अध्यायः 140

कृपद्रोणाश्वत्थामाचार्याणामुत्पत्तिः ॥ 1 ॥ द्रोणाचार्यस्य परशुरामादस्त्रलाभः ॥ 2 ॥

जनमेजय उवाच ।
कृपस्यापि मम ब्रह्मन्संभवं वक्तुमर्हसि ।
शरस्तम्बात्कथं जज्ञे कथं वाऽस्त्राण्यवाप्तवान् ॥
वैशंपायन उवाच ।
महर्षेर्गौतमस्यासीच्छरद्वान्नाम गौतमः ।
पुत्रः किल महाराज जातः सहशरैर्विभो ॥
न तस्य वेदाध्ययने तथा बुद्धिरजायत ।
यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप ॥
अधिजग्मुर्यथा वेदास्तपसा ब्रह्मचारिणः ।
तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह ॥
धनुर्वेदपरत्वाच्च तपसा विपुलेन च ।
भृशं सन्तापयामास देवराजं स गौतमः ॥
ततो जालवतीं नाम देवकन्यां सुरेश्वरः ।
प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव ॥
सा हि गत्वाऽऽश्रमं तस्य रमणीयं शरद्वतः ।
धनुर्बाणधरं बाला लोभयामास गौतमम् ॥
तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने ।
लोकेऽप्रतिमसंस्थानां प्रोत्फुल्लनयनोऽभवत् ॥
धनुश्च हि शरास्तस्य कराभ्यामपतन्भुवि ।
वेपथुश्चास्य सहसा शरीरे समजायत ॥
स तु ज्ञानगरीयस्त्वात्तपसश्च समर्थनात् ।
अवतस्थे महाप्राज्ञो धैर्येण परमेण ह ॥
यस्तस्य सहसा राजन्विकारः समदृश्यत ।
तेन सुस्राव रेतोऽस्य स च तन्नान्वबुध्यत ॥
धनुश्च सशरं त्यक्त्वा तथा कृष्णाजिनानि च ।
स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः ॥
जगाम रेतस्तत्तस्य शरस्तम्बे पपात च ।
शरस्तम्बे च पतितं द्विधा तदभवन्नृप ॥
तस्याथ मिथुं जज्ञे गौतमस्य शरद्वतः । `महर्षेर्गौतमस्यास्य ह्याश्रमस्य समीपतः ॥'
मृगयां चरतो राज्ञः शान्तनोस्तु यदृच्छया ॥
कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत ।
धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च ॥
ज्ञात्वा द्विजस्य चापत्ये धनुर्वेदान्तगस्य ह ।
स राज्ञे दर्शयामास मिथुनं सशरं धनुः ॥
स तदादाय मिथुनं राजा च कृपयान्वितः ।
आजगाम गृहानेव मम पुत्राविति ब्रुवन् ॥
ततः संवर्धयामास संस्कारैश्चाप्ययोजयत् ।
प्रातिपेयो नरश्रेष्ठो मिथुनं गौतमस्य तत् ॥
कृपया यन्मया बालाविमौ संवर्धिताविति । तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः ।
`तस्मात्कृप इति ख्यातः कृपी कन्या च साऽभवत् ॥'
पितापि गौतमस्तत्र तपसा ताववन्दित ।
आगत्य तस्मै गोत्रादि सर्वमाख्यातवांस्तदा ॥
`कृपोऽपि च तदा राजन्धनुर्वेदपरोऽभवत् ।' चतुर्विधं धनुर्वेदं शास्त्राणि विविधानि च ॥
निशिलेनास्य तत्सर्वं गुह्यमाख्यातवान्पिता ।
सोऽचिरेणैव कालेन परमाचार्यतां गतः ॥
कृपमाहूय गाङ्गेयस्तव शिष्या इति ब्रुवन् ।
पौत्रान्परिसमाधाय कृपमाराधयत्तदा ॥
ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः ।
धृतराष्ट्रात्मजाश्चैव पाण्डवाः सह यादवैः ॥
वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः । `कृपमाचार्यमासाद्य परमास्त्रज्ञतां गतः ।'
वैशंपायन उवाच ।
विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया ॥
इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान् ।
नाल्पधीर्नामहाभागस्तथा नानस्त्रकोविदः ॥
नादेवसत्वो विनयेत्कुरूनस्त्रे महावलान् ।
इति संचिन्त्य गाङ्गेयस्तदा भरतसत्तमः ॥
द्रोणाय वेदविदुषे भारद्वाजाय धमते ।
पाण्डवान्कौरवांश्चैव ददौ शिष्यान्नरर्षभ ॥
शास्त्रतः पूजितश्चैव सम्यक्तेन महात्मना ।
स भीष्मेण महाभागस्तुष्टोऽस्त्रविदुषां वरः ॥
प्रतिजग्राह तान्सर्वाञ्शिष्यत्वेन महायशाः ।
शिक्षयामास च द्रोणो धनुर्वेदमशेषतः ॥
तेऽचिरेणैव कालेन सर्वशस्त्रविशारदाः ।
बभूवुः कौरवा राजन्पाण्डवाश्चामितौजसः ॥
जनमेजय उवाच ।
कथं समभवद्द्रोणः कथं चास्त्राण्यवाप्तवान् ।
कथं चागात्कुरून्ब्रह्मन्कस्य पुत्रः स वीर्यवान् ॥
कथं चास्य सुतो जातः सोश्वत्थामाऽस्त्रवित्तमः ।
एतदिच्छाम्यहं श्रोतुं विस्तरेण प्रकीर्तय ॥
वैशंपायन उवाच ।
गङ्गाद्वारं प्रति महान्बभूव भगवानृषिः ।
भरद्वाज इति ख्यातः सततं संशितव्रतः ॥
सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् ।
महर्षिभिर्भरद्वाजो हविर्धाने चरन्पुरा ॥
ददर्शाप्सरसं साक्षाद्धृताचीमाप्लुतामृषिः ।
रूपयौवनसंपन्नां मददृप्तां मदालसाम् ॥
तस्या वायुर्नदीतीर वसनं पर्यवर्तत ।
व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ॥
