अध्यायः 001

भ्रातृभिर्द्रौपद्या च सह स्वर्गे जिगमिषुणा युधिष्ठिरेण युयुत्सौ राज्यभारनिवेशनपूर्वकं परिक्षितो राज्येऽभिषेचनम् ॥ 1 ॥ तथा कृच्छ्रात्पौरानुमतिसंपादनेन वल्कलधारणादिपूर्वकं शुना सह गृहात्प्रस्थानम् ॥ 2 ॥ अर्जुनेन मध्येमार्गमग्निवचसा सनिषङ्गस्य गाण्डीवस्य वरुणोद्देशेन समुद्रे प्रक्षेपणम् ॥ 3 ॥

श्रीवेदव्यासाय नमः ।
नारायणं नमस्कृत्यि नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
जनमेजय उवाच ।
एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम् ।
पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते ॥
वैशम्पायन उवाच ।
श्रुत्वैवं कौरवो राजा वृष्णीनां कदनं महत् ।
प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत् ॥
कालः पचति भतानि सर्वाण्येव महामते ।
कालपाशमहं मन्ये त्वमपि द्रष्टुमर्हसि ॥
इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन् ।
अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य धीमतः ॥
अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा ।
अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना ॥
ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया ।
राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः ॥
अभिंषिच्य स्वराज्ये च राजानं च परिक्षितम् ।
दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः ॥
एष पुत्रस्य पुत्रस्ते कुरुराजो भविष्यति ।
यदूनां परिशेषश्च वज्रो राजा कृतश्च ह ॥
परिक्षिद्धास्तिनपुरे शक्रप्रस्थे च यादवः ।
वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः ॥
इत्युक्त्वा धर्मराजाः स वासुदेवस्य धीमतः ।
मातुलस्य च वृद्धस्य रामदीनां तथैव च ॥
भ्रातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः ।
श्राद्धान्यद्दिश्य सर्वेषां चकार विदिवत्तदा ॥
द्वैपायनं नारदं च मार्कण्डेयं तपोधनम् । भारद्वाजं याज्ञवल्क्यं हरिमुद्दिश्य यत्नवान् ।
अभोजयत्स्वादु भोज्यं कीर्तयित्वा च शार्ङ्गिणं ॥
ददौ रत्नानि वासांसि ग्रामानश्वान्रथांस्तथा ।
स्त्रियश्च द्विजमुख्येभ्यस्तदा शतसहस्रशः ॥
कृपमभ्यर्च्य च गुरुमथ पौरपुरस्कृतम् । `आहूय भरतश्रेष्ठ संनिवेश्यासने तदा ।'
शिष्यं परिक्षितं तस्मै तदौ भरतसत्तमः ॥
ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः ।
सर्वमाचष्ट राजर्षिकीर्षितमथात्मनः ॥
ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः ।
भृशमुद्विग्रमनसो नाभ्यनन्दन्त तद्वचः ॥
नैवं कर्तव्यमिति ते तदोचुस्तं जनाधिपम् ।
न च राजा तथाऽकार्षीत्कालपर्यायधर्मिवित् ॥
ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम् ।
गमनाय मतिं चक्रे कृष्णस्य गमनादपि ॥
`वर्तमाने विवादे तु वास्तुविक्रयिणं प्रति ।
धनेच्छा युगपत्प्राप्ता क्षेत्रतस्वामिभूभृताम् ॥
प्राप्तं कलियुगं ज्ञात्वा सहदेवो हसन्निव ।
राज्ञस्तु कथयामास धर्मो नष्टस्तु सङ्करः ॥
श्रुत्वा तु दुर्मना राजा पर्याप्तं जीवनं मम ।' इति स्म राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः ।
उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत ॥
भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी ।
तथैव जगृहुः सर्वे वल्कलानि नराधिप ॥
विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ ।
समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुङ्गवाः ॥
ततः प्ररुरुदुः सर्वाः स्त्रिंयो दृष्ट्वा नरोत्तमान् ।
प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा ॥
हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति । युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च ।
भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः । आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् ।
पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा ॥
न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम् ।
न्यवर्तन्त ततः सर्वे नरा नगरवासिनः ॥
कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन् ।
विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा ॥
चित्राङ्गदा ययौ चापि मणलूरपुरं प्रति ।
शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन् ॥
पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी ।
कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः ॥
योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः ।
अभिजग्मुर्बहून्देसान्सरितः सागरांस्तथा ॥
युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम् ।
अर्जुनस्तस्य चान्वेव यमौ चापि यथाक्रमम ॥
पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा । द्रौपदी योषितांश्रेष्ठा ययौ भरतसत्तम ।
श्वा चैवानुयायावेकः प्रस्थितान्पाण्डवान्वनम् ।
क्रमेणि ते ययुर्वीरा लौहित्यं सलिलार्णवम् ॥
गाण्डीवं तु धनुर्दिव्यं न मुमोच धनंजयः ।
रत्नलोभान्महाराज ते चाक्षय्ये महेषुधी ॥
अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः ।
मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम् ॥
ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत् ।
भोभो पाण्डुसुता वीराः पावकं मां निबोधत ॥
युधिष्ठिर महाबाहो भीमसेन परंतप ।
अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम ॥
अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम् ।
अर्जुनस्य प्रभावेन तथा नारायणस्य च ॥
अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम् ।
परित्यज्य वने यातु नानेनार्थोस्ति कश्चन ॥
चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि ।
गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह ॥
वरुणादाहृतं पूर्वं मयैतत्पार्थकारणात् ।
गाण्डीवं धनुषां श्रेष्ठं वरुणायैव दीयताम् ॥
ततस्ते भ्रातरः सर्वे धनंजयमचोदयन् ।
स जले प्राक्षिपच्चैतत्तथाऽक्षय्ये महेषुधी ॥
ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत ।
ययुस्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः ॥
ततस्ते तूत्तरेणैव तीरेण लवणांभसः ।
जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमाम् ॥
ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते ।
ददृशुर्द्वारकां चापि सागरेण परिप्लुताम् ॥
उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः ।
प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः ॥ ॥

