अध्यायः 205

अर्जुनेन कर्णपराजयः ॥ 1 ॥ भीमेन कर्णपराजयः ॥ 2 ॥ युधिष्ठिरादिभिर्दुर्योधनादिपराजयः ॥ 3 ॥ पुनर्युद्धाय कृतनिश्चयानां राज्ञां श्रीकृष्णवाक्येन युद्धोद्योगाद्विरम्य स्वस्वालयगमनम् ॥ 4 ॥ द्रौपद्या सह भीमार्जुनयोः कुलालगृहप्रवेशः ॥ 5 ॥

वैशंपायन उवाच ।
अजिनानि विधुन्वन्तः करकाश्च द्विजर्षभाः ।
ऊचुस्ते भीर्न कर्तव्या वयं योत्स्यामहे परान् ॥
तानेवं वदतो विप्रानर्जुनः प्रहसन्निव ।
उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः ॥
अहमेनानजिह्माग्रैः शतशो विकिरञ्छरैः ।
वारयिष्यामि संक्रुद्धान्मन्त्रैराशीविषानिव ॥
इति तद्धनुरानम्य शुल्कावाप्तं महाबलः ।
भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः ॥
ततः कर्णमुखान्दृष्ट्वा क्षत्रियान्युद्धदुर्मदान् ।
संपेततुरभीतौ तौ गजौ प्रतिगजानिव ॥
ऊचुश्च वाचः परुषास्ते राजानो युयुत्सवः ।
आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः ॥
इत्येवमुक्त्वा राजानः सहसा दुद्रुवुर्द्विजान् ।
ततः कर्णो महातेजा जिष्णुं प्रति ययौ रणे ॥
युद्धार्थी वासिताहेतोर्गजः प्रतिगजं यथा ।
भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली ॥
दुर्योधनादयः सर्वे ब्राह्मणैः सह संगताः ।
मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाऽऽहवे ॥
ततोऽर्जुनः प्रत्यविध्यदापतन्तं शितैः शरैः ।
कर्णं वैकर्तनं श्रीमान्विकृष्य बलवद्धनुः ॥
तेषां शराणां वेगेन शितानां तिग्मतेजसाम् ।
विमुह्यमानो राधेयो यत्नात्तमनुधावति ॥
तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ ।
अयुध्येतां सुसंरब्धावन्योन्यविजिगीषिणौ ॥
कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे ।
इति शूरार्थवचनैरभाषेतां परस्परम् ॥
ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि ।
ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् ॥
अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा ।
प्रतिहत्य ननादोच्चैः सैन्यानि तदपूजयन् ॥
कर्ण उवाच ।
तुष्यामि ते विप्रमुख्य भुजवीयर्स्य संयुगे ।
अविषादस्य चैवास्य शस्त्रास्त्रविजयस्य च ॥
किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम ।
अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः ॥
आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः ।
विप्ररूपं विधायेदं मन्ये मां प्रतियुध्यसे ॥
न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः ।
पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः ॥
`दग्धा जतुगृहे सर्वे पाण्डवाः सार्जुनास्तदा । विनार्जुनं वा समरे मां निहन्तुमशक्नुवन् ॥'
तमेवंवादिनं तत्र फाल्गुनः प्रत्यभाषत ।
नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् ॥
ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः ।
ब्राह्मे पौरन्दरे चास्त्रे निष्ठितोगुरुशासनात् ॥
