अध्यायः 123

सभार्यस्य पाण्डोर्मृगयार्थं वनगमनम् ॥ 1 ॥ तत्र मृगरूपस्य मृग्या मैथुनं चरतः किन्दमस्य मुनेर्हननम् ॥ 2 ॥ मैथुनकाले त्वं मरिष्यसीति किन्दमेन पाण्डुं प्रति शापः ॥ 3 ॥

वैशंपायन उवाच ।
धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् ।
भीष्माय सत्यवत्यै च मात्रे चोपजहार सः ॥
विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् ।
सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ॥
ततः सत्यवतीं भीष्मं कौसल्यां च यशस्विनीम् ।
शुभैः पाण्डुर्जितैरर्थैस्तोषयामास भारत ॥
ननन्द माता कौसल्या तमप्रतिमतेजसम् ।
जयन्तमिव पौलोमी परिष्वज्य नर्षभम् ॥
तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः ।
अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ॥
संप्रयुक्तस्तु कुन्त्या च माद्र्या च भरतर्षभ ।
जिततन्द्रिस्तदा पाण्डुर्बभूव वनगोचरः ॥
हित्वा प्रासादनिलयं शुभानि शयनानि च ।
अरण्यनित्यः सततं बभूव मृगयापरः ॥
स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरः ।
उवास गिरिपृष्ठेषु महाशालवनेषु च ॥
रराज कुन्त्या माद्र्या च पाण्डुः सह वने चरन् ।
करेण्वोरिव मध्यस्थः श्रीमान्पौरन्दरो गजः ॥
भारतं सह भार्याभ्यां खङ्गबाणधनुर्धरम् । विचित्रकवचं वीरं परमास्त्रविदं नृपम् ।
देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः ॥
तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः ।
उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः ॥
तदासाद्य महारण्यं मृगव्यालनिषेवितम् ।
तत्र मैथुनकालस्थं ददर्श मृगयूथपम् ॥
ततस्तं च मृगीं चैव रुक्मपुङ्खैः सुपत्रिभिः ।
निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः ॥
स च राजन्महातेजा ऋषिपुत्रस्तपोधनः ।
भार्यया सह तेजस्वी मृगरूपेण सङ्गतः ॥
स संयुक्तस्तया मृग्या मानुषीं वाचमीरयन् ।
क्षणेन पतितो भूमौ विललापातुरो मृगः ॥
मृग उवाच ।
काममन्युवशं प्राप्ता बुद्ध्यन्तरगता अपि ।
वर्जयन्ति नृशंसानि पापेष्वपि रता नराः ॥
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः ।
विधिपर्यागतानर्थान्प्रज्ञावान्प्रतिपद्यते ॥
शस्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत ।
कामलोभाभिभूतस्य कथं ते चलिता मतिः ॥
पाण्डुरुवाच ।
शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता ।
राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि ॥
अच्छद्मनाऽमायया च मृगाणां वध इष्यते ।
स एव धर्मो राज्ञां तु तद्धि त्वं किं नु गर्हसे ॥
अगस्त्यः सत्रमासीनश्चकार मृगयामृषिः ।
आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने ॥
प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे ।
अगस्त्यस्याभिचारेण युष्माकं विहितो वधः ॥
न रिपून्वै समुद्दिश्य विमुञ्चन्ति नराः शरान् ।
रन्ध्र एषां विशेषेण वधकालः प्रशस्यते ॥
प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा ।
उपायैर्विविधैस्तीक्ष्णैः कस्मान्मृग विगर्हसे ॥
मृग उवाच ।
नाहं घ्न्तं मृगन्राजन्विगर्हे चात्मकारणात् ।
मैथुनं तु प्रतीक्ष्यं मे त्वयेहाद्यानृशंस्यतः ॥
सर्वभूतहिते काले सर्वभूतेप्सिते तथा ।
को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने ॥
अस्यां मृग्यां च राजेन्द्र हर्षान्मैथुनमाचरम् ।
पुरुषार्थफलं कर्तुं तत्त्वया विफलीकृतम् ॥
पौरवाणां महाराज तेषामक्लिष्टकर्मणाम् ।
वंशे जातस्य कौरव्य नानुरूपमिदं तव ॥
नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् ।
अस्वर्ग्यमयशस्यं चाप्यधर्मिष्ठं च भारत ॥
स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् ।
नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम् ॥
त्वया नृशंसकर्तारः पापाचाराश्च मानवाः ।
निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः ॥
किं कृतं ते नरश्रेष्ठ मामिहानागसं घ्नतः ।
मुनिं मूलफलाहारं मृगवेषधरं नृप ॥
वसमानमरण्येषु नित्यं शमपरायणम् ।
त्वयाऽहं हिंसितो यस्मात्तस्मात्त्वामप्यनागसः ॥
द्वयोर्नृशंसकर्तारमवशं काममोहितम् ।
जीवितान्तकरो भावो मैथुने समुपैष्यति ॥
अहं हि किंदमो नाम तपसा भावितो मुनिः ।
व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् ॥
मृगो भत्वा मृगैः सार्धं चरामि गहने वने ।
न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः ॥
मृगरूपधरं हत्वा मामेवं काममोहितम् ।
अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि ॥
प्रियया सह संवासं प्राप्य कामविमोहितः ।
त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि ॥
अन्तकाले हि संवासं यया गन्तासि कान्तया । प्रेतराजपुरं प्राप्तं सर्वभूतदुरत्ययम् ।
भक्त्या मतिमतां श्रेष्ठ सैव त्वाऽनुगमिष्यति ॥
वर्तमानः सुखे दुःखं यथाऽहं प्रापितस्त्वया ।
तथा त्वां च सुखं प्राप्तं दुःखमभ्यागमिष्यति ॥
वैशंपायन उवाच ।
एवमुक्त्वा सुदुःखार्तो जीवितात्स व्यमुच्यत ।
मृगः पाण्डुश्च दुःखार्तः क्षणेन समपद्यत ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रयोविंशत्यधिकशततमोऽध्यायः ॥ 123 ॥

1-123-23 रन्ध्रे विशस्त्रत्वव्यसनाक्रान्तत्वादिसमये शरान्न विमुञ्चन्तीति संबन्धः । किंत्वेषां शत्रूणां वधकालः सर्वलोकप्रसिद्धः सङ्ग्राम आभिमुख्यादिमान्स एव प्रशश्यतेऽन्यो निन्द्यत इत्यर्थः ॥ 1-123-24 प्रमत्तमसावधानम् ॥ 1-123-32 ते त्वया ॥ 1-123-34 द्वयोः स्त्रीपुंसयोर्नृशंसं निन्द्यं मैथुनासक्तयोर्वधस्तस्य कर्तारम् ॥ 1-123-39 प्राप्तं त्वा त्वाम् ॥ त्रयोविंशत्यधिकशततमोऽध्यायः ॥ 123 ॥