260 कत्वं सामान्यं परिशिष्यते । तस्य च यथातथाभावयोरभावात् कृतकत्वादित्येव
स्यात् । तथा च न हेतोर्व्यतिरेक उपनयः स्यादित्याह—परिशेषादिति । तदेतत् परेषां
दूषणं निराकरोति—तदप्ययुक्तमिति । यथा तथेति वाक्यमुपमानैकदेशमुप
मानमुपचारात् । उपमानमर्थो यस्य सोऽयमुपमानार्थ उपनयः । तस्य भावस्तत्त्वं
तस्मात् । तच्चोपमानं न सर्वथा साध्यसाधनभावमाश्रित्य प्रवर्तते । साध्ये शब्दे
साधनस्य कृतकत्वस्य स्थालीगतस्य यः सर्वथाभावः स्थालीत्वाद्येकार्थसमवायः
तमाश्रित्य न प्रवर्तते । तथा च शब्दस्थाल्योरभेदप्रसङ्गाद् यथा तथेत्येव न स्यात् ।
तस्मात् स्थालीस्थप्रकारान्तरव्युदासेन कृतकत्वसामान्यमात्रसाधारण्येन यथा
तथेत्युपमानोपपत्तिरित्यर्थः । नन्वेवमपि कृतकत्वसामान्यमात्रं शब्दे स्यात्, न तु
यथातथाभावः । तथा च न हेतोरतिरेक इत्युक्तमित्यत आह—कृतकत्वसामान्यं
त्विति ।
न हि जातु शावलेयसन्निधौ गोत्वसामान्यमात्रं भवति, अपि तु विशेषसहितम् ।
तथा च 1213यथातथाभाव उपपन्न इत्यर्थः ।


एतेन यत् परैरुपनयस्य दृष्टान्तादभिन्नत्वं वर्णितम्, तदपि परास्तमित्याह—
गतार्थत्वादिति । अनेनोपमानसमानत्ववर्णनेन एतदेव विभजते—यदप्युक्तमिति ।
व्याप्तिप्रदर्शनविषयो दृष्टान्तः, दृष्टव्याप्तिकस्य हेतोः साध्यधर्मिण्युपसंहार उपनय
इति महान् भेद इत्यर्थः । एतेन निगमनं प्रतिज्ञायाः समानाभिधेयत्वेऽपि प्रतिज्ञात्वेन
प्रत्युक्तम् । प्रतिज्ञायाः साध्यपरत्वात् निगमनस्य च1214 विपरीतशङ्कानिवृत्तिपरत्वादिति ।
प्रयोजनभेदसामान्यमात्रविवक्षया एतेनेत्युक्तम् । अत्र भाष्यकारेण एकस्मिन्न
न्वयव्यतिरेकिण्येव वीतावीतवाक्ये पञ्चावयवे उदाहृते । तत्र कदाचिद् भ्रान्तिः
स्यादेकोदाहरणतया द्वे अपि वाक्ये परस्परापेक्षे एवेति, तन्निराकरणायाह—ते एते
इति । न पुनरन्वयि व्यतिरेकि चेत्येकं वाक्यमित्यर्थः ॥ ३९ ॥


॥ इति न्यायलक्षणप्रकरणम् ॥

  1. यथाभावः C

  2. Om C