अध्यायः 218

पाण्डवा हन्तव्या एवेति कर्णस्योक्तिः ॥ 1 ॥ पाञ्चालनगरंप्रति युद्धार्थं दुर्योधनादीनां गमनम् ॥ 2 ॥ तैः सह योद्धुं सपाण्डवस्य द्रुपदस्यागमनम् ॥ 3 ॥ कर्णजयद्रथाभ्यां सुमित्रप्रियदर्शनयोर्वधः ॥ 4 ॥ अर्जुनेन कर्णजयद्रथपुत्रयोर्वधः ॥ 5 ॥ कर्णदुर्योधनादीनां पराजयः ॥ 6 ॥ पराजितानां तेषां हास्तिनपुरगमनम् ॥ 7 ॥ कृष्णबलरामयोः पाञ्चालपुरे वासः ॥ 8 ॥

वैशंपायन उवाच ।
सौमदत्तेर्वचः श्रुत्वा कर्णो वैकर्तनो वृषा ।
उवाच वचनं काले कालज्ञः सर्वकर्मणाम् ॥
नीतिपूर्वमिदं सर्वमुक्तं वचनमर्थवत् ।
वचनं नाभ्यसूयामि श्रूयतां यद्वचस्त्विति ॥
द्वैधीभावो न गन्तव्यः सर्वकर्मसु मानवैः ।
द्विधाभूतेन मनसा अन्यत्कर्म न सिध्यति ॥
संप्रयाणासनाभ्यां तु कर्शनेन तथैव च ।
नैतच्छक्यं पुरं हर्तुमाक्रन्दश्चाप्यशोभनः ॥
अवमर्दनकालोऽत्र मतश्चिन्तयतो मम ।
यावन्नो वृष्णयः पार्ष्णिं न गृह्णन्तिरणप्रियाः ॥
भवन्तश्च तथा हृष्टाः स्वबाहुबलशालिनः ।
प्राकारमवमृद्रन्तु परिघाः पूरयन्त्वपि ॥
प्रस्रावयन्तु सलिलं क्रियतां विषमं समम् ।
तृणकाष्ठेन महता खातमस्य प्रपूर्यताम् ॥
घुष्यतां राजमार्गेषु परेषां यो हनिष्यति ।
नागमश्वं पदातिं वा दानमानं स लप्स्यति ॥
नागे दशसहस्राणि पञ्च चाश्वपदातिषु ।
रथे वै द्विगुणं नागाद्वसु दास्यन्ति पार्थिवाः ॥
यश्च कामसुखे सक्तो बालश्च स्थविरश्च यः ।
अयुद्धमनसो ये च ते तु तिष्ठन्तु भीरवः ॥
प्रदरश्च न दातव्यो न गन्तव्यमचोदितैः ।
यशो रक्षत भद्रं वो जेष्यामो वै रिपून्वयम् ॥
अनुलोमाश्च नो वाताः सततं मृगपक्षिणः ।
अग्नयश्च विराजन्ते शस्त्राणि कवचानि च ॥
वैशंपायन उवाच ।
ततः कर्णवचः श्रुत्वा धार्तराष्ट्रप्रियैषिणः ।
निर्ययुः पृथिवीपालाश्चालयन्तः परान्रणे ॥
न हि तेषां मनःसक्तिरिन्द्रियार्थेषु सर्वशः ।
यथा परिरपुघ्नानां प्रसभं युद्ध एव च ॥
वैकर्तनपुरोव्रातः सैन्धवोर्मिमहास्वनः ।
दुःशासनमहामत्स्यो दुर्योधनमहाग्रहः ॥
स राजसागरो भीमो भीमघोषप्रदर्शनः ।
अभिदुद्राव वेगेन पुरं तदपसव्यतः ॥
तदनीकमनाधृष्यं शस्त्राग्निव्यालदीपितम् ।
समुत्कम्पितमाज्ञाय चुक्रुशुर्द्रुपदात्मजाः ॥
ते मेघसमनिर्घोषैर्बलिनः स्यन्दनोत्तमैः । निर्ययुर्नगरद्वारात्त्रासयन्तः परान्र
धृष्टद्युम्नः शिखण्डी च सुमित्रः प्रियदर्शनः ।
चित्रकेतुः सुकेतुश्च ध्वजकेतुश्च वीर्यवान् ॥
पुत्रा द्रुपदराजस्य बलवन्तो जयैषिणः ।
द्रुपदस्य महावीर्यः पाण्डरोष्णीषकेतनः ॥
पाण्डरव्यजनच्छत्रः पाण्डरध्वजवाहनः ।
स पुत्रगणमध्यस्थः शुशुभे राजसत्तमः ॥
चन्द्रमा ज्योतिषां मध्ये पौर्णमास्यामिवोदितः ।
अथोद्धूतपताकाग्रमजिह्मगतिमव्ययम् ॥
द्रुपदानीकमायान्तं कुरुसैन्यमभिद्रवत् ।
