अध्यायः 231

सुन्दोपसुन्दकृतोपद्रवं निवेद्य देवादिभिः प्रार्थितेन ब्रह्मणा आज्ञप्तेन विश्वकर्मणा तिलोत्तमासृष्टिः ॥ 1 ॥ तिलोत्तमया ब्रह्माज्ञास्वीकारः ॥ 2 ॥

नारद उवाच ।
ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः ।
जग्मुस्तदा परमार्तिं दृष्ट्वा तत्कदनं महत् ॥
तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः ।
पितामहस्य भनं जगतः कृपया तदा ॥
ततो ददृशुरासीनं सह देवैः पितामहम् ।
सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम् ॥
तत्र देवो महादेवस्तत्राग्निर्वायुना सह ।
चन्द्रादित्यौ च शक्रश्च पारमेष्ठ्यास्तथर्षयः ॥
वैखानसा वालखिल्या वानप्रस्था मरीचिपाः ।
अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः ॥
ऋषयः सर्व एवैते पितामहमुपागमन् ।
ततोऽभिगम्य ते दीनाः सर्व एव महर्षयः ॥
सुन्दोपसुन्दयौः कर्म सर्वमेव शशंसिरे ।
यथा हृतं यथा चैव कृतं येन क्रमेण च ॥
न्यवेदयंस्ततः सर्वमखिलेन पितामहे ।
ततो देवगणाः सर्वे ते चैव परमर्षयः ॥
तमेवार्थं पुरस्कृत्य पितामहमचोदयन् ।
ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा ॥
मुहूर्तमिव संचिन्त्य कर्तव्यस्य च निश्चयम् ।
तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् ॥
दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः ।
सृज्यतां प्रार्थनीयैका प्रमदेति महातपाः ॥
पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च ।
निर्ममे योषितं दिव्यां चिन्तयित्वा पुनःपुनः ॥
त्रिषु लोकेषु यत्किंचिद्भूतं स्थावरजङ्गमम् ।
समानयद्दर्शनीयं तत्तदत्र स विश्ववित् ॥
कोटिशश्चैव रत्नानि तस्या गात्रे न्यवेशत् ।
तां रत्नसङ्घातमयीमसृजद्देवरूपिणीम् ॥
सा प्रयत्नेन महता निर्मिता विश्वकर्मणा ।
त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् ॥
न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसंपदा ।
नियुक्ता यत्र वा दृष्टिर्न सज्जति निरीक्षताम् ॥
सा विग्रहवतीव श्रीः कामरूपा वपुष्मती ।
`पितामहमुपातिष्ठत्किं करोमीति चाब्रवीत् ॥
प्रीतो भूत्वा स दृष्ट्वैव प्रीत्या चास्यै वरं ददौ ।
कान्तत्वं सर्वभूतानां साश्रियानुत्तमं वपुः ॥
सा तेन वरदानेन कर्तुश्च क्रियया तदा ।' जहार सर्वभूतानां चक्षूंषि च मनांसि च ॥
तिलंतिलं समानीय रत्नानां यद्विनिर्मिता ।
तिलोत्तमेति तत्तस्या नाम चक्रे पितामहः ॥
ब्रह्माणं सा नमस्कृत्य प्राञ्जलिर्वाक्यमब्रवीत् ।
किं कार्यं मयि भूतेश येनास्म्यद्येह निर्मिता ॥
पितामह उवाच ।
गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे ।
प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ॥
त्वत्कृते दर्शादेव रूपसंपत्कृतेन वै ।
विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु ॥
नारद उवाच ।
सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् ।
चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् ॥
प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः ।
देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन् ॥
कुर्वन्त्यां तु तदा तत्र मण्डलं तत्प्रदक्षिणम् ।
इन्द्रः स्थाणुश्च भगवान्धैर्येण तु परिच्युतौ ॥
द्रष्टुकामस्य चात्यर्थं गतायां पार्श्वतस्तथा ।
अन्यदञ्चितपद्माक्षं दक्षिणं निःसृतं मुखम् ॥
पृष्ठतः परिवर्तन्त्यां पश्चिमं निःसृतं मुखम् ।
गतायां चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् ॥
महेन्द्रस्यापि नेत्राणां पृष्ठतः पार्श्वतोग्रतः ।
रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् ॥
एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा ।
तथा सहस्रनेत्रश्च बभूव बलसूदनः ॥
तथा देवनिकायानां महर्षीणां च सर्वशः ।
मुखानि चाभ्यवर्तन्त येन याति तिलोत्तमा ॥
तस्या गात्रे निपतिता दृष्टिस्तेषां महात्मनाम् ।
सर्वेषामेव भूयिष्ठमृते देवं पितामहम् ॥
गच्छन्त्यां तु तया सर्वे देवाश्च परमर्षयः ।
कृतमित्येव तत्कार्यं मेनिरे रूपसंपदा ॥
तिलोत्तमायां तस्यां तु गतायां लोकभावनः । `कृतं कार्यमिति श्रीमानब्रवीच्च पितामहः ।'
सर्वान्विसर्जयामास देवानृषिगणांश्च तान् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि एकत्रिंशदधिकद्विशततमोऽध्यायः ॥ 231 ॥

1-231-23 ताभ्यां तयोः ॥ 1-231-31 देवनिकायानां देवसङ्घानां येन देशेन मार्गेण सा याति तथा मुखान्यभ्यवर्तन्त ॥ एकत्रिंशदधिकद्विशततमोऽध्यायः ॥ 231 ॥