अध्यायः 134

पाण्डवानामायुष्यकथनम् ॥ 1 ॥ माद्र्या मैथुनप्रवृत्तस्य पाण्डोर्मरणम् ॥ 2 ॥ पाण्डवप्रलापः ॥ 3 ॥ माद्र्याः सहगमनम् ॥ 4 ॥ मृतस्य पाण्डोर्दहनादिसंस्कारः ॥ 5 ॥

`जनमेजय उवाच ।
कस्मिन्वयसि संप्राप्ताः पाण्डवा गजसाह्वयम् ।
समपद्यन्त देवेभ्यस्तेषामायुश्च किं परम् ॥
वैशंपायन उवाच ।
पाण्डवानामिहायुष्यं शृणु कौरवनन्दन ।
जगाम हास्तिनपुरं षोडशाब्दो युधिष्ठिरः ॥
भीमसेनः पञ्चदशो बीभत्सुर्वै चतुर्दशः ।
त्रयोदशाब्दौ च यमौ जग्मतुर्नागसाह्वयम् ॥
तत्र त्रयोदशाब्दानि धार्तराष्ट्रैः सहोषिताः ।
षण्मासाञ्जातुषगृहान्मुक्ता जातो घटोत्कचः ॥
षण्मासानेकचक्रायां वर्षं पाञ्चालके गृहे ।
धार्तराष्ट्रैः सहोषित्वा पञ्च वर्षाणि भारत ॥
इन्द्रप्रस्थे वसन्तस्ते त्रीणि वर्षाणि विंशतिम् ।
द्वादशाब्दानथैकं च बभूवुर्द्यूतनिर्जिताः ॥
भुक्त्वा षट्त्रिंशतं राजन्सागरान्तां वसुन्धराम् ।
मासैः षड्भिर्महात्मानः सर्वे कृष्णपरायणाः ॥
राज्ये परीक्षितं स्थाप्य दिष्टां गतिमवाप्नुवन् ।
एवं युधिष्ठिरस्यासीदायुरष्टोत्तरं शतम् ॥
अर्जुनात्केशवो ज्येष्ठस्त्रिभिर्मासैर्महाद्युतिः ।
कृष्णात्संकर्षणो ज्येष्ठस्त्रिभिर्मासैर्महाबलः ॥
पाण्डुः पञ्चमहातेजास्तान्पश्यन्पर्वते सुतान् ।
रेमे स काश्यपयुतः पत्नीभ्यां सुभृशं तदा ॥
सुपुष्पितवने काले प्रवृत्ते मधुमाधवे ।
पूर्णे चतुर्दशे वर्षे फल्गुनस्य च धीमतः ॥
यस्मिन्नृक्षे समुत्पन्नः पार्थस्तस्य च धीमतः ।
तस्मिन्नुत्तरफल्गुन्यां प्रवृत्ते स्वस्तिवाचने ॥
रक्षणे विस्मृता कुन्ती व्यग्रा ब्राह्मणभोजने । पुरोहितेन सहितान्ब्राह्मणान्पर्यवेषयत् ॥'
वैशंपायन उवाच ।
दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने ।
तान्पश्यन्पर्वते रम्ये स्वबाहुबलमाश्रितः ॥
सुपुष्पितवने काले कदाचिन्मधुमाधवे ।
भूतसंमोहने राजा सभार्यो व्यचरद्वनम् ॥
पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः ।
अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः ॥
जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् ।
पाण्डोर्वनं तत्संप्रेक्ष्य प्रजज्ञे हृदि मन्मथः ॥
प्रहृष्टमनसं तत्र विचरन्तं यथाऽमरम् ।
तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् ॥
समीक्षमाणः स तु तां वयःस्थां तनुवाससम् ।
तस्य कामः प्रवृते गहनेऽग्निरिवोद्गतः ॥
रहस्येकां तु तां दृष्ट्वा राजा राजीवलोचनाम् ।
न शशाक नियन्तुं तं कामं कामवशीकृतः ॥
`अथ सोऽष्टादशे वर्षे ऋतौ माद्रमलङ्कृताम् । आजुहाव ततः पाण्डुः परीतात्मा यशस्विनीम् ॥'
तत एनां बलाद्राजा निजग्राह रहोगताम् ।
वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् ॥
