अध्यायः 114
सत्यवत्या स्वस्मिन्कन्यात्वावस्थायां व्यासोत्पत्तिकथनम् ॥ 1 ॥
स्मरणमात्रादागतेन व्यासेन सह सत्यवत्याः संवादः ॥ 2 ॥ व्यासेन
अम्बिकाम्बालिकलोः पुत्रोत्पादनाङ्गीकारः ॥ 3 ॥
पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये ।
वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु ॥
ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् ।
विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः ॥
`वैशंपायन उवाच ।
भीष्मस्य तु वचः श्रुत्वा धर्महेत्वर्थसंहितम् ।
माता सत्यवती भीष्मं पुनरेवाभ्यभाषत ॥
औचथ्यमधिकृत्येदमङ्गं च यदुदाहृतम् ।
पौराणी श्रुतिरित्येषा प्राप्तकालमिदं कुरु ॥
त्वं हि पुत्र कुलस्यास्य ज्येष्ठः श्रेष्ठश्च भारत ।
यथा च ते पितुर्वाक्यं मम कार्यं तथाऽनघ ॥
मम पुत्रस्तव भ्राता यवीयान्सुप्रियश्च ते ।
बाल एव गतः स्वर्गं भारतो भरतर्षभ ॥
इमे महिष्यौ तस्येह काशिराजसुते उभे ।
रूपयौवनसंपन्ने पुत्रकामे च भारत ॥
धर्म्यमेतत्परं ज्ञात्वा सन्तानाय कुलस्य च ।
आभ्यां मम नियोगात्तु धर्मं चरितुमर्हसि ॥
भीष्म उवाच ।
असंशयं परो धर्मस्त्वयाः मातः प्रकीर्तितः ।
त्वमप्येतां प्रतिज्ञां तु वेत्थ या मयि वर्तते ॥
अमरत्वस्य वा हेतोस्त्रैलोक्यसदनस्य वा ।
उत्सृजेयमहं प्राणान्न तु सत्यं कथंचन ॥
सत्यवत्युवाच ।
जानामि त्वयि धर्मज्ञ सत्यं सत्यपराक्रम ।
इच्छंस्त्वमिह लोकांस्त्रीन्सृजेरन्यानरिन्दम ॥
यथा तु नः कुलं चैव धर्मश्च न पराभवेत् ।
सुहृदश्च प्रहृष्टाः स्युस्तथा त्वं कर्तुमर्हसि ॥
भीष्म उवाच ।
त्वमेव कुलवृद्धासि गौरवं तु परं त्वयि ।
सोपायं कुलसन्ताने वक्तुमर्हसि नः परम् ॥
स्त्रियो हि परमं गुह्यं धारयन्ति सदा कुले ।
पुरुषांश्चैव मायाभिर्बह्वीभिरुपगृह्णते ॥
सा सत्यवति संपश्य धर्मं सत्यपरायणे ।
यथा न जह्यां सत्यं च न सीदेच्च कुलं हि नः ॥'
वैशंपायन उवाच ।
ततः सत्यवती भीष्मं वाचा संसज्जमानया ।
विहसन्तीव सव्रीडमिदं वचनमब्रवीत् ॥
सत्यमेतन्महाबाहो यथा वदसि भारत ।
विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य नः ॥
न ते शक्यमनाख्यातुमापद्धर्मं तथाविधम् ।
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः ॥
`यत्त्वं वक्ष्यसि तत्कार्यमस्माभिरिति मे मतिः ।'
तस्मान्निशम्य सत्यं मे कुरुष्व यदनन्तरम् ।
`शृणु भीष्म वचो मह्यं धर्मार्थसहितं हितम् ॥
न च विस्रम्भकथितं भवान्सूचितुमर्हति ।
यस्तु राजा वसुर्नाम श्रुतस्ते भरतर्षभ ॥
तस्य शुक्लादहं मत्स्या धृता कुक्षौ पुरा किल ।
मातरं मे जलाद्धृत्वा दाशः परमधर्मवित् ॥
मां तु स्वगृहमानीय दुहितृत्वेऽभ्यकल्पयत् ।
धर्मयुक्तः स धर्मेण पिता चासीत्ततो मम ॥'
धर्मयुक्तस्य धर्मार्थं पितुरासीत्तरी मम ।
सा कदाचिदहं तत्र गता प्रथमयौवनम् ॥
अथ धर्मविदां श्रेष्ठः परमर्षिः पराशरः ।
आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् ॥
स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा ।
सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं वचः ।
उक्त्वा जन्म कुलं मह्यं नासि दाशसुतेति च ॥
तमहं शापभीता च पितुर्भीता च भारत ।
वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ॥
`प्रेक्ष्य तांस्तु महाभागान्पारावारे ऋषीन्स्थितान् ।
यमुनातीरविन्यस्तान्प्रदीप्तानिव पावकान् ॥
पुरस्तादरुणश्चैव तरुणः संप्रकाशते ।
