259
न च प्रतिज्ञावचनादेव तत्सिद्धिः, तस्य साध्यपरत्वात् । न चान्यपरादप्याक्षेपात्
सिद्धिः 1211हेत्वादिपदाप्रयोगवैयर्थ्यप्रसङ्गात्, प्रतिज्ञात एव सर्वाक्षेपसंभवात्1212 । तस्माद्
रूपद्वयप्रतिपादनार्थं निगमनम् । यथा च त्रैरूप्यातिरिक्तमेतद्रूपद्वयं तथोपपादितम
स्माभिः प्रथमसूत्रे । हेत्वाभासेषु च शेषं दर्शयिष्यत इति । एतस्मिन् सूत्रार्थे परस्य
प्रतिज्ञायां निगमनं गतार्थं मन्यमानस्य अवकाशो नास्तीति ।
यस्तु मन्येत न हेतोरविनाभावसिद्धिमन्तरेण सिद्धनिर्देशो निगमनं भवति, न
च पाञ्चरूप्यं विना अविनाभावसिद्धिः । निगमनात्तु तत्सिद्धौ न सिद्धनिर्देशो
निगमनम्, अपि तु साध्यनिर्देश एवेति, तं प्रत्युपेत्य तद्दोषनिराचिकीर्षया परेषां
वाक्यमुपक्षिप्यते । परेषां वाक्यं पठति—उपनयनिगमने त्विति । दूषयति—इदं
तावदिति । यथाश्रुति हि निगमनोपनययोरभेदं साधयति, अर्थगतं चाविशेषं
हेतुमाह—तच्चैतदालोकतमसोरैक्यं काकस्य कार्ष्ण्यादिवदापतितम् । शङ्कते—अथ
हेतूपनयाविति । उपलक्षणं चैतत् प्रतिज्ञानिगमने इत्यपि द्रष्टव्यम् । अर्थाविशेषादिति
चाविशिष्टार्थत्वादित्युन्नेतव्यम् । तथा च संबन्ध इति शङ्कितुरभिप्रायः । अत्रापि
दोषमाह—स विपक्षेति । पुनः शङ्कते—अथैकप्रयोजनत्वेनेति । निराकरोति—
तथापीति । सिद्ध्यत्येकप्रयोजनत्वे साध्ये हेतोरविरोधः, हेतुस्तु न प्रतिज्ञार्थादति
रिच्यते इत्यर्थः । तद्वर्णितमिति । अन्यश्च हेत्वर्थोऽन्यश्चोपनयार्थ इत्येतद्
वर्णितमित्यर्थः । एतेनोपनयनिगमनप्रयोजनाभिधानेन ये त्र्यवयवं वाक्यमाहुः,
तन्मतमपि परास्तमित्याह—पक्षर्मत्वेति ।
यच्च परैः उपनये दूषणं विकल्प्याभ्यधायि तत् तावदुपन्यस्यति—यदपि
यथा तथेति । सर्वसामान्ययोगे हि तदेव स्यात् न तु तथेति । अन्यथा शब्दस्य
कृतकत्वादिति । न हि यथा घटः कृतकः, तथा शब्दोऽपि कृतकः,
घटशब्दयोरभेदप्रसङ्गादित्यर्थः । तस्मात् सामान्यप्रतिषेधे विशेषप्रतिषेधे च कृत