स्थितोऽस्म्यद्य रणे जेतुं त्वां वै वीर स्थिरो भव ।
`निर्जितोऽस्मीति वा ब्रूहि ततो व्रज यथासुखम् ॥
वैशंपायन उवाच ।
एवमुक्त्वाऽथ कर्णस्य धनुश्चिच्छेद पाण्डवः ।
ततोऽन्यद्धनुरादाय संयोद्धुं सन्दधे शरम् ॥
दृष्ट्वा तच्चापि कौन्तेयश्छित्वा तद्धनुराशुगैः ।
तथा वैकर्तनं कर्णं बिभेद समरेऽर्जुनः ॥
ततः कर्णस्तु राधेयः छिन्नछन्वा महाबलः ।
शरैरतीव विद्धाङ्गः पलायनमथाकरोत् ॥
पुनरायान्मुहूर्तेन गृहीत्वा सशरं धनुः ।
ववर्ष शरवर्षाणि पार्थं वैकर्तनस्तथा ॥
तानि वै शरजालानि कौन्तेयोऽभ्यहनच्छरैः । ज्ञात्वा सर्वाञ्शरान्घोरान्कर्णोऽदावद्द्रुतं बहिः ॥'
ब्राह्मं तेजस्तदाऽजय्यं मन्यमानो महारथः ।
अपरस्मिन्वनोद्देशे वीरौ शल्यवृकोदरौ ॥
बलिनौ युद्धसंपन्नौ विद्यया च बलेन च ।
अन्योन्यमाह्वयन्तौ तु मत्ताविव महागजौ ॥
मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् ।
प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः ॥
आचकर्षतुरन्योन्यं मुष्टिभिश्चापि जघ्नतुः ।
ततश्चटचटाशब्दः सुघोरो ह्यभवत्तयोः ॥
पाषाणसंपातनिभैः प्रहारैरभिजघ्नतुः ।
मुहूर्तं तौ तदाऽन्योन्यं समरे पर्यकर्षताम् ॥
ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे ।
अपातयत्कुरुश्रेष्ठो ब्राह्मणा जहसुस्तदा ॥
तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः ।
यच्छल्यं पातितं भूमौ नावधीद्बलिनं बली ॥
पातिते भीमसेनेन शल्ये कर्णे च शङ्किते ।
`विस्मयः परमो जज्ञे सर्वेषां पश्यतां नृणाम् ॥
ततो राजसमूहस्य पश्यतो वृक्षमारुजत् ।
ततस्तु भीमं संज्ञाभिर्वारयामास धर्मराट् ॥
आकारज्ञस्तथा भ्रातुः पाण्डवोऽपि न्यवर्तत ।
धर्मराजश्च कौरव्य दुर्योधनममर्षणम् ॥
अयोधयत्सभामध्ये पश्यतां वै महीक्षिताम् ।
ततो दुर्योधनस्तं तु ह्यवज्ञाय युधिष्ठिरम् ॥
नायोधयत्तदा तेन बलवान्वै सुयोधनः ।
एतस्मिन्नन्तरेऽविध्यद्बाणेनानतपर्वणा ॥
दुर्योधनममित्रघ्नं धर्मराजो युधिष्ठिरः ।
ततो दुर्योधनः क्रुद्धो दण्डाहत इवोरगः ॥
प्रत्ययुध्यत राजानं यत्नं परममास्थितः ।
छित्त्वा राजा धनुः सज्यं धार्तराष्ट्रस्य संयुगे ॥
अभ्यवर्षच्छरौघैस्तं स हित्वा प्राद्रवद्रणम् ।
दुःशासनस्तु संक्रुद्धः सहदेवेन पार्थिव ॥
युद्ध्वा च सुचिरं कालं सहदेवेन निर्जितः । उत्सृज्य च धनुः सङ्ख्ये जानुभ्यामवनीं गतः ।
उत्थाय सोऽभिदुद्राव सोसिं जग्राह चर्म च ॥
विकर्णचित्रसेनाभ्यां निगृहीतश्च कौरवः ।
मा युद्धमिति कौरव्य ब्राह्मणेनाबलेन वै ॥
दुःसहो नकुलश्चोभौ युद्धं कर्तुं समुद्यतै ।
तौ दृष्ट्वा कौरवा युद्धं वाक्यमूचुर्महाबलौ ॥
निवर्तन्तां भवन्तो वै कुतो विप्रेषु क्रूरता ।
दुर्बला ब्राह्मणाश्चेमे भवन्तो वै महाबलाः ॥
द्वावत्र ब्राह्मणौ क्रूरौ वाय्विन्द्रसदृशौ बले ।
ये वा के वा नमस्तेभ्यो गच्छामः स्वपुरं वयम् ॥
एवं संभाषमाणास्ते न्यवर्तन्ताथ कौरवाः ।