येनैषा ताम्रवस्त्रेव द्यौः कृता प्रविजृम्भिता ॥
उक्तमात्रो मया तत्र नीहारमसृजत्प्रभुः ।
पराशरः सत्यधृतिर्द्वीपे च यमुनाम्भसि ॥'
अभिभूय स मां बालां तेजसा वशमानयत् ।
तमसा लोकमावृत्य नौगतामेव भारत ॥
मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः ।
तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः ॥
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् ।
द्वोपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ॥
कन्यात्वं च ददौ प्रीतः पुनर्विद्वांस्तपोधनः ।
तस्य वीर्यमहं दृष्ट्वा तथा युक्तं महात्मनः ॥
विस्मिता व्यथिता चैव प्रादामात्मानमेव च ।
ततस्तदा महात्मा स कन्यायां मयि भारत ।
प्रहृष्टोऽजनयत्पुत्रं द्वीप एव पराशरः ॥'
पाराशर्यो महायोगी स बभूव महानृषिः ।
कन्यापुत्रो मम पुरा द्वैपायन इति श्रुतः ॥
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः ।
लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च ॥
सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः ।
सद्योत्पन्नः स तु महान्सह पित्रा ततो गतः ॥
स नियुक्तो मया व्यक्तं त्वया चाप्रतिमद्युतिः ।
भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति ॥
स हि मामुक्तवांस्तत्र स्मरेः कृच्छ्रेषु मामिति ।
तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि ॥
तव ह्यनुमते भीष्म नियतं स महातपाः ।
विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति ॥
वैशंपायन उवाच ।
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् ।
`देशकालौ च जानासि क्रियतामर्थसिद्धये ।'
धर्ममर्थं च कामं च त्रीनेतान्योनुपश्यति ॥
अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् ।
कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् ॥
यो विचिन्त्य धिया धीरो व्यवस्यति स बुद्धिमान् ।
तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः ॥
उक्तं भवत्या यच्छ्रेयस्तन्मह्यं रोचते भृशम् ।
वैशंपायन उवाच ।
ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन ॥
कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् ।
स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् ॥
प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन ।
तस्मै पूजां ततः कृत्वा सुताय विधिपूर्वकम् ॥
परिष्वज्य च बाहुभ्यां प्रस्रवैरभ्यषिञ्चत ।
मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तु ॥
तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च ।
मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् ॥
भवत्या यदभिप्रेतं तदहं कर्तुमागतः ।
शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव ॥
तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये ।
स च तां प्रतिजग्राह विधिमन्मन्त्रपूर्वकम् ॥
पूजितो मन्त्रपूर्वं तु विधिवत्प्रीतिमाप सः ।
तमासनगतं माता पृष्ट्वा कुशलमव्ययम् ॥
सत्यवत्यथ वीक्ष्यैनमुवाचेदमनन्तरम् ।
मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे ॥
तेषां पिता यथा स्वीमी तथा माता न संशयः ।
विधानविहितः स त्वं यथा मे प्रथमः सुतः ॥
विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः ।
यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः ॥
भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे ।
अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः ॥
बुद्धिं न कुरुतेऽपत्ये तथा राज्याऽनुशासने ।
स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च ॥
भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ ।
अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च ॥
आनृशंस्याच्च यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि ।
यवीयसस्व भ्रातुर्भार्ये सुरसुतोपमे ॥
रूपयौवनसंपन्ने पुत्रकामे च धर्मतः ।
तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक ॥
अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च ।
व्यास उवाच ।
वेत्थ धर्मं सत्यवति परं चापरमेव च ॥
तथा तव महाप्राज्ञे धर्मे प्रणिहिता मतिः ।
तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् ॥
ईप्सितं ते करिष्यामि दृष्टं ह्येतत्सनातनम् ।
भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् ॥
व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया ।
संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः ॥
नहि मामव्रतोपेता उपेयात्काचिदङ्गना ।
सत्यवत्युवाच ।
सद्यो यथा प्रपद्येते देव्यौ गर्भं तथा कुरु ॥
अराजकेषु राष्ट्रेषु प्रजाऽनाथा विनश्यति ।
नश्यन्ति च क्रियाः सर्वा नास्ति वृष्टिर्न देवता ॥
कथं चाराजकं राष्ट्रं शक्यं धारयितुं प्रभो ।
तस्माद्गर्भं समाधत्स्व भीष्मः संवर्धयिष्यति ॥
व्यास उवाच ।
यदि पुत्रः प्रदातव्यो मया भ्रातुरकालिकः ।
विरूपतां मे सहतां तयोरेतत्परं व्रतम् ॥
यदि मे सहते गन्धं रूपं वेषं तथा वपुः ।
अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् ॥
`तस्यापि च शतं पुत्रा भवितारो न संशयः ।
गोप्तारः कुरुवंशस्य भवत्याः शोकनाशनाः ॥'
वैशंपायन उवाच ।
एवमुक्त्वा महातेजा व्यासः सत्यवतीं तदा ।
शयने सा च कौसल्या शुचिवस्त्रा ह्यलङ्कृता ॥
समागमनमाकाङ्क्षेदिति सोऽन्तर्हितो मुनिः ।
ततोऽभिगम्य सा देवी स्नुषां रहसि संगताम् ॥
धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् ।
कौसल्ये धर्मतन्त्रं त्वां यद्ब्रवीमि निबोध तत् ॥
भरतानां समुच्छेदो व्यक्तं मद्भाग्यसंक्षयात् ।
व्यथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम् ॥
भीष्मो बुद्धिमदान्मह्यं कुलस्यास्य विवृद्धये ।
सा च बुद्धिस्त्वय्यधीना पुत्रि प्रापय मां तथा ॥
नष्टं च भारतं वंशं पुनरेव समुद्धऱ ।
पुत्रं जनय सुश्रोणि देवराजसमप्रभम् ॥
स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः ।
`एवमुक्त्वा तु सा देवी स्नुषां सत्यवती तदा ॥'
सा धर्मतोऽनुनीयैनां कथंचिद्धर्मचारिणीम् ।
भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुर्दशाधिकशततमोऽध्यायः ॥ 114 ॥
1-114-16 संसज्जमानया स्खलनवत्या ॥ 1-114-17
विश्वासादन्तरङ्गत्वबुद्धेः । संतानाय विस्ताराय ॥ 1-114-18 आपद्धर्ममवेक्ष्येति
शेषः ॥ 1-114-38 व्यक्तं निःसंशयम् ॥ 1-114-42 अनुबध्यतेऽनेनेत्यनुबन्धः फलं ॥ 1-114-45 काली सत्यवती ॥ 1-114-47 प्रस्रवैः स्नेहस्रुतस्तनैः ॥ 1-114-53
विधानविहितः पूर्वपुण्यप्रसूतः ॥ 1-114-56 व्यपेक्षया स्नेहानुबन्धेन ॥ 1-114-58 आनृशंस्यादनैष्ठुर्यात् ॥ 1-114-63 देव्यौ राजभार्ये ॥ 1-114-74 यथा
भीष्मेणोक्तं तथा मां प्रापय इष्टार्थेन योजय ॥ 1-114-76 उद्वक्ष्यति धुरं धुर
उद्वहनंम करिष्यति ॥ चतुर्दशाधिकशततमोऽध्यायः ॥ 114 ॥