अध्यायः 151

यौवराज्ये युधिष्ठिरस्याभिषेकः ॥ 1 ॥ भीमसेनस्य बलरामाद्गदायुद्धशिक्षणम् ॥ 2 ॥ द्रोणेनार्जुनस्य ब्रह्मशिरोस्त्रविषये नियमकथनम् ॥ 3 ॥ भीमार्जुनदिग्विजयेन धृतराष्ट्रचिन्ता ॥ 4 ॥

वैशंपायन उवाच ।
`धृतराष्ट्रस्तु राजन्द्रे यदा कौरवनन्दनम् ।
युधिष्ठिरं विजानन्वै समर्थं राज्यरक्षणे ॥
यौवराज्याभिषेकार्थममन्त्रयत मन्त्रिभिः ।
ते तु बुद्ध्वान्वतप्यन्त धृतराष्ट्रात्मजास्तदा ॥
ततः संवत्सरस्यान्ते यौवराज्याय पार्थिव ।
स्थापितो धृतराष्ट्रेण पाण्डुपुत्रो युधिष्ठिरः ॥
ततोऽदीर्घेण कालेन कुन्तीपुत्रो युधिष्ठिरः ।
पितुरन्तर्दधे कीर्तिं शीलवृत्तसमाधिभिः ॥
असियुद्धे गदायुद्धे रथयुद्धे च पाण्डवः ।
संकर्षणादशिक्षद्वै शश्वच्छिक्षां वृकोदरः ॥
समाप्तशिक्षो भीमस्तु द्युमत्सेनसमो बले ।
पराक्रमेण संपन्नो भ्रातॄणामचरद्वशे ॥
प्रगाढदृढमुष्टित्वे लाघवे वेधने तथा ।
क्षुरनाराचभल्लानां विपाठानां च तत्त्ववित् ॥
ऋजुवक्रविशालानां प्रयोक्ता फाल्गुनोऽभवत् ।
लाघवे सौष्ठवे चैव नान्यः कश्चन विद्यते ॥
बीभत्सुसदृशो लोक इति द्रोणो व्यवस्थितः ।
ततोऽब्रवीद्गुडाकेशं द्रोणः कौरवसंसदि ॥
अगस्त्यस्य धनुर्वेदे शिष्यो मम गुरुः पुरा ।
अग्निवेश्य इति ख्यातस्तस्य शिष्योऽस्मि भारत ॥
तीर्थात्तीर्थं गमयितुमहमेतत्समुद्यतः ।
तपसा यन्मया प्राप्तममोघमशनिप्रभम् ॥
अस्त्रं ब्रह्मशिरो नाम यद्दहेत्पृथिवीमपि ।
ददता गुरुणा चोक्तं न मनुष्येष्विदंत्वया ॥
भारद्वाज विमोक्तव्यमल्पवीर्येषु संयुगे ।
यद्यदन्तर्हितं भूतं किंचिद्युद्ध्येत्त्वया सह ॥
महातेजस्त्वमेतेन हन्याः शस्त्रेण संयुगे ।
त्वया प्राप्तमिदं वीर दिव्यं नान्योऽर्हति त्विदम् ॥
समयस्तु त्वया रक्ष्यो मुनिसृष्टो विशांपते ।
आचार्यदक्षिणां देहि ज्ञातिग्रामस्य पश्यतः ॥
ददानीति प्रतिज्ञाते फाल्गुनेनाब्रवीद्गुरुः ।
युद्धेऽहं प्रतियोद्धव्यो युध्यमानस्त्वयाऽनघ ॥
तथेति च प्रतिज्ञाय द्रोणाय कुरुपुङ्गवः ।
उपसंगृह्य चरणावुपतस्थे विनीतवत् ॥
द्रोणो जगाद वचनं समालिङ्ग्य तु फाल्गुनम् ।
यन्मयोक्तं पुरा पार्थ तव लोके नरं क्वचित् ॥
सदृशं कारये नैव सर्वप्रहरणे युधि ।
तत्कृतं च मया सम्यक्तव तुल्यो न वर्तते ॥
