अध्यायः 112

विचित्रवीर्यभार्ययोरम्बिकाम्बालिकयोः पुत्रोत्पादनाय सत्यवत्या नियुक्तेन भीष्मेण तदनङ्गीकारः ॥ 1 ॥

वैशंपायन उवाच ।
ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी ।
पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत ॥
समाश्वास्य स्नुषे ते च भर्तृशोकनिपीडिते । धर्मं च पितृवंशं च मातृवंशं च भामिनी ।
प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् ॥
`दुःखार्दिता तु सा देवी मज्जन्ती शोकसागरे । शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः ।'
त्वयि पिण्डश्च कीर्तिश्च संतानश्च प्रतिष्ठितः ॥
`भ्राता विचित्रवीर्यस्ते भूतानामन्तमेयिवान् ।' यथाकर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् ।
यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः ॥
वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च ।
विविधास्त्वं श्रुतीर्वेत्थ वेदाङ्गानि च सर्वशः ॥
व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये ।
प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव ॥
तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर ।
कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि ॥
मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते ।
बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ ॥
इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे ।
रूपयौवनसंपन्ने पुत्रकामे च भारत ॥
तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः ।
मन्नियोगान्महाबाहो धर्मं कर्तुमिहार्हसि ॥
राज्ये चैवाभिषिच्यस्व भारताननुशाधि च ।
दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् ॥
वैशंपायन उवाच ।
तथोच्यमानो मात्रा स सुहृद्भिश्च परन्तपः ।
इत्युवाचाथ धर्मात्मा धर्म्यमेवोत्तरं वचः ॥
असंशयं परो धर्मस्त्वया मातरुदाहृतः ।
त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै परां ॥
जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे ।
स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः ॥
परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः ।
यद्वाऽप्यधिकमेताभ्यां न तु सत्यं कथंचन ॥
त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः ।
ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत् ॥
प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्मताम् ।
त्यजेच्छब्दं तथाऽऽकाशं सोमः शीतांशुतां त्यजेत् ॥
विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् ।
न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथंचन ॥
`तन्न जात्वन्यथा कुर्यां लोकानामपि संक्षये । अमरत्वस्य वा हेतोस्त्रैलोक्यस्य धनस्य च ॥'
एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा ।
माता सत्यवती भीष्ममुवाच तदनन्तरम् ॥
जानामि ते स्थितिं सत्ये परां सत्यपराक्रम ।
इच्छन्सृजेथास्त्रींल्लोकानन्यांस्त्वं स्वेन तेजसा ॥
जानामि चैवं सत्यं तन्मदर्थे यच्च भाषितम् ।
आपद्धर्मं त्वमावेक्ष्य वह पैतामहीं धुरम् ॥
यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् ।
सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप ॥
`आत्मनश्च हितं तात प्रियं च मम भारत ।' लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् ।
धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् ॥
राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः ।
सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते ॥
शान्तनोरपि संतानं यथा स्यादक्षयं भुवि ।
तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् ॥
श्रुत्वा तं प्रतिपद्यस्व प्राज्ञैः सह पुरोहितैः ।
आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्वादशाधिकशततमोऽध्यायः ॥ 112 ॥

1-112-11 अभिषिच्यस्व अभिषेचय । आत्मानमिति शेषः । कुरु अङ्गीकुरु । मा निमज्जीर्मा निमज्जय ॥ 1-112-14 त्वदन्तरेत्वन्निमित्तम् ॥ 1-112-20 भूरिद्रविणतेजसा बहुबलोत्साहवता ॥ द्वादशाधिकशततमोऽध्यायः ॥ 112 ॥