वराजस्य कौरवः ।
भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् ॥
अस्त्रेण चास्याथैन्द्रेण न्यवधीत्तुरगोत्तमान् ।
कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा ॥
जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् ।
ततः साल्वः स्वनगरं प्रययौ भरतर्षभ ॥
स्वराज्यमन्वशाच्चैव धर्मेण नृपतिस्तदा ।
राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः ॥
स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जयाः ।
एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः ॥
प्रययौ हास्तिनपुरं यत्र राजा स कौरवः ।
विचित्रवीर्यो धर्मात्मा प्रशास्ति वसुधामिमाम् ॥
यथा पितास्य कौरव्यः शान्तनुर्नृपसत्तमः ।
सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप ॥
वनानि सरितश्चैव शैलांश्च विनिधान्द्रुमान् ।
अक्षतः क्षपयित्वाऽरीन्सङ्ख्येऽसङ्ख्येयविक्रमः ॥
आनयामास काश्यस्य सुताः सागरगासुतः ।
स्नुषा इव स धर्मात्मा भगिनीरिव चानुजाः ॥
यथा दुहितश्चैव परिगृह्य ययौ कुरून् ।
आनिन्ये स महाबाहुर्भ्रातुः प्रियचिकीर्षया ॥
ताः सर्वगुणसंपन्ना भ्राता भ्रात्रे यवीयसे ।
भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः ॥
एवं धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् ।
भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे ॥
सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् । विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता ।
ज्येष्ठा तासामिदं वाक्यमब्रवीद्धसती तदा ॥
मया सौभपतिः पूर्वं मनसा हि वृतः पतिः ।
तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः ॥
मया वरयितव्योऽभूत्साल्वस्तस्मिन्स्वयंवरे ।
एतद्विज्ञाय धर्मज्ञ धर्मतत्त्वं समाचर ॥
एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि ।
चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः ॥
`अन्यसक्ता त्वियं कन्या ज्येष्ठा त्वम्बा मया जिता ।
वाचा दत्ता मनोदत्ता कृतमङ्गलवाचना ॥
निर्दिष्टा तु परस्यैव सा त्याज्या परचिन्तिनी । इत्युक्त्वा चानुमान्यैव भ्रातरं स्ववशानुगम् ॥'
विनिश्चित्य स धर्मज्ञो ब्राह्मणैर्वेदपारगैः ।
अनुजज्ञे तदा ज्येष्ठामम्बां काशिपतेः सुताम् ॥
अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे ।
भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा ॥
तयोः पाणी गृहीत्वा तु रूपयौवनदर्पितः ।
विचित्रवीर्यो धर्मात्मा नाम्बामैच्छत्कथंचन ॥
`अम्बामन्यस्य कीर्त्यन्तीमब्रवीच्चारुदर्शनाम् ।
विचित्रवीर्य उवाच ।
पापस्य फलमेवैष कामोऽसाधुर्निरर्थकः ।
परतन्त्रोपभोगो मामार्य नाऽऽयोक्तुमर्हसि ॥
भीष्म उवाच ।
प्रातिष्ठच्छान्तनोर्वंशस्तात यस्य त्वमन्वयः ।
अकामवृत्तो धर्मात्मन्साधु मन्ये मतं तव ॥
इत्युक्त्वाम्बां समालोक्य विधिवद्वाक्यमब्रवीत् ।
विसृष्टा ह्यसि गच्छ त्वं यथाकाममनिन्दिते ॥
नानियोज्ये समर्थोऽहं नियोक्तुं भ्रातरं प्रियम् ।
अन्यबावगतां चापि को नारीं वासयेद्गृहे ॥
अतस्त्वां न नियोक्ष्यामि अन्यकामासि गम्यताम् ।
अहमप्यूर्ध्वरेता वै निवृत्तो दारकर्मणि ॥
न संबन्धस्तदावाभ्यां भविता वै कथंचन ।
वैशंपायन उवाच ।
इत्युक्ता सा गता तत्र सखीभिः परिवारिता ॥
