अध्यायः 003

शुना सह गच्छन्तं युधिष्ठिरं प्रति इन्द्रेण स्वर्गगमनाय निजरतारोहणचोदना ॥ 1 ॥ युधिष्ठिरे शुना विना रथारोहणमरोचयमाने यमेन निजस्वरूपप्रकाशनेन तत्प्रशंसनम् ॥ 2 ॥ ततो यमेन्द्रादिभी रथेन स्वर्गं प्रापितेन युधिष्ठिरेण तत्र भीमाद्यदर्शनादिन्द्रंप्रति भ्रात्रादीन्विना स्वस्य स्वर्गेप्यनभिरुचिकथनपूर्वकं तत्समीपगमनेच्छानिवेदनम् ॥ 3 ॥

वैशम्पायन उवाच ।

ततः सन्नादयञ्शक्रो दिवं भूमिं च सर्वशः ।
रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम् ॥
स्वभ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः ।
अब्रवीच्छोकसंतप्तः सहस्राक्षमिदं वचः ॥
भ्रातरः पतिता मेऽत्र गच्छेयुस्ते मया सह ।
न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर ॥
सुकुमारी सुखार्हा च राजपुत्री पुरंदर ।
साऽस्माभिः सह गच्छेत तद्भवाननुमन्यताम् ॥
शक्र उवाच ।
भ्रातॄन्द्रक्ष्यसि स्वर्गे त्वमग्रतस्त्रिदिवं गतान् ।
कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ ॥
निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ ।
अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः ॥
युधिष्ठिर उवाच ।
अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह ।
स गच्छेत मया सार्धमानृशंस्या हि मे मतिः ॥
शक्र उवाच ।
अमर्त्यत्वं मत्समत्वं च राज- ञ्श्रियं कृत्स्नां महतीं चैव सिद्धिम् ।
संप्राप्तोद्य स्वर्गसुखानि च त्वं त्यज श्वानं नात्र नृशंसमस्ति ॥
युधिष्ठिर उवाच ।
अनार्यमार्येणि सहस्रनेत्र शक्यं कर्तुं दुष्करमेतदार्य ।
मा मे श्रिया सङ्गमनं तयाऽस्तु यस्याः कृते भक्तजनं त्यजेयम् ॥
इन्द्र उवाच ।
स्वर्गे लोके श्ववतां नास्ति धिष्ण्य- मिष्टापूर्तं क्रोधवशा हरन्ति ।
ततो विचार्यि क्रियतां धर्मराज त्यज श्वानं नात्र नृशंसमस्ति ।
युधिष्ठिर उवाच ।
भक्तत्यागं प्राहुरत्यन्तपापं तुल्यं लोके ब्रह्मवध्याकृतेन ।
तस्मान्नाहं जातु कथञ्चनाद्य त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्रः ॥
भीतं भक्तं नान्यदस्तीति चार्तं प्राप्तं क्षीणं रक्षणे प्राणलिप्सुम् ।
प्राणत्यागादप्यहं नैव मोक्तुं यतेयं वै नित्यमेतद्व्रतं मे ॥
इन्द्र उवाच ।
शुना दृष्टं क्रोधवशा हरन्ति यद्दत्तमिष्टं विवृतमथो हुतं च ।
तस्माच्छुनस्त्यागमिमं कुरुष्व शुनस्त्यागात्प्राप्स्यसे देवलोकम् ॥
त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णां प्राप्तो लोकः कर्मणा स्वेन वीर ।
श्वानं चैनं न त्यजसे कथं नु त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य ॥
युधिष्ठिर उवाच ।
न विद्यते संधिरथापि विग्रहो मृतैर्मर्त्यैरिति लोकेषु निष्ठा ।
न ते मया जीवयितुं हि शक्या- स्ततस्त्यागस्तेषु कृतो न जीवताम् ॥
प्रतिप्रदानं शरणागतस्य स्त्रिया वधो ब्राह्मणस्वापहारः ।
मित्रद्रोहस्तानि चत्वारि शक्र भक्तत्यागश्चैव समो मतो मे ॥
वैशम्पायन उवाच ।
तद्धर्मराजस्य वचो निशम्य धर्मस्वरूपी भगवानुवाच ।
युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं श्लक्ष्णैर्वाक्यैः संस्तवसंप्रयुक्तैः ॥
अभिजातोसि राजेन्द्र पितुर्वृत्तेन मेधया ।
अनुक्रोशेनि चानेन सर्वभूतेषु भारत ॥
पुरा द्वैतवने चासि मया पुत्र परीक्षितः ।
पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः ॥
भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ ।
मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि ॥
अयं श्वा भक्त इत्येवं त्यक्तो देवरथस्त्वया ।
तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिपः ॥
अतस्तवाक्षया लोकाः स्वशरीरेण भारत ।
प्राप्तोसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम् ॥
वैशम्पायन उवाच ।
ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि ।
देवा देवर्षयश्चैव रथमारोप्य पाण्डवम् ॥
प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः ।
सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः ॥
स तं रथं समास्थाय राजा कुरुकुलोद्वहः ।
ऊर्ध्वमाचक्रमे शीघ्रं तेजसाऽऽवृत्यरोदसी ॥
ततो देवनिकाय्यस्थो नारदः सर्वलोकवित् ।
उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः ॥
येऽपि राजर्षयः पूर्वे ते चापि समुपस्थिताः ।
कीति प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति ॥
लोकानावृत्य यशसा तेजसा वृत्तसंपदा ।
स्वशरीरेण सम्प्राप्तं नान्यं शुश्रम पाण्डवात् ॥
तेजांसि यानि दृष्टानि भूमिष्ठेन त्वया विभो ।
वेश्मानि भुवि देवानां पश्यामूनि सहस्रशः ॥
नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत् ।
भ्रातॄनपश्यन्धर्मात्मा स्वपक्षांश्चैव पार्थिवान् ॥
शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे ।
तदेव प्राप्तुमिच्छामि लोकान्यान्न कामये ॥
राज्ञस्तु वचनं श्रुत्वा देवराजः पुरंदरः ।
आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम् ॥
स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते शुभैः ।
किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि ॥
सिद्धिं प्राप्तोसि परमां यता नान्यः पुमान्क्वचित् ।
नैव ते भ्रातरः स्थानं सम्प्राप्ताः कुरुनन्दन ॥
अद्यापि मानुषो भावः स्पृशते त्वां नराधिप ।
स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान् ॥
युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम् ।
पुनरेवाब्रवीद्धीमानिदं वचनमर्थवत् ॥
तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण ।
गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः ॥
यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता ।
द्रौपदी योषितांश्रेष्ठा यत्र चैव सुता मम ॥ ॥