इति श्रीमन्महाभारते महाप्रस्थानिकपर्वणि प्रथमोऽध्यायः ॥ 1 ॥

7-1-2 प्रस्थाने स्वर्गं गन्तुं गृहान्निःसरणे ॥ 7-1-3 पाशं तत्कृतमाकर्षं मरणमितियावत् । तदहं मन्ये अङ्गीकरोमि । त्वमप्येतद्द्रष्टुमालोचितुम् ॥ 7-1-5 कालः काल इति नित्यार्थे द्वित्वम् । अपरिहार्यः कालो मृत्युः सोऽद्यैवास्तु किं चिरेणेत्याशयः ॥ 7-1-6 धर्मकाम्यया प्रवजन्नतूद्वेगेन । परिददौ तदधीनं कृतवान् । तस्याभिषेकेऽनधिकारात् ॥ 7-1-7 स्वराज्ये हास्तिनपुरे ॥ 7-1-9 अधर्मे परिक्षिद्वज्रयोर्बालयोररक्षणजे । महाप्रस्थानमियं मा कुर्यादिति भावः ॥ 7-1-13 स्त्रियो दासीः ॥ 7-1-18 अनुमान्यानुमतिप्रदं कृत्वा ॥ 7-1-23 नैष्ठिकीं पार्यन्तिकीं उत्सर्गेष्टिमित्यर्थः । आत्मन्यग्नीन्समारोप्याप्स्वग्नीनुत्सृज्येति ज्ञेयम् ॥ 7-1-29 अन्या युधिष्ठिरादीनां भार्याः श्रउतसोमादीनां मातरः ॥ 7-1-34 लौहित्यं उदयाचलप्रान्तस्थं समुद्रम ॥ 7-1-40 अनेन गाण्डीवेन । अर्थः प्रयोजनम् ॥ 7-1-41 कालेन अवतारान्तरे ॥

श्रीः