अध्यायः 186
					
					 अर्धरात्रे पाण्डवानां गङ्गातीरगमनम् ॥ 1 ॥ तत्र स्त्रीभिः सह
						जलक्रीडां कुर्वता चित्ररथेन गन्धर्वेण सह अर्जुनस्य युद्धम् ॥ 2 ॥
						आग्नेयास्त्रेण दग्धादधःपतितस्य तस्यार्जुनेन ग्रहणं ॥ 3 ॥ गन्धर्वपत्न्या
						प्रार्थितस्य युधिष्ठिरस्याज्ञया गन्धर्वमोचनम् ॥ 4 ॥ गन्धर्वप्रार्थनया
						आग्नेयास्त्रपरिवर्तनेन तस्माद्गान्धर्वास्त्रग्रहणानुमोदनम् ॥ 5 ॥ गन्धर्वेण
						पाण्डवानां पुरोहितसंपादनोपदेशः ॥ 6 ॥ 
					
					
						ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः ।
						समैरुदङ्मुकैर्मार्गैर्यथोद्दिष्टं च भारत ॥
					 
					
						अहोरात्रेणाभ्यगच्छन्पाञ्चालनगरं प्रति ।
						अभ्याजग्मुर्लोकनदीं गङ्गां भागीरथीं प्रति ॥
					 
					
						चन्द्रास्तमयवेलायामर्धरात्रसमागमे ।
							वारि चैवानुमज्जन्तस्तीर्थं सोमाश्रयायणम् ।
						
					 
					
						आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः ॥
							उल्मुकं तु समुद्यम्य तेषामग्रे धनञ्जयः ।
						
					 
					
						प्रकाशार्थं ययौ तत्र रक्षार्थं च महारथः ॥
							तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन् स्त्रियः ।
						
					 
					
						शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् ।
						तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली ॥
					 
					
						स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परन्तपान् ।
						विष्फारयन्धनुर्घोरमिदं वचनमब्रवीत् ॥
					 
					
						सन्ध्या संरज्यते घोरा पूर्वरात्रागमेषु या ।
						अशीतिभिर्लवैर्हीनं तन्मुहूर्तं प्रचक्षते ॥
					 
					
						विहितं कामचाराणां यक्षगन्धर्वरक्षसाम् ।
						शेषमन्यन्मनुष्याणां कर्मचारेषु वै स्मृतम् ॥
					 
					
						लोभात्प्रचारं चरतस्तासु वेलासु वै नरान् ।
						उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् ॥
					 
					
						अतो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः ।
						गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि ॥
					 
					
						आराच्च तिष्ठतास्माकं समीपं नोपसर्पत ।
						कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम् ॥
					 
					
						अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम् ।
						अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा ॥
					 
					
						अङ्गारपर्णमित्येवं ख्यातं चेदं वनं मम ।
						अनुगङ्गं चरन्कामांश्चित्रं यत्र रमाम्यहम् ॥
					 
					
						न कौणपाः शृङ्गिणो वा न देवा न च मानुषाः ।
						कुबेरस्य यथोष्णीषं किं मां समुपसर्पथ ॥
						अर्जुन उवाच । 
					 
					
						समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते ।
						रात्रावहनि सन्ध्यायां कस्य क्लृप्तः परिग्रहः ॥
					 
					
						भुक्तो वाऽप्यथ वाऽभुक्तो रात्रावहनि खेचर ।
						न कालनियमो ह्यस्ति गङ्गां प्राप्य सरिद्वरां ॥
					 
					
						वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुम ।
						अशक्ता हि रणे क्रूर युष्मानर्चन्ति मानवाः ॥
					 
					
						पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता ।
						गङ्गा गत्वा समुद्राम्भः सप्तधा समपद्यत ॥
					 
					
						गङ्गां च यमुनां चैव प्लक्षजातां सरस्वतीम् ।
						रथस्थां सरयूं चैव गोमतीं गण्डकीं तथा ॥
					 
					
						अपर्युषितपापास्ते नदीः सप्त पिबन्ति ये ।
						इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः ॥
					 
					
						देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम् ।
							तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः ।
						
						गङ्गा भवति वै प्राप्य कृष्णद्वैपायनोऽब्रवीत् ॥
						
					 
					