तयोरुभयतो जज्ञे तेषां तु तुमुलः स्वनः ॥
बलयोः संप्रसरतोः सरितां स्रोतसोरिव ।
प्रकीर्णरथनागाश्वैस्तान्यनीकानि सर्वशः ॥
ज्योतींषईव प्रकीर्णानि सर्वतः प्रचकाशिरे ।
उत्कृष्टभेरीनिनदे संप्रवृत्ते महारवे ॥
अमर्षिता महात्मानः पाण्डवा निर्ययुस्ततः ।
रथांश्च मेघनिर्घोषान्युक्तान्परमवाजिभिः ॥
धून्वन्तो ध्वजिनः शुभ्रानास्थाय भरतर्षभाः ।
ततः पाण्डुसुतान्दृष्ट्वा रथस्थानात्तकार्मुकान् ॥
नृपाणामभवत्कम्पो वेपथुर्हृदयेषु च ।
निर्यातेष्वथ पार्थेषु द्रोपदं तद्बलं रणे ॥
आविशत्परमो हर्षः प्रमोदश्च जयं प्रति ।
सुमुहूर्तं व्यतिकरः सैन्यानामभवद्भृशम् ॥
ततो द्वन्द्वमयुध्यन्त मृत्युं कृत्वा पुरस्कृतम् ।
जघ्नतुः समरे तस्मिन्सुमित्रप्रियदर्शनौ ॥
जयद्रथश्च कर्णश्च पश्यतः सव्यसाचिनः ।
अर्जुनः प्रेक्ष्य निहतौ सौमित्रप्रियदर्शनौ ॥
जयद्रथसुतं तत्र जघान पितुरन्तिके ।
वृषसेनादवरजं सुदामानं धनंजयः ॥
कर्णपुत्रं महेष्वासं रथनीडादपातयत् ।
तौ सुतौ निहतौ दृष्ट्वा राजसिंहौ तरस्विनौ ॥
नामृष्येतां महाबाहू प्रहारमिव सद्गजौ ।
तौ जग्मतुरसंभ्रान्तौ फल्गुनस्य रथंप्रति ॥
प्रतिमुक्ततलत्राणौ शपमानौ परस्परम् ।
सन्निपातस्तयोरासीदतिघोरो महामृधे ॥
वृत्रशम्बरयोः सङ्क्ये वज्रिणेव महारणे ।
त्रीनश्वाञ्जघ्नतुस्तस्य फल्गुनस्य नर्षभौ ॥
ततः किलिकिलाशब्दः कुरूणामभवत्तदा ।
तान्हयान्निहतान्दृष्ट्वा भीमसेनः प्रतापवान् ॥
निमेषान्तरमात्रेण रथमश्वैरयोजयत् ।
उपयातं रथं दृष्ट्वा दुर्योधनपुरःसरौ ॥
सौबलः सौमदत्तिश्च समेयातां परन्तपौ ।
तैः पञ्चभिरदीनात्मा भीमसेनो महाबलः ॥
अयुध्यत तदा वीरैरिन्द्रियार्थैरिवेश्वरः ।
तैर्निरुद्धो न संत्रासं जगाम समितिंजयः ॥
पञ्चभिर्द्विरदैर्मत्तैर्निरुद्ध इव केसरी ।
तस्यैते युगपत्पञ्च पञ्चभिर्निशितैः शरैः ॥
सारथिं वाजिनश्चैव निन्युर्वैवस्वतक्षयम् ।
हताश्वात्स्यन्दनश्रेष्ठादवरुह्य महारथः ॥
चचार विविधान्मार्गानसिमुद्यम्य पाण्डवः ।
अश्वस्कन्धेषु चक्रेषु युगेष्वीषासु चैव हि ॥
व्यचरत्पातयञ्शत्रून्सुपर्ण इव भोगिनः ।
विधनुष्कं विकवचं विरथं च समीक्ष्य तम् ॥
अभिपेतुर्नव्याघ्रा अर्जुनप्रमुखा रथाः ।
धृष्टद्युम्नः शिखण्डी च यमौ च युधि दुर्जयौ ॥
तस्मिन्महारथे युद्धे प्रवृत्ते शरवृष्टिभिः ।
रथध्वजपताकाश्च सवर्मन्तरधीयत ॥
तत्प्रवृत्तं चिरं कालं युद्धं सममिवाभवत् ।
रथेन तान्महाबाहुरर्जुनो व्यधमत्पुनः ॥
तमापतन्तं दृष्ट्वेव महाबाहुर्धनुर्धरः ।
कर्णोऽस्त्रविदुषां श्रेष्ठो वारयामास सायकैः ॥
स तेनाभिहतः पार्थो वासविर्वज्रसन्निभान् ।
त्रीञ्शरान्संदधे क्रुद्धो वधात्क्रुद्धस्य पाण्डवः ॥
तैः शरैराहतं कर्णं ध्वजयष्टिमुपाश्रितम् ।
अपोवाह रथाच्चाशु सूतः परपुरंजयम् ॥
