अध्यायः 002

मेरुगिरिंप्रति गच्छन्तं युधिष्ठिरं ज्येष्ठ्यक्रमादनुगच्छत्सु दौपद्यादिषु योगभ्रंशात्क्रमेण भूमौ निपतत्सु भीमप्रश्नात्तं प्रति युधिष्ठिरेण तेषां पतने हेतुकथनम् ॥ 1 ॥ तथा ततः शुना केवलमनुगम्यमानेन सता पुरोगमनम् ॥ 2 ॥

वैशम्पायन उवाच ।

ततस्ते नियतात्मान उदीचीं दिशमास्थिताः ।
ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम् ॥
तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम् ।
अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् ॥
तेषां तु गच्छतां शीघ्रं सर्वेषां योगधार्मिणाम् ।
याज्ञसेनी भ्रष्टयोगा निपपात महीतले ॥
तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः ।
उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह ॥
नाधर्मश्चरितः कश्चिद्राजपुत्र्या परंतप ।
कारणं किंनु तद्ब्रूहि यत्कृष्णा पतिता भुवि ॥
युधिष्ठिर उवाच ।
पक्षपातो महानस्या विशेषेण धनंजये ।
तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम ॥
वैशम्पायन उवाच ।
एवमुक्त्वाऽनवेक्ष्यैनां ययौ भरतसत्तमः ।
समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः ॥
सहदेवस्ततो विद्वान्निपपात महीतले ।
तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत् ॥
योऽयमस्मासु सर्वेषु शुश्रूषुरनहंकृतः ।
सोयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि ॥
युधिष्ठिर उवाच ।
आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कञ्चन ।
तेन दोषेण पतितो विद्वानेष नृपात्मजः ॥
वैशम्पायन उवाच ।
इत्युक्त्वा तं समुत्सृज्य सहदेवं ययौ तदा ।
भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः ॥
कृष्णं निपतितां दृष्ट्वा सहदेवं च पाण्डवम् ।
आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह ॥
तस्मिन्निपतिते वीरे नकुले चारुदर्शने ।
पुनरेव तदा भीमो राजानमिदमब्रवीत् ॥
योऽयमक्षतधर्मात्मा भ्राता वचनकारकः ।
रूपेणाप्रतिमो लोके नकुलः पतितो भुवि ॥
इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः ।
नकुलं प्रति धर्मात्मा सर्वबुद्धिमतांवरः ॥
रूपेणि मत्समो नास्ति कश्चिदित्यस्य दर्शनम् ।
अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम् ॥
नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर ।
यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते ॥
तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः ।
पपात शोकसंतप्तस्ततोनु परवीरहा ॥
तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि ।
म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत् ॥
अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः ।
अथ कस्य विकारोऽयं येनायं पतितो भुवि ॥
युधिष्ठिर उवाच ।
एकोहं निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत् ।
न च तत्कृतवानेष शूरमानी ततोपतत् ॥
अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः ।
तथा चैतन्न तु तथा कर्तव्यं भूतिमिच्छता ॥
वैशम्पायन उवाच ।
इत्युक्त्वा प्रस्थितो राजा भीमोथ निपपात ह ।
पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम् ॥
भोभो राजन्नवेक्षस्व पतितोहं प्रियस्तव ।
किंनिमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह ॥
युधिष्ठिर उवाच ।
अतिभुक्तं च भवता प्राणेन च विकत्थसे ।
अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ ॥
इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् ।
श्वाप्येकोनुययौ यस्ते बहुशः कीर्तितो मया ॥ ॥

इति श्रीमन्महाभारते महाप्रस्थानिकपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥

7-2-1 ततो दिक्त्रयप्रदक्षिणीकरणानन्तरम् । योगयुक्ताः समाहितमनसः ॥ 7-2-3 भ्रष्टयोगा ध्यानात् स्खलितमानसा ॥ 7-2-7 अनवेक्ष्य स्वर्गान्तरायरूपः स्नेहो माभूदिति भावः ॥

श्रीः