जहृषुर्ब्राह्मणास्तत्र समेतास्तत्र सङ्घशः ॥
बहुशस्ते ततस्तत्र क्षत्रिया रणमूर्धनि ।
प्रेक्षमाणास्तथाऽतिष्ठन्ब्राह्मणांश्च समन्ततः ॥
ब्राह्मणाश्च जयं प्राप्ताः कन्यामादाय निर्ययुः ।
विजिते भीमसेनेन शल्ये कर्णे च निर्जिते ॥
दुर्योधने चापयाते तथा दुःशासने रणात् ।' शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम् ॥
ऊचुश्च सहितास्तत्र साध्विमौ ब्राह्मणर्षभौ ।
विज्ञायेतां क्वजन्मानौ क्वनिवासौ तथैव च ॥
को हि राधासुतं कर्णं शक्तो योधयितुं रणे ।
अन्यत्र रामाद्द्रोणाद्वा पाण्डवाद्वा किरीटिनः ॥
कृष्णाद्वा देवकीपुत्रात्कृपाद्वापि शरद्वतः ।
को वा दुर्योधनं शक्तः प्रतियोथयितुं रणे ॥
तथैव मद्राधिपतिं शल्यं बलवतांवरम् ।
बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात् ॥
वीराद्दुर्योधनाद्वाऽन्यः शक्तः पातयितुं रणे ।
क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंवृतात् ॥
ब्राह्मणा हि सदा रक्ष्याः सापराधाऽपिनित्यदा ।
अथैनानुपलभ्येह पुनर्योत्स्याम हृष्टवत् ॥
वैशंपायन उवाच ।
तांस्तथावादिनः सर्वान्प्रसमीक्ष्य क्षितीश्वरान् ।
अथान्यान्पुरुषांश्चापि कृत्वा तत्कर्म संयुगे ॥
तत्कर्म भीमस्य समीक्ष्य कृष्णः कुन्तीसुतौ तौ परिशङ्कमानः ।
निवारयामास महीपतींस्ता- न्धर्मेण लब्धेत्यनुनीय सर्वान् ॥
एवं ते विनिवृत्तास्तु युद्धाद्युद्धविशारदाः ।
यथावासं ययुः सर्वे विस्मिता राजसत्तमाः ॥
वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता ।
इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः ॥
ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः ।
कृच्छ्रेण जग्मतुस्तौ तु भीमसेनधनञ्जयौ ॥
विमुक्तौ जनसंबाधाच्छत्रुभिः परिविक्षतौ ।
कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः ॥
पौर्णमास्यां घनैर्मुक्तौ चन्द्रसूर्याविवोदितौ ।
तेषां माता बहुविधं विनाशं पर्यचिन्तयत् ॥
अनागच्छत्सु पुत्रेषु भैक्षकाले च लिङ्घिते ।
धार्तराष्ट्रैर्हताश्च स्युर्विज्ञाय कुरुपुङ्गवाः ॥
मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः ।
विपरीतं मतं जातं व्यासस्यापि महात्मनः ॥
इत्येवं चिन्तयामासं सुतस्नेहावृता पृथा ।
ततः सुप्तजनप्राये दुर्दिने मेघसंप्लुते ॥
महत्यथापराह्णे तु घनैः सूर्य इवावृतः ।
ब्राह्मणैः प्राविशत्तत्र जिष्णुर्भार्गववेश्म तत् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि प़ञ्चाधिकद्विशततमोऽध्यायः ॥ 205 ॥

1-205-12 विजिगीषिणौ विजिगीषावन्तौ ॥ 1-205-29 वनोद्देशे रङ्गदृशां निवासस्थाने ॥ 1-205-34 समुत्क्षिप्य कूष्माण्डफलवदपातयत् ॥ 1-205-57 अवहारो युद्धान्निवर्तनं ॥ 1-205-59 संयुगे तत्कर्म कृत्वा तूष्णींभूताविति शेषः ॥ 1-205-62 ब्रह्म ब्राह्मणजातिः उत्तरं उत्कृष्टं यस्मिन्स ब्रह्मोत्तरः ॥ 1-205-69 भार्गववेश्म कुलालगृहं ॥ पाञ्चाधिकद्विशततमोऽध्यायः ॥ 205 ॥