अध्यायः 020

कद्रूविनतयोः पणबन्धः ॥ 1 ॥ सर्पाणां कद्रूशापः ॥ 2 ॥ ब्रह्मणा कश्यपाय विषहरविद्यादानं ॥ 3 ॥

सौतिरुवाच ।
एतत्ते कथितं सर्वममृतं मथितं यथा ।
यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः ॥
तं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत् ।
उच्चैःश्रवा हि किंवर्णो भद्रे प्रब्रूहि मा चिरम् ॥
विनतोवाच ।
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे ।
ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे ॥
कद्रूरुवाच ।
कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते ।
एहि सार्धं मया दीव्य दासीभावाय भामिनि ॥
सौतिरुवाच ।
एवं ते समयं कृत्वा दासीभावाय वै मिथः ।
जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह ॥
ततः पुत्रसहस्रं तु कद्रूर्जिह्यं चिकीर्षती ।
आज्ञापयामास तदा वाला भूत्वाऽञ्जनप्रभाः ॥
आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा ।
नावपद्यन्त ये वाक्यं ताञ्शशाप भुजंगमान् ॥
सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति ।
जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः ॥
शापमेनं तु शुश्राव स्वयमेव पितामहः ।
अतिक्रूरं समुत्सृष्टं कद्र्वा दैवादतीव हि ॥
सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत ।
बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया ॥
तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः ।
तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय च ॥
युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम् ।
अन्येषामपि सत्त्वानां नित्यं दोषपरास्तु ये ॥
तेषां प्राणान्तिको दण्डो दैवेन विनिपात्यते ।
एवं संभाष्य देवस्तु पूज्य कद्रूं च तां तदा ॥
आहूय कश्यपं देव इदं वचनमब्रवीत् ।
यदेते दन्दशूकाश्च सर्पा जातास्त्वयानघ ॥
विषोल्बणा महाभोगा मात्रा शप्ताः परंतप ।
तत्र मन्युस्त्वया तात न कर्तव्यः कथंचन ॥
दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम् । इत्युक्त्वा सृष्टिकृद्देवस्तं प्रसाद्य प्रजापतिम् ।
प्रादाद्विषहरीं विद्यां कश्यपाय महात्मने ॥
`एवं शप्तेषु नागेषु कद्र्वातु द्विजसत्तम ।
अद्विग्नः शापतस्तस्याः कद्रूं कर्कोटकोऽब्रवीत् ॥
मातरं परमप्रीतस्तथा भुजगसत्तमः ।
आविश्य वाजिनं मुख्यं बालो भूत्वाञ्जनप्रभः ॥
दर्शयिष्यामि तत्राहमात्मानं काममाश्वस ।
एवमस्त्विति सा पुत्रं प्रत्युवाच यशस्विनी' ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकर्पणि विंशोऽध्यायः ॥ 20 ॥

1-20-3 विपणावहे पणं कुर्वहे ॥ 1-20-6 जिह्मं कौटिल्यं । वालाः लोमानि ॥ 1-20-7 नावपद्यन्त नानुमोदितवन्तः ॥ विंशोऽध्यायः ॥ 20 ॥