अध्यायः 217

(अथ विदुरागमनराज्यलाभपर्व ॥ 14 ॥)

चारद्वारा पाण्डवविवाहादिवृत्तान्तश्रवणेन अन्यैः राजभिः भीष्मधृतराष्ट्रादीनां धिक्कारः ॥ 1 ॥ धार्तराष्ट्रैः पाण्डवान्प्रति मन्त्रालोचनं ॥ 2 ॥ पाण्डवा हन्तव्या इति शकुनेरुक्तिः ॥ 3 ॥ पाण्डवानां हन्तुमशक्यत्वात्तैः सह सन्धिः कर्तव्य इति सौमदत्तेरुक्तिः ॥ 4 ॥

वैशंपायन उवाच ।
ततो राज्ञां चैरराप्तैः प्रवृत्तिरुपनीयत ।
पाण्डवैरुपसंपन्ना द्रौपदी पतिभिः शुभा ॥
येन तद्धनुरादाय लक्ष्यं विद्धं महात्मना ।
सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः ॥
यः शल्यं मद्रराजं वै प्रोत्क्षिप्यापातयद्बली ।
त्रासयामास संक्रुद्धो वृक्षेण पुरुषान्रणे ॥
न चास्य संभ्रमः कश्चिदासीत्तत्र महात्मनः ।
स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः ॥
`योऽसावत्यक्रमीद्युध्यन्युद्धे दुर्योधनं तथा ।
स राजा पाण्डवश्रेष्ठः पुण्यभाग्बुद्धिवर्धनः ॥
दुर्योधनस्यावरजैर्यौ युध्येतां प्रतीपवत् । तौ यमौ वृत्तसंपन्नौ संपन्नबलविक्रमौ ॥'
ब्रह्मरूपधराञ्श्रुत्वा प्रशान्तान्पाण्डुनन्दनान् ।
कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत ॥
`पौरा हि सर्वे राजन्याः समपद्यन्त विस्मिताः ।' सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता ॥
`सर्वभूमिपतीनां च राष्ट्राणां च यशस्विनी ।' पुनर्जातानिव च तांस्तेऽमन्यन्त नराधिपाः ॥
धिगकुर्वंस्तदा भीष्मं धृतराष्ट्रं च कौरवम् ।
कर्मणाऽतिनृशंसेन पुरोचनकृतेन वै ॥
धार्मिकान्वृत्तसंपन्नान्मातुः प्रियहिते रतान् ।
यदा तानीदृशान्पार्थानुत्सादयितुमिच्छति ॥
ततः स्वयंवरे वृत्ते धार्तराष्ट्राश्च भारत ।
मन्त्रयन्ति ततः सर्वे कर्णसौबलदूषिताः ॥
शकुनिरुवाच ।
कश्चिच्छत्रुः कर्शनीयः पीडनीयस्तथाऽपरः ।
उत्सादनीयाः कौन्तेयाः सर्वक्षत्रस्य मे मताः ॥
एवं पराजिताः सर्वे यदि यूयं गमिष्यथ ।
अकृत्वा संविदं कांचिन्मनस्तप्स्यत्यसंशयम् ॥
अयं देशश्च कालश्च पाण्डवाहरणाय नः ।
न चेदेवं करिष्यध्वं लोके हास्या भविष्यथ ॥
यमेते संश्रिता वस्तुं कामयन्ते च भूमिपम् ।
सोऽल्पवीर्यबलो राजा द्रुपदो वै मतो मम ॥
यावदेतान्न जानन्ति जीवतो वृष्णिपुङ्गवाः ।
चैद्यश्च पुरुषव्याघ्रः शिशुपालः प्रतापवान् ॥
एकीभावं गतो राज्ञा द्रुपदेन महात्मना ।
दुराधर्षतरा राजन्भविष्यन्ति न संशयः ॥
यावच्चञ्चलतां सर्वे प्राप्नुवन्ति नराधिपाः ।
तावदेव व्यवस्यामः पाण्डवानां वधं प्रति ॥
मुक्ता जतुगृहाद्भीमादाशीविषमुखादिव ।
पुनस्ते यदि मुच्यन्ते महन्नो भयमागतम् ॥
तेषामिहोपयातानामेषां तु चिरवासिनाम् ।
अन्तरे दुष्करं स्थातुं गजयोर्महतोरिव ॥
हनध्वं प्रगृहीतानि बलानि बलिनां वराः ।
