अध्यायः 163

तृषार्तान् मातरं भ्रांतॄश्च न्यग्रोधमूले स्थापयित्वा जलानयनाय भीमस्य गमनम् ॥ 1 ॥ जलमानीयागतस्य भूमौ सुप्तान्मात्रादीन्पश्यतो भीमस्य प्रलापः ॥ 2 ॥

वैशंपायन उवाच ।
तेन विक्रममाणेन ऊरुवेगसमीरितम् ।
वनं सवृक्षविटपं व्याघूर्णितमिवाभवत् ॥
जङ्गावातो ववौ चास्य शुचिशुक्रागमे यथा ।
आवर्जितालतावृक्षं मार्गं चक्रे महाबलः ॥
स मृद्गन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् ।
अवरुज्य ययौ गुल्मान्पथस्तस्य समीपजान् ॥
स रोषित इव क्रुद्धो वने भञ्जन्महाद्रुमान् ।
त्रिप्रस्रुतमदः शुष्मी षष्टिवर्षो मतङ्गराट् ॥
गच्छतस्तस्य वेगेन तार्क्ष्यमारुतरंहसः ।
भीमस्य पाण्डुपुत्राणां मूर्च्छेव समजायत ॥
असकृच्चापि सतीर्य दूरपारं भुजप्लवैः ।
पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा ॥
कृच्छ्रेण मातरं चैव सुकुमारीं यशस्विनीम् ।
अवहत्स तु पृष्ठेन रोधःसु विषमेषु च ॥
अगमच्च वनोद्देशमल्पमूलफलोदकम् ।
क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभ ॥
घोरा समभवत्सन्ध्या दारुणा मृगपक्षिणः ।
अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः ॥
शीर्णपर्णफलै राजन्बहुगुल्मक्षुपद्रुमैः ।
भग्नावभुग्नभूयिष्ठैर्नानाद्रुमसमाकुलैः ॥
ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः ।
नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया ॥
न्यविशन्ति हि ते सर्वे निरास्वादे महावने । `रात्र्यामेव गतास्तूर्णं चतुर्विंशतियोजनम् ।'
ततस्तृषा परिक्लन्ता कुन्ती वचनमब्रवीत् ॥
माता सती पाण्डवानां पञ्चानां मध्यतः स्थिता ।
तृष्णया हि परीताऽहमनाथेव महावने ॥
`इतः परं तु शक्ताहं गन्तुं च न पदात्पदम् ।
शयिष्ये वृक्षमूलेऽत्र धार्तराष्ट्रा हरन्तु माम् ॥
शृणु भीम वचो मह्यं तव बाहुबलात्पुरः ।
स्थातुं न शक्ताः कौरव्याः किं बिभेषि पृथासुत ॥
अन्यो रथो न मेऽस्तीह भीमसेनादृते भुवि ।
धार्तराष्ट्राद्वृथा भीरुर्न मां स्वप्तुमिहेच्छसि ॥
वैशंपायन उवाच ।
भीमपृष्ठस्थिता चेत्थं दूयमानेन चेतसा । निश्यध्वनि रुदन्ती सा निद्रावश्मुपागता ॥'
तच्छ्रुत्वा भीमसेनस्य मातृस्नेहात्प्रजल्पितम् ।
कारुण्येन मनस्तप्तं गमनायोपचक्रमे ॥
ततो भीमो वनं घोरं प्रविश्य विजनं महत् ।
न्यग्रोधं विपुलच्छायं रमणीयं ददर्श ह ॥
तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः ।
पानीयं मृगयामीह तावद्विश्रम्यतामिह ॥
एते रुवन्ति मधुरं सारसा जलचारिणः ।
ध्रुवमत्र जलस्थानं महच्चेति मतिर्मम ॥
अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत ।
जगाम तत्र यत्र स्म सारसा जलचारिणः ॥
`अपश्यत्पद्मिनीखण्डमण्डितं स सरोवरम् ।' स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ ॥
तेषामर्थे च जग्राह भ्रातॄणां भ्रातृवत्सलः ।
उत्तरीयेण पानीयमानयामास भारत ॥
`पङ्कजानामनेकैश्च पत्रैर्बध्वा पृथक्पृथक् ।' गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति ।
शोकदुःखपरीतात्मा निशश्वासोरगो यथा ॥
स सुप्तां मातरं `भ्रातॄन्निद्राविद्रावितौजसः ।
महारौद्रे वने घोरे वृक्षमूले सुशीतले ॥
विक्षिप्तकरपादांश्च दीर्घोच्छ्वासान्महाबलान् ।
ऊर्ध्ववक्त्रान्महाकायान्पञ्चेन्द्रानिव भूपते ॥
अज्ञातवृक्षनित्यस्थप्रेतराक्षससाध्वसान् । दृष्ट्वा वै भृशशोकार्तो बिललापानिलात्मजः ॥'
भृशं शोकपरीत्मा विललाप वृकोदरः ॥
अतः कष्टतरं किं नु द्रष्टव्यं हि भविष्यति ।
