अध्यायः 241

यतेः सुभद्रागृहे कृष्णेन स्थापनम् ॥ 1 ॥ श्रुतपूर्वपार्थलक्षणदर्शनेन इमं यतिं अर्जुनं शङ्कमानायाः सुभद्रायाः यतिंप्रति अर्जुनादिकुशलप्रश्नः ॥ 2 ॥ अर्जुनेन तत्वे कथिते मोहितायां सुभद्रायां रुक्मिण्या श्वश्रूसमीपे तद्वृत्तकथनम् ॥ 3 ॥ वासुदेवानुमत्या देवक्या सुभद्राश्वासनम् ॥ 4 ॥ गूढं सुभद्राया विवाहचिकीर्षया कृष्णेन महादेवपूजाव्याजेन सर्वयादवैः सह अन्तर्द्वीपगमनम् ॥ 5 ॥

वैशंपायन उवाच ।
स तथेति प्रतिज्ञाय सहितो यतिना हरिः ।
कृत्वा तु संविदं तेन प्रहृष्टः केशवोऽभवत् ॥
पर्वते तौ विहृत्यैव यथेष्टं कृष्णपाण्डवौ । तां पुरीं प्रविवेशाथ गृह्य हस्तेन पाण्डवम् ।
प्रविश्य च गृहं रम्यं सर्वभोगसमन्वितम् ॥
पार्थमावेदयामास रुक्मिणीसत्यभामयोः ।
हृषीकेशवचः श्रुत्वा ते उभे चोचतुर्भृशम् ॥
मनोरथो महानेष हृदि नौ परिवर्तते ।
कदा द्रक्षाव बीभत्सुं पाण्डवं पुरमागतम् ॥
इत्येवं हर्षमाणे ते वदन्त्यौ सुभृशं प्रियम् ।
रुग्मिणीसत्यभामे वै दृष्ट्वा प्रीतोऽभवद्यतिः ॥
सर्वेषां हर्षमाणानां पार्थो हर्षमुपागमत् ।
प्राप्तमज्ञातरूपेण चागतं चार्जुनं हरिः ॥
सत्कृत्य पूज्यमानं तु प्रीत्या चैव ह्यपूजयत् ।
स तं प्रियातिथिं श्रेष्ठं समीक्ष्य यतिमागतम् ॥
सोदर्यां भगिनीं कृष्णः सुभद्रामिदमब्रवीत् ।
अयं देशातिथिर्भद्रे संशितव्रतवानृषिः ॥
प्राप्नोतु सततं पूजां तव कन्यापुरे वसन् ।
आर्येण च परिज्ञातः पूजनीयो यतिस्त्वया ॥
रागाद्भरस्व वार्ष्णेयि भक्ष्यैर्भोज्यैर्यतिं सदा ।
एष यद्यदृषिर्ब्रूयात्कार्यमेव न संशयः ॥
सखीभिः सहिता भद्रे भवास्य वशवर्तिनी ।
पुरा हि यतयो भद्रे ये भैक्षार्थमनुव्रताः ॥
ते बभूवुर्दशार्हाणां कन्यापुरनिवासिनः । तेभ्यो भोज्यानि भक्ष्याणि यथाकालमतन्द्रिताः ।
कन्यापुरगताः कन्याः प्रयच्छन्ति यशस्विनि ॥
वैशंपायन उवाच ।
सा तथेत्यब्रवीत्कृष्णं करिष्यामि यथाऽऽथ माम् ।
तोषयिष्यामि वृत्तेन कर्मणा च द्विजर्षभम् ॥
एवमेतेन रूपेण कंचित्कालं धनञ्जयः ।
उवास भक्ष्यैर्भोज्यैश्च भद्रया परमार्चितः ॥
तस्य सर्वगुणोपेतां वासुदेवसहोदरीम् ।
पश्यतः सततं भद्रां प्रादुरासीन्मनोभवः ॥
गूहयन्निव चाकारमालोक्य वरवर्णिनीम् ।
दीर्घमुष्णं विनिश्वस्य पार्थः कामवशं गतः ॥
स कृष्णां द्रौपदीं मेने न रूपे भद्रया समाम् ।
प्राप्तां भूमान्विन्द्रसेनां साक्षाद्वा वरुणात्मजाम् ॥
अतीतकाले संप्राप्ते सर्वास्तापि सुरस्त्रियः ।