स तु कामपरीतात्मा तं शापं नान्वबुध्यत ।
माद्रीं मैथुनधर्मेण सोऽन्वगच्छद्बलादिव ॥
जीवितान्ताय कौरव्य मन्मथस्य वशं गतः ।
शापजं भयमुत्सृज्य विधिना संप्रचोदितः ॥
तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता ।
संप्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा ॥
स तया सह संगम्य भार्यया कुरुनन्दनः ।
पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा ॥
ततो माद्री समालिङ्ग्य राजानं गतचेतसम् ।
मुमोच दुःखजं शब्दं पुनः पुनरतीव हि ॥
सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ ।
आजग्मुः सहितास्तत्र यत्र राजा तथागतः ॥
ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः ।
एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः ॥
तच्छ्रुत्वा वचनं तस्यास्तत्रैवाधाय दरकान् ।
हता ।हमिति विक्रुश्च सहसैवाजगाम सा ॥
दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले ।
कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता ॥
रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान् ।
कथं त्वामत्यतिक्रान्तः शापं जानन्वनौकसः ॥
ननु नाम त्वया माद्रि रक्षितव्यो नराधिपः ।
सा कथं लोभितवती विजने त्वं नराधिपम् ॥
कथं दीनस्य सततं त्वामासाद्य रहोगताम् ।
तं विचिन्तयतः शापं प्रहर्षः समजायत ॥
धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा ।
दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः ॥
माद्र्युवाच ।
विलपन्त्या मया देवि वार्यमाणेन चासकृत् ।
आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा ॥
`वैशंपायान उवाच ।
तस्यास्तद्वचनं श्रुत्वा कुन्ती शोकाग्निदीपिता ।
पपात सहसा भूमौ छिन्नमूल इव द्रुमः ॥
निश्चेष्टा पतिता भूमौ मोहेन न चचाल सा ।
तस्मिन्क्षणे कृतस्नानमहताम्बरसंवृतम् ॥
अलङ्कारकृतं पाण्डुं शयानं शयने शुभे ।
कुन्तीमुत्थाप्य माद्री तु मोहेनाविष्टचेतनाम् ॥
आर्ये एहीति तां कुन्तीं दर्शयामास कौरव ।
पादयोः पतिता कुन्ती पुनरुत्थाय भूमिपम् ॥
रक्तचन्दनदिग्धांङ्गं महारजनवाससम् ।
सस्मितेन च वक्त्रेण वदन्तमिव भारतम् ॥
परिरभ्य ततो मोहाद्विललापाकुलेन्द्रिया ।
माद्री चापि समालिङ्ग्य राजानं विललाप सा ॥
तं तथा शायिनं पुत्रा ऋषयः सह चारणैः ।
अभ्येत्य सहिताः सर्वे शोकादश्रूण्यवर्तयन् ॥
अस्तं गतमिवादित्यं संशुष्कमिव सागरम् ।
दृष्ट्वा पाण्डुं नरव्याघ्रं शोचन्ति स्म महर्षयः ॥
समानशोका ऋषयः पाण्डवाश्च बभूविरे ।
ते समाश्वासिते विप्रैर्विलेपतुरनिन्दिते ॥
कुन्त्युवाच ।
हा राजन्कस्य नो हित्वा गच्छसि त्रिदशालयम् ।
हा राजन्मम मन्दायाः कथं माद्रीं समेत्य वै ॥
