अध्यायः 116
माण्डव्योपाख्यानम् ॥ 1 ॥ राजाज्ञया माण्डव्यस्य शूलारोपणम् ॥ 2 ॥
जनमेजय उवाच ।
किं कृतं कर्म धर्मेण येन शापमुपेयिवान् ।
कस्य शापाच्च ब्रह्मर्षेः शूद्रयोनावजायत ॥
वैशंपायन उवाच ।
बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः ।
धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ॥
`स तीर्थयात्रां विचरन्नाजगाम यदृच्छया ।
संनिकृष्टानि तीर्थानि ग्रामाणां यानि कानि च ।
तत्राश्रमपदं कृत्वा वसति स्म महामुनिः ॥'
स आश्रमपदद्वारि वृक्षमूले महातपाः ।
ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः ॥
तस्य कालेन महता तस्मिंस्तपसि वर्ततः ।
तमाश्रममनुप्राप्ता दस्यवो लोप्त्रहारिणः ॥
अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ ।
`तामेव वसतिं जग्मुस्ते ग्रामाल्लोप्त्रहारिणः ॥
यस्मिन्नावसथे शेते स मुनिः संशितव्रतः ।'
ते तस्यावसथे लोप्त्रं दस्यवः कुरुसत्तम ॥
निधाय च भयाल्लीनास्तत्रैवानागते बले ।
तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् ॥
आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः ।
तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् ॥
कतरेण पथा याता दस्यवो द्विजसत्तम ।
तेन गच्छामहे ब्रह्मन्यथा शीघ्रतरं वयम् ॥
तथा तु रक्षिमां तेषां ब्रुवतां स तपोधनः ।
न किंचिद्वचनं राजन्नब्रवीत्साध्वसाधु वा ॥
ततस्ते राजपुरुषा विचिन्वानास्तमाश्रमम् ।
ददृशुस्तत्र लीनांस्तांश्चोरांस्तद्द्रव्यमेव च ॥
ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति ।
संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् ॥
तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति ।
स रक्षिभिस्तैरज्ञातः शूले प्रोतो महातपाः ॥
ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा ।
प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ॥
शूलस्थः स तु धर्मात्मा कालेन महता ततः ।
निराहारोऽपि विप्रर्षिर्मरणं नाभ्यपद्यत ॥
धारयामास च प्राणानृषींश्च समुपानयत् ।
शूलाग्रे तप्यमानेन तपस्तेन महात्मना ॥
सन्तापं परमं जग्मुर्मुनयस्तपसाऽन्विताः ।
ते रात्रौ शकुना भूत्वा सन्निपत्त्य तु भारत ।
दर्शन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् ॥
श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि ।
येनेह समनुप्राप्तं शूले दुःखभयं महत् ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षोडशाधिकशततमोऽध्यायः ॥ 116 ॥
1-116-1 कस्य कीदृशस्य ॥ 1-116-6 लोप्त्रं लुप्यत इति व्युत्पत्त्या चोरापहृतं धनम् ॥ 1-116-8 बले राजसैन्ये ॥ 1-116-13 संयम्य चोरवन्निगृह्य ॥ 1-116-14 प्रोतोऽर्पितः ॥ 1-116-17 समुपानयात् स्वसमीपमिति शेषः ॥ 1-116-18 दर्शयन्तः स्वानि रूपामि प्रकाशयन्तः ॥ षोडशाधिकशततमोऽध्यायः ॥ 116 ॥