न समा भद्रया लोके इत्येवं मन्यतेऽर्जुनः ॥
अतीतसमये काले सोदर्याणां धनञ्जयः ।
न सस्मार सुभद्रायां कामाङ्कुशनिवारितः ॥
क्रीडारतिपरां भद्रां सखीगणसमावृताम् ।
प्रीयते स्मार्जुनः पश्यन्स्वाहामिव विभावसुः ॥
पाण्डवस्य सुभद्रायाः सकाशे तु यशस्विनः ।
समुत्पत्तिः प्रभावश्च गदेन कथितः पुरा ॥
श्रुत्वा चाशनिनिर्घोषं केशवेनापि धीमता ।
उपमामर्जुनं कृत्वा विस्तरः कथितः पुरा ॥
क्रुद्धमानप्रलापश्च वृष्णीनामर्जुनं प्रति ।
पौरुषं चोपमां कृत्वा प्रावर्तत धनुष्मताम् ॥
अन्योन्यकलहे चापि विवादे चापि वृष्णयः ।
अर्जुनोपि न मे तुल्यः कुतस्त्वमिति चाब्रुवन् ॥
जातांश्च पुत्रान्गृह्णन्त आशिषो वृष्णयोऽब्रवन् ।
अर्जुनस्य समो वीर्ये भव तात धनुर्धरः ॥
तस्मात्सुभद्रा चकमे पौरुषाद्भरतर्षभम् ।
सत्यसन्धस्य रूपेण चातुर्येण च मोहिता ॥
चारणातिथिसंघानां गदस्य च निशम्य सा ।
अदृष्टे कृतभावाभूत्सुभद्रा भरतर्षभे ॥
कीर्तयन्ददृशे यो यः कथंचित्कुरुजाङ्गलम् ।
तं तमेव तदा भद्रा बीभत्सुं स्म हि पृच्छति ॥
अभीक्ष्णश्रवणादेवमभीक्ष्णपरिपृच्छनात् ।
प्रत्यक्ष इव भद्रायाः पाण्डवः प्रत्यपद्यत ॥
भुजौ भुजगसङ्काशौ ज्याघातेन किणीकृतौ ।
पार्थोऽयमिति पश्यन्त्या निःशंसयमजायत ॥
यथारूपं हि शुश्राव सुभद्रा भरतर्षभम् ।
तथारूपमवेक्ष्यैनं परां प्रीतिमवाप सा ॥
सा कदाचिदुपासीनं पप्रच्छ कुरुनन्दनम् ।
कथं देशाश्च चरिता नानाजनपदाः कथम् ॥
सरांसि सरितश्चैव वनानि च कथं यते ।
दिशः काश्च कथं प्राप्ताश्चरता भवता सदा ॥
स तथोक्तस्तदा भद्रां बहुनर्मामृतं ब्रुवन् ।
उवाच परमप्रीतस्तथा बहुविधाः कथाः ॥
निशण्य विविधं तस्य लोके चरितमात्मनः ।
तथा परिगतो भावः कन्यायाः समपद्यत ॥
पर्वसन्धौ तु कस्मिंश्चित्सुभद्रा भरतर्षभम् ।
रहस्येकान्तमासाद्य हर्षमाणाऽभ्यभाषत ॥
यतिना रचता देशान्खाण्डवप्रस्थवासिनी ।
कश्चिद्भगवता दृष्टा पृथाऽस्माकं पितृष्वसा ॥
भ्रातृभिः प्रीयते सर्वैर्दृष्टः कच्चिद्युधिष्ठिरः ।
कच्चिद्धर्मपरो भीमो धर्मराजस्य धीमतः ॥
निवृत्तसमयः कच्चिदपराधाद्धनञ्जयः ।
नियमे कामभोगानां वर्तमानः प्रिये रतः ॥
क्व नु पार्थश्चरत्यद्य बहिः स वसतीर्वसन् ।
सुखोचितो ह्यदुःखार्हो दीर्घबाहुररिन्दमः ॥
कच्चिच्छ्रुतो वा दृष्टो वा पार्थो भगवताऽर्जुनः ।
निशम्य वचनं तस्यास्तामुवाच हसन्निव ॥
आर्या कुशलिनी कुन्ती सहपुत्रा सहस्नुषा ।
प्रीयते पश्यती पुत्रान्खाण्डवप्रस्थ आसते ॥
अनुज्ञातश्च मात्रा च सोदरैश्च धनञ्जयः ।