निधनं प्राप्तवान्राजन्मद्भाग्यपरिसंक्षयात् ।
युधिष्ठिरं भीमसेनमर्जुनं च यमावुभौ ॥
कस्य हित्वा प्रियान्पुत्रान्प्रयातोऽसि विशांपते ।
नूनं त्वां त्रिदशा देवाः प्रतिनन्दन्ति भारत ॥
यतो हि तप उग्रं वै चरितं ब्रह्मसंसदि ।
आवाभ्यां सहितो राजन्गमिष्यसि दिवं शुभम् ॥
आजमीढाजमीढानां कर्मणा चरतां गतिम् ।
ननु नाम सहावाभ्यां गमिष्यामीति यत्त्वया ॥
प्रतिज्ञाता कुरुश्रेष्ठ यदाऽस्मि वनमागता । आवाभ्यां चैव सहितो गमिष्यसि विशांपते ।
मुहूर्तं क्षम्यतां राजन्द्रक्ष्येऽहं च मुखं तव ॥
वैशंपायन उवाच ।
विलपित्वा भृशं चैव निःसंज्ञे पतिते भुवि ।
यथा हते मृगे मृग्यौ लुब्धैर्वनगते तथा ॥
युधिष्ठिरमुखाः सर्वे पाण्डवा वेदपरागाः ।
तेऽभ्यागत्य पितुर्मूले निःसंज्ञाः पतिता भुवि ॥
पाण्डोः पादौ परिष्वज्य विलपन्ति स्म पाण्डवाः ।
हा विनष्टाः स्म तातेति हा अनाथा भवामहे ॥
त्वद्विहीना महाप्राज्ञ कथं जीवाम बालकाः ।
लोकनाथस्य पुत्राः स्मो न सनाथा भवामहे ॥
क्षणेनैव महाराज अहो लोकस्य चित्रता ।
नास्मद्विधा राजपुत्रा अधन्याः सन्ति भारत ॥
त्वद्विनाशाच्च राजेन्द्र राज्यप्रस्खलनात्तदा ।
पाण्डवाश्च वयं सर्वे प्राप्ताः स्म व्यसनं महत् ॥
किं करिष्यामहे राजन्कर्तव्यं च प्रसीदताम् ।
भीमसेन उवाच ।
हित्वा राज्यं च भोगांश्च शतशृङ्गनिवासिना ॥
त्वया लब्धाः स्म राजेन्द्र महता तपसा वयम् ।
हित्वा मानं वनं गत्वा स्वयमाहृत्य भक्षणम् ॥
शाकमूलफलैर्वन्यैर्भरणं वै त्वया कृतम् ।
पुत्रानुत्पाद्य पितरो यमिच्छ्ति महातम्नः ॥
त्रिवर्गफलमिच्छन्तस्तस्य कालोऽयमागतः ।
अभुक्त्वैव फलं राजन्गन्तुं नार्हसि भारत ॥
इत्येवमुक्त्वा पितरं भीमोऽपि विललाप ॥
अर्जुन उवाच ।
प्रनष्टं भारतं वंशं पाण्डुना पुनरुद्धृतम् ।
तस्मिंस्तदा वनगते नष्टं राज्यमराजकम् ॥
पुनर्निःसारितं क्षत्रं पाण्डुपुत्रैश्च पञ्चभिः ।
एतच्छ्रुत्वाऽनुमोदित्वा गन्तुमर्हसि शङ्कर ॥
इत्येवमुक्त्वा पितरं विललाप धनञ्जयः ।
यमावूचतुः ।
दुःसहं च तपः कृत्वा लब्ध्वा नो भरतर्षभ ॥
पुत्रलाभस्य महतः शुश्रूषादिफलं त्वया ।
न चावाप्तं किंचिदेव पुरा दशरथो यथा ॥
एवमुक्त्वा यमौ चापि विलेपतुरथातुरौ ॥'
कुन्त्युवाच ।
अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम ।
अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय ॥
अन्विष्यामीह भर्तारमहं प्रेतवशं गतम् ।
उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् ॥
`अवाप्य पुत्रांल्लब्धार्थान्वीरपत्नीत्वमर्थये ।
वैशंपायन उवाच ।
मद्रराजसुता कुन्तीमिदं वचनमब्रवीत् ॥'
अहमेवानुयास्यामि भर्तारमपलापिनम् ।
न हि तृप्ताऽस्मि कामानां ज्येष्ठा मामनुमन्यताम् ॥
मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः ।
समुच्छिद्यामि तत्कामं कथं नु यमसादने ॥
`मम हतोर्हि राजाऽयं दिवं राजर्पिसत्तमः ।
न चैव तादृशी बुद्धिर्बान्धवाश्च न तादृशाः ॥
न चोत्सहे धारयितुं प्राणान्भर्त्रा विना कृता ।
तस्मात्तमनुयास्यामि यान्तं वैवस्वतक्षयम् ॥
वर्तेयं न समां वृत्तिं जात्वहं न सुतेषु ते ।
तथाहि वर्तमानां मामधर्मः संस्पृशेन्महान् ॥
तस्मान्मे सुतयोर्देवि वर्तितव्यं स्वपुत्रवत् । अन्वेष्यामि च भर्तारं व्रजन्तं यमसादनम् ॥'
मां हि कामयमानोऽयं राजा प्रेतवशं गतः ।
राज्ञः शरीरेण सह मामपीदं कलेवरम् ॥
दग्धव्यं सुप्रतिच्छन्नं त्वेतदार्ये प्रियं कुरु । दारकेष्वप्रमत्ता त्वं भवेश्चाभिहिता मया ।
अतोऽहं न प्रपश्यामि संदेष्टव्यं हितं तव ॥
`वैशंपायन उवाच ।
ऋषयस्तान्समाश्वास्य पाण्डवान्सत्यविक्रमान् ।
ऊचुः कुन्तीं च माद्रीं च समाश्वास्य तपस्विनः ॥
सुभगे बालपुत्रा तु न मर्तव्यं तथंचन ।
पाण्डवांश्चापि नेष्यामः कुरुराष्ट्रं परन्तपान् ॥
अधर्मेष्वर्थजातेषु धृतराष्ट्रश्च लोभवान् ।
स कदाचिन्न वर्तेत पाण्डवेषु यथाविधि ॥
कुन्त्याश्च वृष्णयो नाथाः कुन्तिभोजस्तथैव च ।
माद्र्याश्च बलिनांश्रेष्ठः शल्यो भ्राता महारथः ॥
भर्त्रा तु मरणं सार्धं फलवन्नात्र संशयः ।
युवाभ्यां दुष्करं चैतद्वदन्ति द्विजपुङ्गवाः ॥
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्यव्रते स्थिता ।
यमैश्च नियमैः पूता मनोवाक्कायजैः शुभा ॥
भर्तारं चिन्तयन्ती सा भर्तारं निस्तरेच्छुभा ।
तारितश्चापि भर्ता स्यादात्मा पुत्रस्तथैव च ॥
तस्माञ्जीवितमेवैतद्युवयोर्विद्म शोभनम् ॥
कुन्त्युवाच ।
यथा पाण्डोस्तु निर्देशस्तथा विप्रगणस्य च ।
आज्ञा शिरसि निक्षिप्ता करिष्यामि च तत्तथा ॥
यदाद्दुर्भगवन्तोऽपि तन्मन्ये शोभनं परम् ।
भर्तुश्च मम पुत्राणामात्मनश्च न संशयः ॥
माद्र्युवाच ।
कुन्ती समर्था पुत्राणां योगक्षेमस्य धारणे ।
अस्या हि न समा बुद्ध्या यद्यपि स्यादरुन्धती ॥
कुन्त्याश्च वृष्णयो नाथाः कुन्तिभोजस्तथैव च ।
नाहं त्वमिव पुत्राणां समर्था धारणे तथा ॥
साऽहं भर्तारमन्विष्ये संतृप्ता नापि भोगतः ।
भर्तृलोकस्य तु ज्येष्ठा देवी मामनुमन्यताम् ॥
धर्मज्ञस्य कृतज्ञस्य सत्यसन्धस्य धीमतः ।
पादौ परिचरिष्यामि तथार्याऽद्यानुमन्यताम् ॥
वैशंपायन उवाच ।
एवमुक्त्वा तदा राजन्मद्रराजसुता शुभा ।
ददौ कुन्त्यै यमौ माद्री शिरसाऽभिप्रणम्य च ॥
अभिवाद्य महर्षीन्सा परिष्वज्य च पाण्डवान् ।
मूर्ध्न्युपाघ्राय बहुशः पार्थानात्मसुतौ तदा ॥
हस्ते युधिष्ठिरं गृह्य माद्री वाक्यमभाषत ।
कुन्ती माता अहं धात्री युष्माकं तु पिता मृतः ॥
