अध्यायः 043

स्वदष्टन्यग्रोधोज्जीवनेन परीक्षितस्य काश्यपस्य धनं दत्वा तक्षकेण कृतं परावर्तनं परीक्षिद्दंशश्च ॥ 1 ॥

तक्षक उवाच ।
यदि दष्टं मयेह त्वं शक्तः किंचिच्चिकित्सितुम् ।
ततो वृक्षं मया दष्टमिमं जीवय काश्यप ॥
परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च ।
न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम ॥
काश्यप उवाच ।
दश नागेन्द्र वृक्षं त्वं यद्येतदभिमन्यसे । अहमेनं त्वया दष्टं जीवयिष्ये भुजंगम ।
`पश्य मन्त्रबलं मेऽद्य न्यग्रोधं दश पन्नग ॥'
सौतिरुवाच ।
एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना ।
अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः ॥
स वृक्षस्तेन दष्टस्तु पन्नगेन महात्मना ।
आशीविषविषोपेतः प्रजज्वाल समन्ततः ॥
तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत् ।
कुरु यत्नं द्विजश्रेष्ठ जीवयैव वनस्पतिम् ॥
सौतिरुवाच ।
भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा ।
भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् ॥
विद्याबलं पन्नगेन्द्र पश्य मेऽद्य वनस्पतौ ।
अहं संजीवयाम्येनं पश्यतस्ते भुजंगम ॥
ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः ।
भस्मराशीकृतं वृक्षं विद्यया समजीवयत् ॥
अङ्कुरं कृतवांस्तत्र ततः पर्णद्वयान्वितम् ।
पलाशिनं शाखिनं च तथा विटपिनं पुनः ॥
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना ।
उवाच तक्षको ब्रह्मन्नैतदत्यद्भुतं त्वयि ॥
द्विजेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा ।
कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन ॥
यत्तेऽभिलषितं प्राप्तं फलं तस्मान्नृपोत्तमात् ।
अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् ॥
विप्रशापाभिभूते च क्षीणायुषि नराधिपे ।
घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ॥
ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् ।
निरंशुरिव घर्मांशुरन्तर्धानमितो व्रजेत् ॥
काश्यप उवाच ।
धनार्थी याम्यहं तत्र तन्मे देहि भुजंगम ।
ततोऽहं विनिवर्तिष्ये स्वापतेयं प्रगृह्य वै ॥
तक्षक उवाच ।
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् ।
अहमेव प्रदास्यामि निवर्तस्व द्विजोत्तम ॥
सौतिरुवाच ।
तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः ।
प्रदध्यौ सुमहातेजाराजानं प्रति बुद्धिमान् ॥
दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा ।
क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः ॥
लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् ।
निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि ॥
जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् ।
अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् ॥
मन्त्रैर्विषहरैर्दिव्यै रक्ष्यमाणं प्रयत्नतः ।
सौतिरुवाच ।
स चिन्तयामास तदा मायायोगेन पार्थिवः ॥
मया वञ्चयितव्योऽसौ क उपायो भवेदिति ।
ततस्तापसरूपेण प्राहिणोत्स भुजंगमान् ॥
फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः ।
तक्षक उवाच ।
गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया ॥
फलपत्रोदकं नागाः प्रतिग्राहयितुं नृपम् ।
सौतिरुवाच ।
ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः ॥
उपनिन्युस्तथा राज्ञे दर्भानम्भः फलानि च ।
तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् ॥
कृत्वा तेषां च कार्याणि गम्यतामित्युवाच तान् ।
गतेषु तेषु नागेषु तापसच्छद्मरूपिषु ॥
अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः ।
भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः ॥
तापसैरुपनीतानि फलानि सहिता मया ।
ततो राजा ससचिवः फलान्यादातुमैच्छत ॥
विधिना संप्रयुक्तो वै ऋषिवाक्येन तेन तु ।
यस्मिन्नेव फले नागस्तमेवाभक्षयत्स्वयम् ॥
ततो भक्षयतस्तस्य फलात्कृमिरभूदणुः ।
ह्रस्वकः कृष्णनयनस्ताम्रवर्णोऽथ शौनक ॥
स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् ।
अस्तमभ्येति सविता विषादद्य न मे भयम् ॥
सत्यवागस्तु स मुनिः कृमिर्मां दशतामयम् ।
तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ॥
ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः ।
एवमुक्त्वा स राजेन्द्रो ग्रीवायां सन्निवेश्यह ॥
कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ।
प्रहसन्नेव भोगेन तक्षकेणाभिवेष्टितः ॥
तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् । वेष्टयित्वा च भोगेन विनद्य च महास्वनम् ।
अदशत्पृथिवीपालं तक्षकः पन्नगेश्वरः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥

1-43-3 दश दंशं कुरु ॥ 1-43-6 नग वृक्षम् ॥ 1-43-13 यत् फलं प्राप्तुमभिलषितं तत् इत्यन्वयः ॥ 1-43-14 घटमानस्य सज्जमानस्य ॥ 1-43-16 स्वापतेयं धनम् ॥ 1-43-22 तत्रागतैर्विषहरैरिति पाठान्तरम् ॥ 1-43-31 यज्जग्राह फलं राजा तत्र क्रिमिरभूदणुः इति पाठान्तरम् ॥ 1-43-33 क्रिमिको मां दशत्वयं इति पाठान्तरम् ॥ त्रिचत्वारिशोऽध्यायः ॥ 43 ॥