द्वारकामावसत्येको यतिलिङ्गेन पाण्डवः ॥
पश्यन्ती सततं कस्मान्नाभिजानासि माधवि ।
निशण्य वचनं तस्य वासुदेवसहोदरी ॥
निश्वासबहुला तस्थौ क्षितिं विलिखती तदा ।
ततः परमसंहृष्टः सर्वशस्त्रभृतां वरः ॥
अर्जुनोऽहमिति प्रीतस्तामुवाच धनञ्जयः ।
यथा तव गतो भावः श्रवणान्मयि भामिनि ॥
त्वद्गतः सततं भावस्तथा तव गुणैर्मम ।
प्रशस्तेऽहनि धर्मेण भद्रे स्वयमहं वृतः ॥
सत्यवानिव सावित्र्या भविष्यामि पतिस्तव ॥
वैशंपायन उवाच ।
एवमुक्त्वा ततः पार्थः प्रविवेश लतागृहम् ।
ततः सुभद्रा ललिता लज्जाभावसमन्विता ॥
मुमोह शयने दिव्ये शयाना न तथोचिता ।
नाकरोद्यतिपूजां सा लज्जाभावमुपेयुषी ॥
कन्यापुरे तु यद्वृत्तं ज्ञात्वा दिव्येन चक्षुषा ।
शशास रुक्मिणीं कृष्णो भोजनादि तदार्जुने ॥
तदाप्रभृति तां भद्रां चिन्तयन्वै धनञ्जयः ।
आस्ते स्म स तदाऽऽरामे कामेन भृशपीडितः ॥
सुभद्रा चापि न स्वस्था पार्थं प्रति बभूव सा ।
कृशा विवर्णवदना चिन्ताशोकपरायणा ॥
निश्वासपरमा भद्रा मानसेन मनस्विनी ।
न शय्यासनभोगेषु रतिं विन्दति केनचित् ॥
न नक्तं न दिवा शेते बभूवोन्मत्तदर्शना । एवं शोकपरां भद्रां देवी वाक्यमथाब्रवीत् ।
मा शोकं कुरु वार्ष्णेयि धृतिमालम्ब्य शोभने ॥
रुक्मिण्येवं सुभद्रां तां कृष्णस्यानुमते तदा ।
रहोगत्य तदा श्वश्रूं देवकीं वाक्यमब्रवीत् ॥
अर्जुनो यतिरूपेण ह्यागतः सुसमाहितः ।
कन्यापुरमथाविश्य पूजितो भद्रया मुदा ॥
तं विदित्वा सुभद्रापि लज्जया परिमोहिता ।
दिवानिशं शयाना सा नाकरोद्भोजनादिकम् ॥
एवमुक्ता तया देवी भद्रां शोकपरायणाम् ।
तत्समीपं समागत्य श्लक्ष्णं वाक्यमथाब्रवीत् ॥
मा शोकं कुरु वार्ष्णेयि धृतिमालम्ब्य शोभने ।
राज्ञे निवेदयित्वापि वसुदेवाय धीमते ॥
कृष्णायापि तथा भद्रे प्रहर्षं कारयामि ते ।
पश्चाज्जानामि ते वार्तां मा शोकं कुरु भामिनि ॥
एवमुक्त्वा तु सा माता भद्रायाः प्रियकारिणी ।
निवेदयामास तदा भद्रामानकदुन्दुभेः ॥
रहस्येकासना तत्र भद्राऽस्वस्थेति चाब्रवीत् ।
आरामे तु यतिः श्रीमानर्जुनश्चेति नः श्रुतम् ॥
अक्रूराय च कृष्माय आहुकाय च सात्येकः ।
निवेद्यतां महाप्राज्ञ श्रोतव्यं यदि बान्धवैः ॥
वैशंपायन उवाच ।
वसुदेवस्तु तच्छ्रुत्वा अक्रूराहुकयोस्तथा ।
निवेदयित्वा कृष्णेन मन्त्रयामास तैस्तदा ॥
इदं कार्यमिदं कृत्यमिदमेवेति निश्चितः ।
अक्रूरश्चोग्रसेनश्च सात्यकिश्च गदस्तथा ॥
पृथुश्रवाश्च कृष्णश्च सहिताः शिनिना मुहुः ।
