अध्यायः 016

आस्तीकाख्यानविस्तरः ॥ 1 ॥ कद्रूविनतयोः कश्यपाद्वरलाभः ॥ 2 ॥ कद्र्वाः सर्पोत्पत्तिर्विनताया अरुणोत्पत्तिश्च ॥ 3 ॥

शौनक उवाच ।
सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः ।
आस्तीकस्य कवेःसाधोः शुश्रूषा परमा हिनः ॥
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया ।
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे ॥
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव ।
आचष्टैतद्यथाऽऽक्यानं पिता तेत्वं तथा वद ॥
सौतिरुवाच ।
आयुष्मन्निदमाख्यानमास्तीकं कथयामि ते ।
यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया ॥
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे ।
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघ ॥
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह ।
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ॥
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ।
वरातिसर्गं श्रुत्वैवं कश्यपादुत्तमं च ते ॥
हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ ।
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः ॥
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ।
तेजसा वपुषा चैव विक्रमेणाधिकौ च तौ ॥
तस्यै भर्ता वरं प्रादादीदृसौ ते भविष्यतः ।
एवमस्त्विति तं चाह कश्यपं विनता तदा ॥
यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाभवत्तदा ।
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ ॥
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसाम् ।
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः ॥
ते भार्ये वरसंतुष्टे कश्यपो वनमाविशत् ।
सौतुरिवाच ।
कालेन महता कद्रूरण्डानां दशतीर्दश ॥
जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा ।
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः ॥
सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च ।
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः ॥
अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ।
ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी ॥
अण्डं बिभेद विनता तत्र पुत्रमपश्यत ।
पूर्वार्धकायसंपन्नमितरेणाप्रकाशता ॥
स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः ।
योऽहमेवं कृतो मातस्त्वया लोभपरीतया ॥
शरीरेणासमग्रेण तस्माद्दासी भविष्यसि ।
पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह ॥
एष च त्वां सुतो मातर्दासीत्वान्मोचयिष्यति ।
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् ॥
न करिष्यस्यनङ्गं वा व्यङ्गं वापि तपस्विनम् ।
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया ॥
विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः ।
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः ॥
अरुणोऽदृश्यत ब्रह्मन्प्रभातसमये तदा ।
`उद्यन्नथ सहस्रांशुर्दृष्ट्वा तमरुणं प्रभुः ॥
स्वतेजसा प्रज्वलन्तमात्मनः समतेजसम् ।
सारथ्ये कल्पयामास प्रीयमाणस्तमोनुदः ॥
सोऽपि तं रथमारुह्य भानोरमिततेजसः । सर्वलोकप्रदीपस्य ह्यमरोऽप्यरुणोऽभवत् ॥'
गरुडोऽपि यथाकालं जज्ञे पन्नगभोजनः ।
स जातमात्रो विनतां परित्यज्य खमाविशत् ॥
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् ।
विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वाणि आस्तीकपर्वणि षोडशोऽध्यायः ॥ 16 ॥

1-16-15 सोपस्वेदेषु ऊष्मवत्सु ॥ षोडशोऽध्यायः ॥ 16 ॥