अध्यायः 164

(अथ हिडिम्बवधपर्व ॥ 9 ॥)

हिडिम्बप्रेरितायाः तद्भगिन्या हिडिम्बायाः पाण्डवसमीपगमनम् ॥ 1 ॥ भीमं दृष्ट्वा कामार्ताया हिडिम्बायाः भीमं प्रति वाक्यम् ॥ 2 ॥ भीमहिडिम्बासंवादः ॥ 3 ॥

वैशंपायन उवाच ।
तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः ।
अविदूरे वनात्तस्माच्छालवृक्षं समाश्रितः ॥
क्रूरो मानुषमांसादो महावीर्यपराक्रमः ।
प्रावृड्जलधरश्यामः पिङ्गाक्षो दारुणाकृतिः ॥
दष्ट्राकरालवदनः करालो भीमदर्शनः ।
लम्बस्फिग्लम्बजठरो रक्तश्मश्रुशिरोरुहः ॥
महावृक्षगलस्कन्धः शङ्कर्णो विभीषणः ।
यदृच्छया तानपश्यत्पाण्डुपुत्रान्महारथान् ॥
विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः ।
पिशितेप्सुः क्षुधार्तश्च जिघ्रन्गन्धं यदृच्छया ॥
ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् ।
जृम्भमाणो महावक्त्रः पुनःपुनरवेक्ष्य च ॥
हृष्टो मानुषमांसस्य महाकायो महाबलः ।
आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् ॥
उपपन्नं चिरस्याद्य भक्ष्यं मम मनःप्रियम् ।
जिघ्रतः प्रस्रुता स्नेहाज्जिह्वा पर्येति मे मुखात् ॥
अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः ।
देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च ॥
आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि ।
उष्णं नवं प्रपास्यामि फेनलिं रुधिरं बहु ॥
गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः ।
मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे ॥
हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् ।
अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते ॥
एषामुत्कृत्य मांसानि मानुषाणां यथेष्टतः ।
भक्षयिष्याव सहितौ कुरु पूर्णं वचो मम ॥
भक्षयित्वा च मांसानि मानुषाणां प्रकामतः ।
नृत्याव सहितावावां दत्ततालावनेकशः ॥
वैशंपायन उवाच ।
एवमुक्ता हिडिम्बा तु हिडिम्बेन महावने ।
भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी ॥
`आप्लुत्याप्लुत्य च तरूनगच्छत्पाण्डवान्प्रति ।' जगाम तत्र यत्र स्म शेरते पाण्डवा वने ॥
ददर्श तत्र सा गत्वा पाण्डवान्पृथया सह ।
शयानान्भीमसेनं च जाग्रतं त्वपराजितम् ॥
`उपास्यमानान्भीमेन रूपयौवनशालिनः ।
सुकुमारांश्च पार्थान्सा व्यायामेन च कर्शितान् ॥
दुःखेन संप्रयुक्तांश्च सहज्येष्ठान्प्रमाथिनः । रौद्री सती राजपुत्रं दर्शनीयप्रदर्शनम् ॥'
दृष्ट्वैव भीमसेनं सा सालस्कन्धमिवोद्यतम् ।
राक्षसी कामयामास रूपेणाप्रतिमं भुवि ॥
`अन्तर्गतेन मनसा चिन्तयामास राक्षसी' ।
अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः ॥
कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम ।
नाहं भ्रातृवचो जातु कुर्यां क्रूरमसांप्रतम् ॥
पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम् ।
मुहूर्तमिव तृप्तिश्च भवेद्धातुर्ममैव च ॥
हतैरेतैरहत्वा तु मोदिष्ये शाश्वतीः समाः ।
`निश्चित्येत्थं हिडिम्बा सा भीमं दृष्ट्वा महाभुजं ॥
उत्सृज्य राक्षसं रूपं मानुषं रूपमास्थिता ।' सा कामरूपिणी रूपं कृत्वा मदनमोहिता ॥