रुक्मिणी सत्यभामा च देवकी रोहिणी तथा ॥
वसुदेवेन सहिताः पुरोहितमते स्थिताः ।
विवाहं मन्त्रयामासुर्द्वादशेऽहनि भारत ॥
अज्ञातं रौहिणेयस्य उद्धवस्य च भारत ।
विवाहं तु सुभद्रायाः कर्तुकामो गदाग्रजः ॥
महादेवस्य पूजार्थं महोत्सव इति ब्रुवन् ।
चतुस्त्रिंशदहोरात्रं सुभद्रार्तिप्रशान्तये ॥
नगरे घोषयास हितार्थं सव्यसाचिनः ।
इतश्चतुर्थे त्वहनि अन्तर्द्वीपं तु गम्यताम् ॥
सदारैः सानुयात्रैश्च सपुत्रैः सहबाधवैः ।
गन्तव्यं सर्ववर्मैश्च गन्तव्यं सर्वयादवैः ॥
एवमुक्तास्तु ते सर्वे तथा चक्रुश्च सर्वशः ।
ततः सर्वदशार्हाणामन्तर्द्वीपे च भारत ॥
चतुस्त्रिंशदहोरात्रं बभूव परमोत्सवः ।
कृष्णरामाहुकाक्रूरप्रद्युम्नशिनिसत्यकाः ॥
समुद्रं प्रययुर्हृष्टाः कुकुरान्धकवृष्णयः ।
युक्तयन्त्रपताकाभिर्वृष्णयो ब्राह्मणैः सह ॥
समुद्रं प्रययुर्नौभिः सर्वे पुरनिवासिनः ।
ततस्त्वरितमागत्य दाशार्हगणपूजितम् ॥
सुभद्रा पुण्डरीकाक्षमब्रवीद्यतिशासनात् ।
कृत्यवान्द्वादशाहानि स्थाता स भगवानिह ॥
तिष्ठतस्तस्य कः कुर्यादुपस्थानविधिं सदा ।
तमुवाच हृषीकेशः कस्त्वदन्यो विशेषतः ॥
तमृषिं प्रत्युपस्थातुमितो नार्हति माधवि ।
त्वमेवास्मन्मतेनाद्य महर्षेर्वशवर्तिनी ॥
कुरु सर्वाणि कार्याणि कीर्तिं धर्ममवेक्ष्य च ।
तस्य चातिथिमुख्यस्य सर्वेषां च तपस्विनाम् ॥
संविधानपरा भद्रे भव त्वं वशवर्तिनी ॥
वैशंपायन उवाच ।
एवमादिश्य भिक्षां च भद्रां च मधुसूदनः ।
ययौ शङ्खप्रणादेन भेरीणां निस्वनेन च ॥
ततस्तु द्वीपमासाद्य दानधर्मपरायणाः ।
उग्रसेनमुखाश्चान्ये विजहुः कुकुरान्धकाः ॥
पटहानां प्रणादैश्च भेरीणां निस्वनेन च ।
सप्तयोजनविस्तार आयतो दशयोजनम् ॥
बभूव स महाद्वीपः सपर्वतमहावनः ।
सेतुपुष्करिणीजालैराक्रीडः सर्वसात्वताम् ॥
वापीपल्वलसङ्घैश्च काननैश्च मनोरमैः ।
वासुदेवस्य क्रीडार्थं योग्यः सर्वप्रहर्षतः ॥
कुकुरान्धकवृष्णीनां तथा प्रियकरस्तदा ।
बभूव परमोपेतस्त्रिविष्टप इवापरः ॥
चतुस्त्रिंशदहोरात्रं दानधर्मपरायणाः ।
उग्रसेनमुखाः सर्वे विजहुः कुकुरान्धकाः ॥
विचित्रमाल्याभरणाश्चित्रगन्धानुलेपनाः ।
विहाराभिगताः सर्वे यादवा हर्षसंयुताः ॥
सुनृत्तगीतवादित्रै रममाणास्तदाऽभवन् । प्रतियाते दशार्हाणामृषभे शार्ङ्गधन्वनि ।
सुभध्रोद्वाहनं पार्थः प्राप्तकालममन्यत ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि एकचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 241 ॥