इति श्रीमन्महाभारते महाप्रस्थानिकपर्वणि तृतीयोऽध्यायः ॥ 3 ॥ महाप्रस्थानिकं पर्वं समाप्तम् ॥ 17 ॥ ------------ अतः परं स्वर्गारोहणपर्वः तस्यायमाद्यः श्लोकः । जनमेजय उवाच । स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः । पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे ॥ 1 ॥ इदं महाप्रस्थानिकं पर्व कुंभघोणस्येन टी.आर्. कृष्णमाचार्येण टी.आर्. व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् । शकाब्दाः 1832 सन 1910.

17-3-8 अस्पृश्यस्य संत्याग नृशंसं निर्दयत्वं नास्ति ॥ 17-3-10 श्ववतामशुचित्वाद्धिष्ण्यं स्थानं स्वर्गे नास्ति । क्रोधवशा नाम देवगणा अशुचेरिष्टापूर्तफलं घ्नन्ति ॥ 17-3-18 अभिजातोसि कुलीनोसि । पितुः पाण्डोः ॥ 17-3-26 निकाय्यस्थो निवासस्थः ॥ 17-3-27 समुपस्थिताः स्मृतिविषयाः सन्ति ॥ 17-3-31 यदेव भ्रातॄणां स्थानं प्राप्तुमिच्छामि ॥ 31