देवा युधि न शक्तास्त्वां योद्धुं दैत्या न दानवाः ।
नाहं त्वत्तो विशिष्टोऽस्मि किं पुनर्मानवा रणे ॥
एकस्तवाधिको लोके यो हि वृष्णिकुलोद्भवः ।
कृष्णः कमलपत्राक्षः कंसकालियसूदनः ॥
स जेता सर्वलोकानां सर्वप्रहरणायुधः ।
नैतावता ते पार्थाहं भवाम्यनृतवागिह ॥
तदधीनं जगत्सर्वं तत्प्रलीनं तदुद्भवम् ।
तत्पदं न विजानन्ति ब्रह्मेशानादयोऽपि वा ॥
तन्नाभिप्रभवो ब्रह्मा सर्वभूतानि निर्ममे ।
स एव कर्ता भोक्ता च संहर्ता च जगन्मयम् ॥
स एव भूतं भव्यं च भवच्च पुरुषः परः ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥
प्रादुर्भवति योगात्मा पालनार्थं स लीलया ।
तत्तुल्यो हि न जायेत न जातो न जनिष्यते ॥
स हि मातुलजोऽभूत्ते चराचरगुरुः पिता ।
को हि तं जेतुमीहेत जानन्नात्महितं नरः ॥
श्यालश्च ते सखा चासौ तस्य त्वं प्राणवल्लभः ।
स्नेहमभ्यधिकं तस्य तव सख्यमवस्थितम् ॥
न तेन भवतो युद्धं भविता नर्मतोऽपि वा ।
अपिचार्थे तव पुरा शक्रेण किल चोदितः ॥
गोकुले वर्धमानस्तु नन्दगोपस्य कारणात् ।
ममांशः पाण्डवो लोके पृथिव्यां पुरुषोत्तमः ॥
कौन्तेयावरजः श्रीमानर्जुनो नाम वीर्यवान् ।
भुवो भारापहरणे साहाय्यं ते करिष्यति ॥
तदर्थमभयं देहि पाहि चास्मत्कृते प्रभो ।
इत्युक्तः पुण्डरीकाक्षस्तदा शक्रेण फल्गुन ॥
तमुवाच ततः श्रीमाञ्शङ्खचक्रगदाधरः ।
जानामि पाण्डवे वंशे जातं पार्थं पितृष्वसुः ॥
पुत्रं परमधर्मिष्ठं सर्वशस्त्रभृतां वरम् ।
पालयामि त्वदंशं तं सर्वलोकमहाभुजम् ॥
आवयोः सख्यसदृशं न च लोके भविष्यति ।
यस्तद्भक्तः समद्भक्तो यस्तं द्वेष्टि स मामपि ॥
यन्मे वित्तं तु तत्तस्य तं विनाहं न जीवये ।
इति पार्थ पुरा शक्रमाह सर्वेश्वरो हरिः ॥
तस्मात्तवापि सदृशस्तं विनाभ्यधिकः पुमान् ।
न चेह भविता लोके तमेव शरणं व्रज ॥
शरण्यः सर्वभूतानां देवदेवो जनार्दनः ॥'
वैशंपायन उवाच ।
तथेति च प्रतिज्ञाय द्रोणाय कुरुपुङ्गवः ।
उपसंगृह्य चरणौ युधिष्ठिरवशोऽभवत् ॥
स्वभावादगमच्छब्दो महीं सागरमेखलाम् ।
अर्जुनस्य समो लोके नास्ति कश्चिद्धनुर्धरः ॥
गदायुद्धेऽसियुद्धे च रथयुद्धे च पाण्डवः ।
पारगश्च धनुर्युद्धे बभूवाथ धनञ्जयः ॥
नीतिमान्सकलां नीतिं विबुधाधिपतेस्तदा । `अस्त्रे शस्त्रे च शास्त्रे च रथनागाश्वकर्मणि ।'