						असम्बाधा देवनदी स्वर्गसंपादनी शुभा ।
						कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः ॥
					 
					
						अनिवार्यमसम्बाधं तव वाचा कथं वयम् ।
						न स्पृशेम यथाकामं पुण्यं भागीरथीजलम् ॥
						वैशंपायन उवाच । 
					 
					
						अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनाम्य कार्मुकम् ।
						मुमोच बाणान्निशितानहीनाशीविषानिव ॥
					 
					
						उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तरम् ।
						व्यपोहत शरांस्तस्य सर्वानेव धनञ्जयः ॥
						अर्जुन उवाच । 
					 
					
						बिभीषिका वै गन्धर्व नास्त्रज्ञेषु प्रयुज्यते ।
						अस्त्रज्ञेषु प्रयुक्तेयं फेनवत्प्रविलीयते ॥
					 
					
						मानुषानति गन्धर्वान्सर्वान् गन्धर्व लक्षये ।
						तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया ॥
					 
					
						पुराऽस्त्रमिमाग्नेयं प्रादात्किल बृहस्पतिः ।
						भरद्वाजाय गन्धर्व गुरुर्मान्यः शतक्रतोः ॥
					 
					
						भरद्वजादग्निवेश्य अग्निवेश्याद्गुरुर्मम ।
						साध्विदं मह्यमददद्द्रोणो ब्राह्मणसत्तमः ॥
						वैशंपायन उवाच । 
					 
					
						इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह ।
						प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत् ॥
					 
					
						विरथं विप्लुतं तं तु स गन्धऱ्वं महाबलः ।
						अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम् ॥
					 
					
						शिरोरुहेषु जग्राह माल्यवत्सु धनञ्जयः ।
						भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम् ॥
					 
					
						युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी ।
						नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती ॥
						गन्धर्व्युवाच । 
					 
					
						त्रायस्व मां महाभाग पतिं चेमं विमुञ्च मे ।
						गन्धर्वी शरणं प्राप्ता नाम्ना कुम्भीनसी प्रभो ॥
						युधिष्ठिर उवाच । 
					 
					
						युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम् ।
						को निहन्याद्रिपुं तात मुञ्चेमं रिपुसूदन ॥
						अर्जुन उवाच । 
					 
					
						जीवितं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः ।
						प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः ॥
						गन्धर्व उवाच । 
					 
					
						जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम् ।
						यशोहीनं न च श्लाघ्यं स्वं नाम जनसंसदि ॥
					 
					
						साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम् ।
						गान्धर्व्या माययेच्छामि संयोजयितुमर्जुनम् ॥
					 
					
						अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः ।
						सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवं ॥
					 
					
						संभृता चैव विद्येयं तपसेह मया पुरा ।
						निवेदयिष्ये तामद्य प्राणदाय महात्मने ॥
					 
					
						संस्तम्भयित्वा तरसा जितं शरणमागतम् ।
						यो रिपुं योजयेत्प्राणैः कल्याणं किं न सोऽर्हति ॥
					 
					
						चाक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः ।
						ददौ स विश्वावसवे मम विश्वावसुर्ददौ ॥
					 
					
						सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति ।
						आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे ॥
					 
					
						यच्चक्षुषा द्रष्टुमिच्छेत्रिषु लोकेषु किंचन ।
						तत्पश्येद्यादृशं चेच्छेत्तादृशं द्रष्टुमर्हति ॥
					 
					
						एकपादेन षण्मासान्स्थितो विद्यां लभेदिमाम् ।
						अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते ॥
					 
					
						विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः ।
						अविशिष्टाश्च देवानामनुभावप्रदर्शिनः ॥
					 
					
						गन्धर्वजानामश्वानामहं पुरुषसत्तम ।
						भ्रातृभ्यस्तव तुभ्यं च पृथग्दाता शतं शतं ॥
					 
					
						देवगन्धर्ववाहास्ते दिव्यवर्णा मनोजवाः ।
						क्षीणाक्षीणा भवन्त्येते न हीयन्ते च रंहसः ॥
					 
					
						पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणम् ।
						दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि ॥
					 