ततः पराजिते कर्णे धार्तराष्ट्रान्महाभयम् ।
विवेश समुदग्रांश्च पाण्डवान्प्रसमीक्ष्य तु ॥
तत्प्रकम्पितमत्यर्थं तद्दृष्ट्वा सौबलो बलम् ।
गिरा मधुरया चापि समाश्वासयतासकृत् ॥
धार्तराष्ट्रैस्ततः सर्वैर्दुर्योधनपुरःसरैः ।
धृतं तत्पुनरेवासीद्बलं पार्थप्रपीडितम् ॥
ततो दुर्योधनं दृष्ट्वा भीमो भीमपराक्रमः ।
अक्रुध्यत्स महाबाहुरगारं जातुषं स्मरन् ॥
ततः संग्रामशिरसि ददर्श विपुलद्रुमम् ।
आयामभूतं तिष्ठन्तं स्कन्धपञ्चाशदुन्नतम् ॥
महास्कन्धं महोत्सेधं शक्रध्वजमिवोच्छ्रितम् ।
तमुत्पाठ्य च पाणिभ्यामुद्यम्य चरणावपि ॥
अभिपेदे परान्सङ्ख्ये वज्रपाणिरिवासुरान् ।
भीमसेनभयार्तानि फल्गुनाभिहतानि च ॥
न शेकुस्तान्यनीकानि धार्तराष्ट्राण्युदीक्षितुम् ।
तानि संभ्रान्तयोधानि श्रान्तवाजिगजानि च ॥
दिशः प्राकालयद्भीमो दिवीवाभ्राणि मारुतः ।
तान्निवृत्तान्निरानन्दान्नरवारणवाजिनः ॥
नानुसस्रुर्न चाजघ्नुर्नोचुः किंचिच्च दारुणम् ।
स्वमेव शिबिरं जग्मुः क्षत्रियाः शरविक्षताः ॥
परेऽप्यभिययुर्हृष्टाः पुरं पौरसुखावहाः ।
मुहूर्तमभवद्युद्धं तेषां वै पाण्डवैः सह ॥
यावत्तद्युद्धमभवन्महद्देवासुरोपमम् ।
तावदेवाभवच्छान्तं निवृत्ता वै महारथाः ॥
सुव्रतं चक्रिरे सर्वे सुवृतामब्रुवन्वधूम् ।
कृतार्थं द्रुपदं चोचुर्धृष्टद्युम्नं च पार्षतम् ॥
शकुनिः सिन्धुराजश्च कर्णदुर्योधनावपि ।
तेषां तदाभवद्दुःखं हृदि वाचा तु नाब्रुवन् ॥
ततः प्रयाता राजानः सर्व एव यथागतम् ।
धार्तराष्ट्रा हि ते सर्वे गता नागपुरं तदा ॥
प्रागेव पूर्निरोधात्तु पाण्डवैरश्वसादिनः ।
प्रेषिता गच्छतारिष्टानस्मानाख्यात शौरये ॥
तेऽचिरेणैव कालेन संप्राप्ता यादवीं पुरीम् ।
ऊचुः संकर्षणोपेन्द्रौ वचनं वचनक्षमौ ॥
कुशलं पाण्डवाः सर्वानाहुः स्मान्धकवृष्णयः ।
आत्मनश्चाहतानाहुर्विमुक्ताञ्जातुषाद्गृहात् ॥
समाजे द्रौपदीं लब्धामाहू राजीवलोचनाम् ।
आत्मनः सदृशीं सर्वैः शीलवृत्तसमाधिभिः ॥
तच्छ्रुत्वा वचनं कृष्णस्तानुवाचोत्तरं वचः ।
सर्वमेतदहं जाने वधात्तस्य तु रक्षसः ॥
तत उद्योजयामास माधवश्चतुरङ्गिणीम् ।
सेनामुपानयत्तूर्णं पाञ्चालनगरीं प्रति ॥
ततः संकर्षणश्चैव केशवश्च महाबलः ।
यादवैः सह सर्वैश्च पाण्डवानभिजग्मतुः ॥
पितृष्वसारं संपूज्य नत्वा चैव तु यादवीम् ।
द्रौपदीं भूषणैः शुभ्रैर्भूषयित्वा यथाविधि ॥
पाण्डवान्हर्षयित्वा तु पूजयामासतुश्च तान् ।
न्यायतः पूजितौ राज्ञा द्रुपदेन महात्मना ॥
यादवाः पूजिताः सर्वे पाण्डवैश्च महात्मभिः ।
रेमिरे पाण्डवैः सार्धं ते पाञ्चालपुरे तदा ॥ ॥

इति श्रीमन्माहाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि अष्टादशाधिकद्विशततमोऽध्यायः ॥ 218 ॥