निर्दिष्टा हि शनै राजन्साल्वराजपुरं प्रति ।
अथाम्बा साल्वंमागम्य साऽब्रवीत्प्रतिपूज्य तं ॥
पुरा निर्दिष्टभावा त्वामागतास्मि वरानन ।
देवव्रतं समुत्सृज्य सानुजं भरतर्षभम् ॥
प्रतिगृह्णीष्व भद्रं ते विधिवन्मां समुद्यताम् ॥
वैशंपायन उवाच ।
तयैवमुक्तः साल्वोपि प्रहसन्निदमब्रवीत् ।
निर्जिताऽसीह भीष्मेण मां विनिर्जित्य राजसु ॥
अन्येन निर्जितां भद्रे विसृष्टां तेन चालयात् ।
न गृह्णामि वरारोहे तत्र चैव तु गम्यताम् ॥
वैशंपायन उवाच ।
इत्युक्ता सा समागम्य कुरुराज्यमनुत्तमम् ।
अम्बाब्रवीत्ततो भीष्मं त्वयाऽहं सहसा हृता ॥
क्षत्रधर्ममवेक्षस्व त्वं भर्ता मम धर्मतः ।
यां यः स्वयंवरे कन्यां निर्जयेच्छौर्यसंपदा ॥
राज्ञः सर्वान्विनिर्जित्य स तामुद्वाहयेद्ध्रुवम् ।
अतस्त्वमेव भर्ता मे त्वयाऽहं निर्जिता यतः ॥
तस्माद्वहस्व मां भीष्म निर्जितां संसदि त्वया ।
ऊर्ध्वरेता ह्यहमिति प्रत्युवाच पुनःपुनः ॥
भीष्मं सा चाब्रवीदम्बा यथाजैषीस्तथा कुरु ।
एवमन्वगमद्भीष्मं षट्समाः पुष्करेक्षणा ॥
ऊर्ध्वरेतास्त्वहं भद्रे विवाहविमुखोऽभवम् ।
तमेव साल्वं गच्छ त्वं यः पुरा मनसा वृतः ॥
अन्यसक्तं किमर्थं त्वमात्मानमवदः पुरा ।
अन्यसक्तां वधूं कन्यां वासयेत्स्वगृहे न हि ॥
नाहमुद्वाहयिष्ये त्वां मम भ्रात्रे यवीयसे ।
विचित्रवीर्याय शुभे यथेष्टं गम्यतामिति ॥
भूयः साल्वं समभ्येत्य राजन्गृह्णीष्व मामिति ।
नाहं गृह्णाम्यन्यजितामिति साल्वनिराकृता ॥
ऊर्ध्वरेतास्त्वहमिति भीष्मेण च निराकृता ।
अम्बा भीष्मं पुनः साल्वं भीष्मं साल्वं पुनः पुनः ॥
गमनागमनेनैवमनैषीत्षट् समा नृप ।
अश्रुभिर्भूमिमुक्षन्ती शोचन्ती सा मनस्विनी ॥
पीनोन्नतकुचद्वन्द्वा विशालजघनेक्षणा ।
श्रोणीभरालसगमा राकाचन्द्रनिभानना ॥
वर्षत्कादम्बिनीमूर्ध्नि स्फुरन्ती चञ्चलेव सा । सा ततो द्वादश समा बाहुदामभितो नदीम् ।
पार्श्वे हिमवतो रम्ये तपो घोरं समाददे ॥
संक्षिप्तकरणा तत्र तप आस्थाय सुव्रता ।
पादाङ्गुष्ठेन साऽतिष्ठदकम्पन्त ततः सुराः ॥
तस्यास्तत्तु तपो दृष्ट्वा सुराणां क्षोभकारकम् ।
विस्मितश्चैव हृष्टश्च तस्यानुग्रहबुद्धिमान् ॥
अनन्तसेनो भगवान्कुमारो वरदः प्रभुः ।
मानयन्राजपुत्रीं तां ददौ तस्यै शुभां स्रजम् ॥
एषा पुष्करिणी दिव्या यथावत्समुपस्थिता ।
अम्बे त्वच्छोकशमनी माला भुवि भविष्यति ॥
एतां चैव मया दत्तां मालां यो धारयिष्यति ।
सोऽस्य भीष्मस्य निधने कारणं वै भविष्यति ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि नवाधिकशततमोऽध्यायः ॥ 109 ॥

1-109-13 आहूयेति ब्राह्मः ॥ 1-109-14 मिथुनेन गृहीतेनेत्यार्षः ॥ 1-109-15 वित्तेनेत्यासुरः । बलेनेति राक्षसः । अनुमान्येति गान्धर्वः । प्रमत्तामिति पैशाचः । स्वयमन्ये इति प्राजापत्यः ॥ 1-109-16 आर्षं विधिं यज्ञम् । तेन दैव उक्तः । अष्टमं राक्षसं विवाहम् ॥ 1-109-17 प्रशंसति । स्वयंवरमिति ॥ 1-109-24 प्रकीर्यद्भिर्भऊषणैरुपलक्षिता अनुसस्रुरिति तृतीयेनान्वयः ॥ 1-109-43 वृषौ रेतःसेककामौ गजौ गोवृषावेव वा तत्साहचर्याद्वासिता पुष्पिणी गौस्तदन्तरे वन्निमित्तम् ॥ 1-109-52 जीवन्तं प्राणमात्रावशेषितम् ॥ 1-109-58 काश्यस्य काशिराजस्य । अनुजाः कनिष्ठाः ॥ 1-109-71 अम्बां दृष्ट्वेति शेषः । अब्रवीत् भीष्ममिति शेषः ॥ नवाधिकशततमः ॥ 109 ॥