					
						ततो भागीकृतो देवैर्वज्रभाग उपास्यते ।
						लोके यशोधनं किंचित्सैव वज्रतनुः स्मृता ॥
					 
					
						वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम् ।
						वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः ॥
					 
					
						क्षत्रवज्रस्य भागेन अवध्या वाजिनः स्मृताः ।
						रथाङ्गं वडबा सूते शूराश्चाश्वेषु ये मताः ॥
					 
					
						कामवर्णाः कामजवाः कामतः समुपस्थिताः ।
						इति गन्धर्वजाः कामं पूरयिष्यन्ति मे हयाः ॥
						अर्जुन उवाच । 
					 
					
						यदि प्रीतेन मे दत्तं संशये जीवितस्य वा ।
						विद्याधं श्रुतं वाऽपि न तद्गन्धर्व रोचये ॥
						गन्धर्व उवाच । 
					 
					
						संयोगो वै प्रीतिकरो महत्सु प्रतिदृश्यते ।
						जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते ॥
					 
					
						त्वत्तोऽप्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम् ।
						तथैव योग्यं बीभत्सो चिराय मरतर्षभ ॥
						अर्जुन उवाच । 
					 
					
						त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शास्वतोऽस्तुनौ ।
						सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं भवेत् ॥
					 
					
						कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः ।
						यान्तो वेदविदः सर्वे सन्तो रात्रावरिन्दमाः ॥
						गन्धर्व उवाच । 
					 
					
						अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः ।
						यूयं ततो धर्षिताः स्थ मया वै पाण्डुनन्दनाः ॥
					 
					
						`यक्षराक्षसगन्धर्वपिशाचपतगोरगाः ।
						धर्षन्ति नरव्याघ्र न ब्राह्मणपुरस्कृतान् ॥
					 
					
						जानतापि मया तस्मात्तेजश्चाभिजनं च वः ।
						इयमग्निमतां श्रेष्ठ धर्षिता वै पुरागतिः ॥
					 
					
						को हि वस्त्रिषु लोकेषु न वेद भरतर्षभ ।
						स्वैर्गुणैर्विस्तृतं श्रीमद्यशोऽग्र्यं भूरिवर्चसाम्' ॥
					 
					
						यक्षराक्षसगन्धर्वाः पिशाचोरगदानवाः ।
						विस्तरं कुरुवंशस्य धीमन्तः कथयन्ति ते ॥
					 
					
						नारदप्रभृतीनां तु देवर्षीणां मया श्रुतम् ।
						गुणान्कथयतां वीर पूर्वेषां तव धीमताम् ॥
					 
					
						स्वयं चापि मया दृष्टश्चरता सागराम्बराम् ।
						इमां वसुमतीं कृत्स्नां प्रभावः सुकुलस्य ते ॥
					 
					
						वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन ।
						विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् ॥
					 
					
						`सर्ववेदविदां श्रेष्ठं सर्वशस्त्रभृतां वरम् ।
							द्रोणमिष्वस्त्रकुशलं धनुष्यह्गिरसां वरम् ॥'
						
					 
					
						धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा ।
							पाण्डुं च कुरुशार्दूल षडेतान्कुरुवर्धनान् ।
						
						पितॄनेतानहं पार्थ देवमानुषसत्तमान् ॥
						
					 
					
						दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः ।
						भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः ॥
					 
					
						उत्तमां च मनोबुद्धिं भवतां भावितात्मनाम् ।
						जानन्नपि च वः पार्थ कृतवानिह धर्षणाम् ॥
					 
					
						स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति ।
						धर्षणामात्मनः पश्यन्ब्राहुद्रविणमाश्रितः ॥
					 
					
						नक्तं च बलमस्माकं भूय एवाभिवर्धते ।
						यतस्ततो मां कौन्तेय सदारं मन्युराविशत् ॥
					 
					
						सोऽहं त्वयेह विजितः सङ्ख्ये तापत्यवर्धन ।
						येन तेनेह विधिना कीर्त्यमानं निबोध मे ॥
					 
					
						ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि ।
						यस्मात्तस्मादहं पार्थ रणे ।ञस्मि विजितस्त्वया ॥
					 
					
						यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परन्तप ।
						नक्तं च युधि युध्येत न स जीवेत्कथंचन ॥
					 