अवाप्य सहदेवोऽपि भ्रातॄणां ववृते वशे ॥
द्रोणेनैवं विनीतश्च भ्रातॄणां नकुलः प्रियः ।
चित्रयोधी समाख्यातो बभूवातिरथोदितः ॥
त्रिवर्षकृतयज्ञस्तु गन्धर्वाणामुपप्लवे ।
अर्जुनप्रमुखैः पार्थैः सौवीरः समरे हतः ॥
न शशाक वशे कर्तुं यं पाण्डुरपि वीर्यवान् ।
सोऽर्जुनेन वशं नीतो राजासीद्यवनाधिपः ॥
अतीव बलसंपन्नः सदा मानि कुरून्प्रति ।
विपुलो नाम सौवीरः शस्तः पार्थेन धीमता ॥
दत्तामित्र इति ख्यातं सङ्ग्रामे कृतनिश्चयम् ।
सुमित्रं नाम सौवीरमर्जुनोऽदमयच्छरैः ॥
भीमसेनसहायश्च रथानामयुतं च सः ।
अर्जुनः समरे प्राच्यान्सर्वानेकरथोऽजयत् ॥
तथैवैकरथो गत्वा दक्षिणामजयद्दिशम् ।
धनौघं प्रापयामास कुरुराष्ट्रं धनञ्जयः ॥
`यतः पञ्चदशे वर्षे सर्वमेतच्चकार सः ।
तं दृष्ट्वा धार्तराष्ट्राणां ततो भयमजायत ॥
यः सर्वान्धृतराष्ट्रस्य पुत्रान्विप्रचकार ह ।
भीमसेनो महाबाहुर्बलाद्बलवतां वरः ॥
अदुष्टभावं तं दोषैर्जगृहुर्दोषबुद्धयः ।
धार्तराष्ट्रास्तथा सर्वे भयाद्भीमस्य कर्मणा ॥
तं दृष्ट्वा कर्मभिः पार्थान्सर्वानागतलक्षणान् । बलाद्बहुगुणांस्तेभ्यो बिभियुर्दोषबुद्धयः ॥'
एवं सर्वे महात्मानः पाण्डवा मनुजोत्तमाः ।
परराष्ट्राणि निर्जित्य स्वराष्ट्रं ववृधुः पुरा ॥
ततो बलमतिख्यातं विज्ञाय दृढधन्विनाम् । दूषितः सहसा भावो धृतराष्ट्रस्य पाण्डुषु ।
स चिन्तापरमो राजा न निद्रामलभन्निशि ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकपञ्चाशदधिकशततमोऽध्यायः ॥ 151 ॥

1-151-9 गुडाका निद्रा तस्या ईशमर्जुनं जितनिद्रं, गुडा स्नुही तद्वत्केशा यस्य ॥ 1-151-11 तीर्थात्पात्रान्तरं गमयितुं संप्रदायाविच्छेदार्थमित्यर्थः ॥ 1-151-14 त्वया ग्राहान्मां मोचयता प्राप्तं प्रागेव ॥ 1-151-28 तस्य त्वयीति शेषः । तव तस्मिन्निति शेषः ॥ 1-151-35 तस्य मम च ॥ 1-151-42 विबुधाधिपतेरुद्धवात् ॥ 1-151-43 विनीतः शिक्षितः । अतिरथेषूदितः ख्यातः ॥ 1-151-44 गन्धर्वोपप्लवेऽपि यस्य सौवीरस्य यज्ञो न विप्लुत इत्ययोध्यत्वमुक्तम् ॥ 1-151-46 शस्तो हिंसितः ॥ 1-151-53 बिभियुः बिभ्युः ॥ 1-151-54 ववृधुर्वर्धितवन्तः ॥ एकपञ्चाशदधिकशततमोऽध्यायः ॥ 151 ॥