विवृतिविवरणम्–


कारिकां विवृण्वन्नाह–चित्रनिर्भासिनः इत्यादि । चित्रः शबलः मिथ्येतरादिस्वभा
वाऽपेक्षया यो निर्भासः स यस्य अस्ति तस्य तत्त्वं स्वरूप3080म् ।
कस्य ? अविभागज्ञानस्य दृश्यम् उपलभ्यं यदि क्रमेणा
ऽपि
न केवलम् अक्रमेण सदसदात्मकं विवर्त्तेत तत्त्वम् इति सम्बन्धः । उक्तार्थोपसंहार
माह–ततः इत्यादि । यत एवं ततः तस्मात् सि3081द्धं निश्चितम् द्रव्यपर्यायात्मकं वस्तुतत्त्वं
प्रमेयम् ।
पुनरपि किं विशिष्टम् ? उत्पादव्ययध्रौव्ययुक्तम् । क्व ? अन्तर्बहिश्च ।


  1. –पकम् श्र॰

  2. –द्धमेकं निश्चितम् आ॰