अध्यायः 235

अर्जुनस्य मणलूरग्रामगमनम् ॥ 1 ॥ पुत्रिकापुत्रकधर्मेण चित्राङ्गदापरिग्रहः ॥ 2 ॥

वैशंपायन उवाच ।
कथयित्वा च तत्सर्वं ब्राह्मणेभ्यः स भारत ।
प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः ॥
अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् ।
भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः ॥
प्रददौ गोसहस्राणि सुबहूनि च भारत ।
निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः ॥
हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः ।
दृष्टवान्पाण्डवश्रेष्ठः पुण्यान्यायतनानि च ॥
अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत ।
प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः ॥
आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः ।
नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति ॥
नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् ।
महानदीं गयां चैव गङ्गामपि च भारत ॥
एवं तीर्थानि सर्वाणि पश्यमानस्तथाश्रमान् ।
आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ च गाः ॥
अङ्गवङ्गकलिङ्गेषु यानि तीर्थानि कानिचित् ।
जगाम तानि सर्वाणि पुण्यान्यायतनानि च ॥
दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः । कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः ।
अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत ॥
स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः ।
सहायैरल्पकैः शूरः प्रययौ यत्र सागरः ॥
स कलिङ्गानतिक्रम्य देशानायतनानि च ।
हर्म्याणि रमणीयानि प्रेक्षणाणो ययौ प्रभुः ॥
महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम् ।
`गोदावर्यां ततः स्नात्वा तामतीत्य महाबलः ॥
कावेरीं तां समासाद्य सङ्गमे सागरस्य च ।
स्नात्वा संपूज्य देवांश्च पितॄंश्च मुनिभिः सह' ॥
समुद्रतीरेण शनैर्मणलूरं जगाम ह ॥
तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च ।
अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् ॥
मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् ।
तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना ॥
तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया ।
दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहनीम् ॥
अभिगम्य च राजानमवदत्स्वं प्रयोजनम् ।
देहि मे खल्विमां राजन्क्षत्रियाय महात्मने ॥
तच्छ्रुत्वा त्वब्रवीद्राजा कस्य पुत्रोऽसि नाम किम् ।
उवाच तं पाण्डवोऽहं कुन्तीपुत्रो धनञ्जयः ॥
तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः ।
राजा प्रभञ्जनो नाम कुलेऽस्मिन्संबभूव ह ॥
अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् ।
उग्रेण तपसा तेन देवदेवः पिनाकधृक् ॥
ईश्वरस्तोषितः पार्थ देवदेवः उमापतिः ।
स तस्मै भघवान्प्रादादेकैकं प्रसवं कुले ॥
एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा ।
तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे ॥
एका च मम कन्येयं कुलस्योत्पादनी भृशम् ।
पुत्रो ममायमिति मे भावना पुरुषर्षभ ॥
पुत्रिकाहेतुविधिना संज्ञिता भरतर्षभ ।
तस्मादेकः सुतो योऽस्यां जायते भारत त्वया ॥
एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह ।
एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव ॥
स तथेति प्रतिज्ञाय तां कन्यां प्रतिगृह्य च । `मासे त्रयोदशे पार्थः कृत्वा वैवाहिकीं क्रियाम् ।'
उवास नगरे तस्मिन्मासांस्त्रीन्स तया सह ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥ 235 ॥