अध्यायः 255

शार्ङ्गकाणां मोचनकारणे जनमेजयेन पृष्टे वैशंपायनेन मन्दपालोपाख्यानकथनारम्भः ॥ 1 ॥ तपसा पितृलोकं गतस्याप्यनवाप्ततपःफळस्य मन्दपालस्य देवाज्ञया प्रजोत्पादनार्थं पुनर्भूमावागमनम् ॥ 2 ॥ तत्र शार्ङ्ग्यां जरितायां पुत्रचतुष्टयोत्पादनम् ॥ 3 ॥ सपुत्रां जरितां खाण्डवे विसृज्य लपितानाम्न्याऽन्यया शार्ङ्ग्या संगतस्य मन्दपालस्य विप्ररूपाग्निदर्शनम् ॥ 4 ॥ तस्य खाण्डवदिधक्षां ज्ञात्वा पुत्ररक्षणार्थं स्तुतादग्नेर्वरलाभः ॥ 5 ॥

जनमेजय उवाच ।
किमर्थं शार्ङ्गकानग्निर्न ददाह तथा गते ।
तस्मिन्वने दह्यमाने ब्रह्मन्नेतत्प्रचक्ष्व मे ॥
अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च ।
कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकाणां न कीर्तितम् ॥
तदेतदद्भुतं ब्रह्मञ्शार्ङ्गकाणामनामयम् ।
कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः ॥
वैशंपायन उवाच ।
यदर्थं शार्ङ्गकानग्निर्न ददाह तथा गते ।
तत्ते सर्वं प्रवक्ष्यामि यथा भूतमरिन्दम ॥
धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः ।
आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः ॥
स मार्गमाश्रितो राजन्नृषीणामूर्ध्वरेतसाम् ।
स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः ॥
स गत्वा तपसः पारं देहमुत्सृज्य भारत ।
जगाम पितृलोकाय न लेभे तत्र तत्फलम् ॥
स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि ।
पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः ॥
मन्दपाल उवाच ।
किमर्थमावृता लोका ममैते तपसाऽर्जिताः ।
किं मया न कृतं तत्र यस्यैतत्कर्मणः फलम् ॥
तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् ।
फलमेतस्य तपसः कथयध्वं दिवौकसः ॥
देवा ऊचुः ।
ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु ।
क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः ॥
तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः ।
तपस्वी यज्ञकृच्चासि न च ते विद्यते प्रजा ॥
त इमे प्रसवस्यार्थे तव लोकाः समावृताः ।
प्रजायस्व ततो लोकानुपभोक्ष्यसि पुष्कलान् ॥
पुन्नाम्नो नरकात्पुत्रस्त्रायते पितरं श्रुतिः ।
तस्मादपत्यसन्ताने यतस्व ब्रह्मसत्तम ॥
वैशंपायन उवाच ।
तच्छ्रुत्वा मन्दपालस्तु वचस्तेषां दिवौकसाम् ।
क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत् ॥
स चिन्तयन्नभ्यगच्छत्सुबहुप्रसवान्खगान् ।
शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् ॥
तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः ।
तानपास्य स तत्रैव जगाम लपितां प्रति ॥
बालान्स तानण्डगतान्सह मात्रा मुनिर्वने ।
तस्मिन्गते महाभागे लपितां प्रति भारत ॥
अपत्यस्नेहसंयुक्ता जरिता बह्वचिन्तयत् ।
तेन त्यक्तानसंत्याज्यानृषीनण्डगतान्वने ॥
न जहौ पुत्रशोकार्ता जरिता खाण्डवे सुतान् ।
बभार चैतान्संजातान्स्ववृत्त्या स्नेहविक्लवा ॥
ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः ।
मन्दपालश्चरंस्तस्मिन्वने लपितया सह ॥
तं संकल्पं विदित्वाग्नेर्ज्ञात्वा पुत्रांश्च बालकान् ।
सोऽभितुष्टाव विप्रर्षिब्रार्ह्मणो जातवेदसम् ॥
पुत्रान्प्रतिवदन्भीतो लोकपालं महौजसम् ।
मन्दपाल उवाच ।
त्वमग्ने सर्वलोकानां मुखं त्वमसि हव्यवाट् ॥
त्वमन्तः सर्वभूतानां गूढश्चरसि पावक ।
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः ॥
त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ।
त्वया विश्वमिदं सृष्टं वदन्ति परमर्षयः ॥
त्वदृते हि जगत्कृत्स्नं सद्यो नश्येद्धुताशन ।
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम् ॥
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ।
त्वामग्ने जलदानाहुः खेविषक्तान्सविद्युतः ॥
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः ।
जातवेदस्त्वयैवेदं विश्वं सृष्टं महाद्युते ॥
तवैव कर्मविहितं भूतं सर्वं चराचरम् ।
त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत् ॥
त्वयि हव्यं च कव्यं च यथावत्संप्रतिष्ठितम् ।
त्वमेव दहनो देव त्वं धाता त्वं बृहस्पतिः ॥
त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः ।
वैशंपायन उवाच ।
एवं स्तुतस्तदा तेन मन्दपालेन पावकः ॥
तुतोष तस्य नृपते मुनेरमिततेजसः ।
उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते ॥
तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् ।
प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय ॥
तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः ।
खाण्डवे तेन काले न प्रजज्वाल दिदक्षया ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 255 ॥

1-255-23 पुत्राणां दहनाद्भीतो इति ङ. पाठः ॥ पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 255 ॥