यत्पश्यामि महीसुप्तान्भ्रातॄनद्य सुमन्दभाक् ॥
शयनेषु परार्ध्येषु ये पुरा वारणावते ।
नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले ॥
स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः ।
कुन्तिराजसुतां कुन्तीं सर्वलक्षणपूजिताम् ॥
स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः ।
तथैव चास्मज्जननीं पुण्डरीकोदरप्रभाम् ॥
सुकुमारतरामेनां महार्हशयनोचिताम् ।
शयानां पश्यताऽद्येह पृथिव्यामतथोचिताम् ॥
धर्मादिन्द्राच्च वाताच्च सुपुवे या सुतानिमान् ।
सेयं भूमौ परिश्रान्ता शेषे प्रासादशायिनी ॥
किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् ।
योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले ॥
त्रिषु लोकेषु यो राज्यं धर्मनित्योऽर्हते नृपः ।
सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् ॥
अयं नीलाम्बुदश्यामो नरेष्वप्रतिमोऽर्जुनः ।
शेते प्राकृतवद्भूमौ ततो दुःखतरं नु किम् ॥
अश्विनाविव देवानां याविमौ रूपसंपदा ।
तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले ॥
ज्ञातयो यस्य नै स्युर्विषमाः कुलपांसनाः ।
स जीवेत सुखं लोके ग्रामद्रुम इवैकजः ॥
एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः ।
चैत्यो भवति निर्ज्ञातिरध्वनीनैश्च पूजितः ॥
येषां च बहवः शूरा ज्ञातयो धर्ममाश्रिताः ।
ते जीवन्ति सुखं लोके भवन्ति च निरामयाः ॥
बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः ।
जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव ॥
वयं तु धृतराष्ट्रेण दुष्पुत्रेण दुरात्मना ।
`राज्यलुब्धेन मूर्खेण दुर्मन्त्रिसहितेन वै ॥
दुष्टेनाधर्मशीलेन स्वार्थनिष्ठैकबुद्धिना ।' विवासिता न दग्धाश्च क्षत्तुर्बुद्धिपराक्रमात् ॥
तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः ।
कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् ॥
सकामो भव दुर्बुद्धे धार्तराष्ट्राल्पदर्शन ।
नूनं देवाः प्रसन्नास्ते नानुज्ञां मे युधिष्ठिरः ॥
प्रयच्छति वधे तुभ्यं तेन जीवसि दुर्मते ।
नन्वद्य ससुतामात्यं सकर्णानुजसौबलम् ॥
गत्वा क्रोधसमाविष्टः प्रेषयिष्ये यमक्षयम् ।
किं नु शक्यं मया कर्तुं यत्तेन क्रुध्यते नृपः ॥
धर्मात्मा पाण्डवश्रेष्ठः पापाचार युधिष्ठिरः ।
एवमुक्त्वा महाबाहुः क्रोधसन्दीप्तमानसः ॥
करं करेण निष्पिष्य निःश्वसन्दीनमानसः ।
पुनर्दीनमना भूत्वा शान्तार्चिरिव पावकः ॥
भ्रातॄन्महीतले सुप्तानवैक्षत वृकोदरः ।
विश्वस्तानिव संविष्टान्पृथग्जनसमानिव ॥
नातिदूरेण नगरं वनादस्माद्धि लक्षये ।
जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहंस्वयम् ॥
प्राश्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः ।
इति भीमो व्यवस्यैव जजागार स्वयं तदा ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि त्रिषष्ट्यधिकशततमोऽध्यायः ॥ 163 ॥ ॥ समाप्तं जतुर्गृहपर्व ॥

1-163-2 शुचिशुक्रागमे ज्येष्ठाषाढयोः समये । आवर्जिताः समीकृता लता वृक्षाश्च यस्मिन् ॥ 1-163-3 अवरुज्य भङ्क्त्वा ॥ 1-163-4 रोषितो रोषं प्रापितः । त्रिषु गण्डकर्णमूलगुह्यदेशेषु प्रस्रुतो मदो यस्य सः । शुष्मी तेजस्वी ॥ 1-163-9 अनार्तवैरनृतुभवैरुत्पातरूपैरित्यर्थः ॥ 1-163-12 तृषा तृष्णया ॥ 1-163-30 मुमन्दभागतिमन्दभाग्यः ॥ 1-163-40 एकज एक एव जातोऽसहायः ॥ 1-163-43 बान्धवानां नन्दनाः सुखदाः ॥ 1-163-48 तुभ्यं तव ॥ त्रिषष्ट्यधिकशततमोऽध्यायः ॥ 163 ॥