					
						यस्तु स्यात्कामवृत्तोऽपि पार्थ ब्रह्मपुरस्कृतः ।
						जयेन्नक्तञ्चरान्सर्वान्स पुरोहितधूर्गतः ॥
					 
					
						तस्मात्तापत्य यत्किंचिन्नृणां श्रेय इहेप्सितम् ।
						तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः ॥
					 
					
						वेदे षडङ्गे निरताः शुचयः सत्यवादिनः ।
						धर्मात्यागः कृतात्मानः स्युर्नृपाणां पुरोहिताः ॥
					 
					
						जयश्च नियतो राज्ञः स्वर्गश्च तदनन्तरम् ।
						यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः ॥
					 
					
						लाभं लब्धुमलब्धं वा लब्धं वा परिरक्षितुम् ।
						पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् ॥
					 
					
						पुरोहितमते तिष्ठेद्य इच्छेद्भूतिमात्मनः ।
						प्राप्तुं वसुमतीं सर्वां सर्वशः सागराम्बराम् ॥
					 
					
						न हि केवलशौर्येण तापत्याभिजनेन च ।
						जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित् ॥
					 
					
						तस्मादेवं विजानीहि कुरूणां वंशवर्धन ।
						ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम् ॥ ॥
					 
					 इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि षडशीत्यधिकशततमोऽध्यायः ॥ 186 ॥ 
					 1-186-3 सोमाश्रयश्चन्द्रधरो रुद्रस्तस्य स्थानं
						सोमाश्रयायणम् ॥ 1-186-8 पूर्वरात्रागमेषु पश्चिमायां दिशि
						अर्धास्तमितार्कमण्डलरूपा या संध्या संरज्यते रक्ता भवति तस्यां मुहूर्तं
						प्रस्थानकालमशीतिभिर्लवैर्निमेषार्धैर्हीनं प्रचक्षते ॥ 1-186-9 तदेव मुहूर्तं
						यक्षादीनां कर्मचारेषु विहितमन्यन्मनुष्याणां कर्मचारेषु स्मृतमित्यन्वयः ।
						संध्यायामशीतिलवोपरि रात्रौ यक्षादीनामेव संचारकालः
						अन्यदहर्मनुष्याणामित्यर्थः ॥ 1-186-15 शृङ्गिणः अभिचारिकाः ॥ 1-186-21 एकवप्रा
						एकमाकाशरूपं वप्रं यस्याः सा ॥ 1-186-36 स्त्री नाथो रक्षिता यस्य तम् ॥ 1-186-38 अङ्गारवद्भास्वरं दुःस्पर्शं च पर्णं वाहनं रथो यस्य
						सोऽङ्गारपर्णस्तस्य भावस्तत्ताम् ॥ 1-186-41 क्षीणाश्चाऽक्षीणाश्च
						क्षीणाक्षीणाः वृद्धास्तरुणा वा एते न भवन्ति रंहसो वेगाच्च न हीयन्ते इति
						नकारानुषङ्गेण योज्यम् । क्षीणे क्षीणे इति घ. पाठः ॥ 1-186-51 तस्य भागः
						पृथग्भूतः सर्वैर्भूतैदपास्यते इति ङ. पाठः ॥ 1-186-52 वज्रपाणिः पाणिः वज्रं
						यस्य स । एवमेव वज्ररथमित्यपि ॥ 1-186-53 रथाङ्गं च तथा सूतो धनुश्च भरतर्षभ इति
						ङ. पाठः ॥ 1-186-57 तथैव सख्यं बीभत्सो इति ङ. पाठः ॥ 1-186-58 अस्त्रेणास्त्रं
						वृणे त्वत्तः यद्भयं त्यजेत् इति ङ. पाठः ॥ 1-186-60 अनग्नयो दारहीनत्वात् ।
						अनाहुतयः समावृतत्वात् । आश्रमविंशेषहीनो ब्राह्मणो धर्षणीय इत्यर्थः ॥ 1-186-76
						कायवृद्यः कृतदारः ॥ 1-186-81 लाभं लब्धव्यं धनं । अलब्धस्य च लाभाय लब्धस्य
						परिरक्षणे इति ङ. पाठः ॥ षडशीत्यधिकशततमोऽध्यायः ॥ 186 ॥