यावन्नः कुरुसेनायां पतन्ति पतगा इव ॥
तावत्सर्वाभिसारेण पुरमेतद्विहन्यताम् ।
एतन्मम मतं चैव प्राप्तकालं नरर्षभ ॥
वैशंपायन उवाच ।
शकुनेर्वचनं श्रुत्वा भाषमाणस्य दुर्मतेः ।
सोमदत्तिरिदं वाक्यं जगाद परमं ततः ॥
प्रकृतीः सप्त वै ज्ञात्वा आत्मनश्च परस्य च ।
तथा देशं च कालं च षड्विधान्स नयोद्गुणान् ॥
स्थानं वृद्धिं क्षयं चैव भूमिं मित्राणि विक्रमम् ।
प्रसमीक्ष्याभियुञ्जीत परं व्यसनपीडितम् ॥
ततोऽहं पाण्डवान्मन्ये मित्रकोशसमन्वितान् ।
बलस्थान्विक्रमस्थांश्च स्वकृतैः प्रकृतिप्रियान् ॥
वपुषा हि तु भूतानां नेत्राणि हृदयानि च ।
श्रोत्रं मधुरया वाचा रमयत्यर्जुनो नृणाम् ॥
न तु केवलदैवेन प्रजा भावेन भेजिरे ।
यद्बभूव मनःकान्तं कर्मणा स चकार तत् ॥
न ह्ययुक्तं न चासक्तं नानृतं न च विप्रियम् ।
भाषितं चारुभाषस्य जज्ञे पार्थस्य भारती ॥
तानेवंगुणसंपन्नान्संपन्नान्राजलक्षणैः ।
न तान्पश्यामि ये शक्ताः समुच्छेत्तुं यथा बलात् ॥
प्रभावशक्तिर्विपुला मन्त्रशक्तिश्च पुष्कला ।
तथैवोत्साहशक्तिश्च पार्थेष्वप्यधितिष्ठति ॥
मौलमित्रबलानां च कालज्ञो वै युधिष्टिरः ।
साम्ना दानेन भेदेन दण्डेनेति युधिष्ठिरः ॥
अमित्रांश्च ततो जेतुनं न रोषेणेति मे मतिः ।
परिक्रीय धनैः शत्रुं मित्राणि च बलानि च ॥
मूलं च सुकृतं कृत्वा भुङ्क्ते भूमिं च पाण्डवः ।
अशक्यान्पाण्डवान्मन्ये देवैरपि सवासवैः ॥
येषामर्थे सदा युक्तौ कृष्णसंकर्षणावुभौ ।
श्रेयश्च यदि मन्यद्वं मन्मतं यदि वा मतम् ॥
संविदं पाण्डवैः सर्वैः कृत्वा याम यथागतम् ।
गोपुराट्टालकैरुच्चैरुपतल्पशतैरपि ॥
गुप्तं पुरवरश्रेष्ठमेतदद्भिश्च संवृतम् ।
तृणधान्येन्धरसैस्तथा यन्त्रायुधौषधैः ॥
युक्तं बहुकवाटैश्च द्रव्यागारसुवेदिकैः ।
भीमोच्छ्रितमहाचक्रं बृहदट्टालसंवृतम् ॥
दृढप्राकारनिर्यूहं शतघ्नीशतसंकुलम् ।
ऐष्टको दारवो वप्रो मानुषश्चेति यः स्मृतः ॥
प्राकारकर्तृभिर्वीरैर्नृगर्भस्तत्र पूजितः ।
तदेतन्नरगर्भेण पाण्डरेण विराजते ॥
सालेनानेकतालेन सर्वतः संवृतं पुरम् ।
अनुरक्ताः प्रकृतयो द्रुपदस्य महात्मनः ॥
दानमानार्जिताः सर्वे बाह्याभ्यन्तरगाश्च ये ।
प्रतिरुद्धानिमाञ्ज्ञात्वा राजभिर्भीमविक्रमैः ॥
उपयास्यन्ति दाशार्हाः समुदग्रोच्छ्रितायुधाः ।
तस्मात्संन्धिं वयं कृत्वा धार्तराष्ट्रस्य पाण्डवैः ॥
स्वराष्ट्रमेव गच्छामो यद्याप्तं वचनं मम । एतन्मम मतं सर्वैः क्रियतां यदि रोचते ।
एतद्धि सुकृतं मन्ये क्षेमं चापि महीभिताम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि सप्तदशाधिकद्विशततमोऽध्यायः ॥ 217 ॥

1-217-29 भेजिर अर्जुनमिति शेषः ॥ सप्तदशाधिकद्विशततमोऽध्यायः ॥ 217 ॥