तत्र संसक्तमनसो भरद्वाजस्य धीमतः ।
हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥
ततः समभवद्द्रोणः कलशे तस्य धीमतः ।
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥
अग्नेरस्त्रमुपादाय यदृषिर्वेद काश्यपः ।
अध्यगच्छद्भरद्वाजस्तदस्त्रं देवकार्यतः ॥
अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् ।
प्रत्यपादयदाग्नेयमस्त्रमस्त्रविदां वरः ॥
`कनिष्ठजातं स मुनिर्भ्राता भ्रातरमन्तिके । अग्निवेश्यस्तथा द्रोणं तदा भरतसत्तम ।'
भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् ॥
भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः ।
तस्यापि द्रुपदो नाम तथा समभवत्सुतः ॥
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्थिवः ।
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥
ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् ।
पञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः ॥
भरद्वाजोऽपि भगवानारुरोह दिवं तदा ।
तत्रैव च वसन्द्रोणस्तपस्तेपे महातपाः ॥
वेदवेदाङ्गविद्वान्स तपसा दग्धकिल्बिषः ।
ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः ॥
शारद्वतीं ततो भार्यां कृपीं द्रोणोऽन्वविन्दत ।
अग्निहोत्रे च धर्मे च दमे च सतत रताम् ॥
अलभद्गौतमी पुत्रमश्वत्थामानमेव च ।
स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः ॥
तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत् ।
अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् ॥
अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति ।
सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् ॥
तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत् ।
स शुश्राव महात्मानं जामदग्न्यं परंतपम् ॥
सर्वज्ञानविदं विप्रं सर्वशस्त्रभृतां वरम् ।
ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः ॥
स रामस्य धनुर्वेदं दिव्यान्यस्त्राणि चैव ह ।
श्रउत्वा तेषु मनश्चक्रे नीतिशास्त्रे तथैव च ॥
ततः स व्रतिभिः शिष्यैस्तपोयुक्तैर्महातपाः ।
वृतः प्रायान्महावाहुर्महेन्द्रं पर्वतोत्तमम् ॥
ततो महेन्द्रमासाद्य भारद्वाजो महातपाः ।
क्षत्रघ्नं तममित्रघ्नमपश्यद्भृगुनन्दनम् ॥
ततो द्रोणो वृतः शिष्यैरुपगम्य भृगूद्वहम् ।
आचख्यावात्मनो नाम जन्म चाङ्गिरसः कुले ॥
निवेद्य शिरसा भूमौ पादौ चैवाभ्यवादयत् ।
ततस्तं सर्वमुत्सृज्य वनं जिगमिषुं तदा ॥
जामदग्न्यं महात्मानं भारद्वाजोऽब्रवीदिदम् ।
भरद्वाजात्समुत्पन्नं तथा त्वं मामयोनिजम् ॥
आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम ।
तमब्रवीन्महात्मा स सर्वक्षत्रियमर्दनः ॥
स्वागतं ते द्विजश्रेष्ठ यदिच्छसि वदस्व मे ।
एवमुक्तस्तु रामेण भारद्वाजोऽब्रवीद्वचः ॥
रामं प्रहरतां श्रेष्ठं दित्सन्तं विविधं वसु ।
अहं धनमनन्तं हि प्रार्थये विपुलव्रत ॥
राम उवाच ।
हिरण्यं मम यच्चान्यद्वसु किंचिदिह स्थितम् ।
ब्राह्मणेभ्यो मया दत्तं सर्वमेतत्तपोधन ॥
तथैवेयं धरा देवी सागरान्ता सपत्तना ।
कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी ॥
शरीरमात्रमेवाद्य ममेदमवशेषितम् ।
अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च ॥
अस्त्राणि वा शरीरं वा ब्रह्मञ्शस्त्राणि वा पुनः ।
वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् ॥
द्रोण उवाच ।
अस्त्राणि मे समग्राणि ससंहाराणि भार्गव ।
स प्रयोगरहस्यानि दातुमर्हस्यशेषतः ॥
`एतद्वसु वसूनां हि सर्वेषां विप्रसत्तम ।' तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः ।
सरहस्यव्रतं चैव धनुर्वेदमशेषतः ॥
प्रतिगृह्य तु तत्सर्वं कृतास्त्रे द्विजसत्तमः ।
प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चत्वारिंशदधिकशततमोऽध्यायः ॥ 140 ॥

1-140-2 गौतमो गौत्रतः ॥ 1-140-10 समर्थनात्सामर्थ्यात् ॥ 1-140-18 प्रातिपेयः प्रतीपपुत्रः ॥ 1-140-19 संवर्धिताविति आलोच्येति शेषः ॥ 1-140-25 विनयेप्सया शिक्षेच्छया ॥ 1-140-27 अदेवसत्वः नास्ति देवस्येव सत्वं सामर्थ्यं यस्य सः ॥ 1-140-38 द्रोणे द्रोण कलशाख्ये यज्ञियपात्रविशेषे ॥ 1-140-50 स्थामशब्दः सकारस्य तत्कारादेशेऽश्वत्थामेति ॥ चत्वारिंशदधिकशततमोऽध्यायः ॥ 140 ॥