उपतस्थे महात्मानं भीमसेनमनिन्दिता ।
`इङ्गिताकारकुशला सोपासर्पच्छनैः शनैः ॥
विनम्यमानेव लता दिव्याभरणभूषिता ।
शनैः शनैश्च तां भीमः समीपमुपसर्पतीम् ॥
हर्षमाणां तदा पश्यत्तन्वीं पीनपयोधराम् ।
चन्द्राननां पद्मनेत्रां नीलकुञ्चितमूर्धजाम् ॥
कृष्णां सुपाण्डुरैर्दन्तैर्बिम्बोष्ठीं चारुदर्शनाम् ।
दृष्ट्वा तां रूपसंपन्नां भीमो विस्मयमागतः ॥
उपचारगुणैर्युक्तां ललितैर्हाससंमितैः ।
समीपमुपसंप्राप्य भीमं साथ वरानता ॥
वचो वचनवेलायां भीमं प्रोवाच भामिनी ।' लज्जया नम्यमानेव सर्वाभरणभूषिता ॥
स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत् ।
कुतस्त्वमसि संप्राप्तः कश्चासि पुरुषर्षभ ॥
क इमे शेरते चेह पुरुषा देवरूपिणः ।
केयं वै बृहती श्यामा सुकुमारी तवानघ ॥
शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा ।
नेदं जानीथ गहनं वनं राक्षससेवितम् ॥
वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः ॥
तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा ।
बिभक्षयिषता मांसं युष्माकममरोपमाः ॥
साऽहं त्वमभिसंप्रेक्ष्य देवगर्भसमप्रभम् ।
नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते ॥
एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर ।
कामोपहतचित्तां हि भजमानां भजस्व माम् ॥
त्रास्यामि त्वां महाबाहो राक्षसात्पुरुषादकात् ।
वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ ॥
`इच्छामि वीर भद्रं ते मा मे प्राणान्विहासिषः । त्वया ह्यहं परित्यक्ता न जीवेयमरिन्दम ॥'
अन्तरिक्षचरी ह्यस्मि कामतो विचरामि च ।
अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह ॥
भीमसेन उवाच ।
`एष ज्येष्ठो मम भ्राता मान्यः परमको गुरुः । अनिविष्टो हि तन्नाहं परिविद्यां कथंचन ॥'
मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानपि ।
परित्यजेत कोन्वद्य प्रभवन्निह राक्षसि ॥
को हि सुप्तानिमान्भ्रातॄन्दत्त्वा राक्षसभोजनम् ।
मातरं च नरो गच्छेत्कामार्त इव मद्विधः ॥
राक्षस्युवाच ।
`एकं त्वां मोक्षयिष्यामि सह मात्रा परन्तप ।
सोदरानुत्सृजैनांस्त्वमारोह जघनं मम ॥
भीम उवाच ।
नाहं जीवितुमाशंसे भ्रातॄनुत्सृज्य राक्षसि ।
यथाश्रद्धं व्रजैका हि विप्रियं मे प्रभाषसे ॥
राक्षस्युवाच ।'
यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय ।
मोक्षयिष्याम्यहं कामं राक्षसात्पुरुषादकात् ॥
भीमसेन उवाच ।
सुखसुप्तान्वने भ्रातॄन्मातरं चैव राक्षसि ।
न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः ॥
न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् ।
न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने ॥
गच्छ वा तिष्ठ वा भद्रे यद्वा पीच्छसि तत्कुरु ।
तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः ॥ 164 ॥

1-164-4 यदृच्छया सालवृक्षं समाश्रित इत्यन्वयः ॥ 1-164-10 धमनीं नाडीम् ॥ 1-164-21 श्यामः तरुणः ॥ 1-164-36 बिभक्षयिषता भक्षयितुमिच्छता ॥ चतुःषष्ट्यधिकशततमोऽध्यायः ॥ 164 ॥