युधिष्ठिरः पिता ज्येष्ठश्चतुर्णां धर्मतः सदा ।
वृद्धाद्युपासनासक्ताः सत्यधर्मपरायणाः ॥
तादृशा न विनश्यन्ति नैव यान्ति पराभवम् ।
तस्मात्सर्वे कुरुध्वं वै गुरुवृत्तिमतन्द्रिताः ॥
वैशंपायन उवाच ।
ऋषीणां च पृथायाश्च नमस्कृत्य पुनःपुनः ।
आयासकृपणा माद्री प्रत्युवाच पृथां तदा ॥
माद्र्युवाच ।
ऋषीणां संनिधावेषां यथा वागभ्युदीरिता ।
दिदृक्षमाणायाः स्वर्गं न ममैषा वृथा भवेत् ॥
धन्या त्वमसि वार्ष्णेयि नास्ति स्त्री सदृशी त्वया ।
वीर्यं तेजश्च योगं च माहात्म्यं च यशस्विनाम् ॥
कुन्ति द्रक्ष्यसि पुत्राणां पञ्चानाममितौजसाम् ।
आर्या चाप्यभिवाद्या च मम पूज्या च सर्वतः ॥
ज्येष्ठा वरिष्ठा त्वं देवि भूषिता स्वगुणैः शुभैः ।
अभ्यनुज्ञातुमिच्छामि त्वया यावनन्दिनि ॥
धर्मं स्वर्गं च कीर्तिं च त्वत्कृतेऽहमवाप्नुयाम् ।
यथा तथा विधत्स्वेह मा च कार्षीर्विचारणां ॥
वैशंपायन उवाच ।
बाष्पसंदिग्धया वाचा कुन्त्युवाच यशस्विनी ।
अनुज्ञाताऽसि कल्याणि त्रिदिवे सङ्गमोऽस्तु ते ॥
भर्त्रा सह विशालिक्षि क्षिप्रमद्यैव भामिनि ।
संगतास्वर्गलोके त्वं रमेथाः शाश्वतीः समाः ॥
वैशंपायन उवाच ।
ततः पुरोहितः स्नात्वा प्रेतकर्मणि पारगः ।
हिरण्यशकलानाज्यं तिलं दधि च तण्डुलान् ॥
उदकुम्भांश्च परशुं समानीय तपस्विभिः ।
अश्वमेधाग्निमाहृत्य यथान्यायं समन्ततः ॥
काश्यपः कारयामास पाण्डोः प्रेतस्य तां क्रियाम् ।
पुरोहितोक्तविधिना पाण्डोः पुत्रो युधिष्ठिरः ॥
तेनाग्निनाऽदहत्पाण्डुं कृत्वा चापि क्रियास्तदा ।
रुदञ्छोकाभिसंतप्तः पपात भुवि पाण्डवः ॥
ऋषीन्पुत्रान्पृथां चैव विसृज्य च नृपात्मज ।' नमस्कृत्य चिताग्निस्थं धर्मपत्नी नरर्षभम् ॥
मद्रराजसुता तूर्णमन्वारोहद्यशस्विनी ॥
`अहताम्बरसंवीतो भ्रातृभिः सहितोऽनघः ।
उदकं कृतवांस्तत्र पुरोहितमते स्थितः ॥
अर्हतस्तस्य कृत्यानि शतशृङ्गनिवासिनः ।
तापसा विधिवच्चक्रुश्चारणा ऋषिभिः सह ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुस्त्रिंशदधिकशततमोऽध्यायः ॥ 134 ॥

1-134-15 मधुभाधवे चैत्रवैशाखयोः संधौ तदात्मके वसन्ते ॥ 1-134-19 वयः स्थां युवतीम् । तनुवाससं सूक्ष्मवस्त्रां किंचिद्विवृताङ्गामित्यर्थः ॥ 1-134-23 कामपरीतात्मा कामेन व्याप्तचित्तः ॥ 1-134-25 बुद्दिर्भयनिश्चयः । चेतसा विचारेण ॥ 1-134-26 कालधर्मणा मृत्युना ॥ 1-134-28 तथागतः मृतः ॥ 1-134-32 त्वामत्यतिक्रान्तो बलादाक्रान्तवान् । शोकाकुलत्वादतिशब्दस्याभ्यासः ॥ 1-134-34 प्रहर्षः कामः ॥ 1-134-36 आत्मा चित्तम् । दिष्टं शापजं दुरदृष्टम् ॥ 1-134-69 प्रेतवशं प्रेतराजवशम् । अन्विष्याम्यनुगमिष्यामि ॥ चतुस्त्रिंशदधिकशततमोऽध्यायः ॥ 134 ॥