अध्यायः 004

युधिष्ठिरेण स्वर्गे निवसतां कृष्णकर्णादीनां दर्शनम् ॥ 1 ॥ इन्द्रेण युधिष्ठिराय द्रौपदेयादीनां तत्तत्स्थानगतानां पृथक्पृथक्प्रदरशनम् ॥ 2 ॥

वैशम्पायन उवाच

ततो युधिष्ठिरो राजा देवैः सर्षिमरुद्गणैः ।
स्तूयमानो ययौ तत्र यत्र ते कुरुपुङ्गवाः ॥
ददर्श तत्र गोविन्दं ब्राह्मेण वपुषाऽन्वितम् ।
तेनैव दृष्टपूर्वेण सादृश्येनैव सूचितम् ॥
दीप्यमानं स्ववपुषा दिव्यैरस्त्रैरुपस्थितम् ।
चक्रप्रभृतिभिर्घोरैर्दिव्यैः पुरुषविग्रहैः ॥
उपास्यमानं वीरेण फल्गुनेन सुवर्चसा ।
तथास्वरूपं कौन्तेयो ददर्श मधुसूदनम् ॥
तावुभौ पुरुषव्याघ्रौ समुद्वीक्ष्य युधिष्ठिरम् ।
यथावत्प्रतिपेदाते पूजया देवपूजितौ ॥
अपरस्मिन्नथोद्देशे कर्णं शस्त्रभृतां वरम् ।
द्वादशादित्यसहितं ददर्श कुरुनन्दनः ॥
अथापरस्मिन्नुद्देशे मरुद्गणवृतं विभुम् ।
भीमसेनमथापश्यत्तेनैव वपुषाऽन्वितम् ॥
वायोर्मूर्तिमतः पार्श्वे दिव्यमूर्तिसमन्वितम् ।
श्रिया परमया युक्तं सिद्धिं परमिकां गतम् ॥
अश्विनोस्तु तथा स्थाने दीप्यमानौ स्वतेजसा ।
नकुलं सहदेवं च ददर्श कुरुनन्दनः ॥
तथा ददर्श पाञ्चालीं कमलोत्पलमालिनीम् ।
वपुषा स्वर्गमाक्रम्य तिष्ठन्तीमर्कवर्चसम् ॥
तत्रैनां सहसा राजा स्प्रष्टुमैच्छद्युधिष्ठिरः ।
ततोऽस्य भगवानिन्द्रः कथयामास देवराट् ॥
श्रीरेषा द्रौपदीरूपा त्वदर्थे मानुषं गता ।
अयोनिजा लोककान्ता पुण्यगन्धा युधिष्ठिर ॥
रत्यर्थं भवतां ह्येषा निर्मिता शूलपाणिना ।
द्रुपदस्य कुले जाता भवद्भिश्चोपजीविता ॥
एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः ।
द्रौपद्यास्तनया राजन्युष्माकममितौजसः ॥
पश्य गन्धर्वराजानं धृतराष्ट्रं मनीषिणम् ।
एनं च त्वं विजानीहि भ्रातरं पूर्वजं पितुः ॥
अयं ते पूर्वजो भ्राता कौन्तेयः पावकद्युतिः । सूर्यपुत्रो रथिश्रेष्ठो राधेय इति विश्रुतः । आदित्यसहितो भाति पश्यैनं पुरुषर्षभम् ॥
साध्यानामथ देवानां विश्वेषां मरुतामपि । गणेषु पश्य राजेन्द्र वृष्णन्धकमहारथान् ।
सात्यकिप्रमुखान्वीरान्भोजांश्चैव महाबलान् ॥
सोमेन सहितं पश्य सौभद्रमपराजितम् ।
अभिमन्युं महेष्वासं निशाकरसमद्युतिम् ॥
एष पाण्डुर्महेष्वासः कुन्त्या माद्र्या च सङ्गतः ।
विमानेन सदाऽभ्येति पिता तव ममान्तिकम् ॥
वसुभिः सहितं पश्य भीष्मं शान्तनवं नृपम् ।
द्रोणं बृहस्पतेः पार्श्वे गुरुमेनं निशामय ॥
एते चान्ये महीपाला योधास्तव च पाण्डव ।
गन्धर्वसहिता यान्ति यक्षपुण्यजनैस्तथा ॥
गुह्यकानां गतिं चापि केचित्प्राप्ता नराधिपाः ।
त्यक्त्वा देहं जितः स्वर्गः पुण्यवाग्बुद्धिकर्मभिः ॥ ॥

इति श्रीमन्महाभारते स्वार्गारोहणपर्वणि चतुर्थोऽध्यायः ॥ 4 ॥

7-4-2 ब्राह्मेण ब्रह्मणा आराध्येन ॥ 7-4-3 उपस्थितं सेवितं अस्त्रैः ॥ 7-4-12 मानुषं मानुषभावम् ॥

श्रीः