262
प्रवर्तमानमनेन तर्केणानुगृह्यत इति प्रमाणविषयविपर्ययाननुज्ञैव च प्रमाण
विषयाभ्यनुज्ञा । अनिष्टप्रसक्त्या विपर्ययस्यैव1219 साक्षात् निवर्तनात् । अत एवान्ते
भाष्यकार उपसंजहार1220—यत्र कारणमनुपपद्यमानं पश्यति, तत् नानुजाना
तीति ।
ननु यदि तर्क एवमेतत्, नेतरदित्येवमाकारः, कथं पुनरयं तत्त्वज्ञानार्थो न तु
तत्त्वज्ञानमेवेति देशयति—कथं पुनरिति । परिहरति—अनवधारणादिति ।
पर्यायैर्निश्चयादत्यन्तभेद उक्तः । भावितात् चिन्तितात्, अत एव प्रसन्नात्
निर्मलादिति । प्रमाणसामर्थ्यादिति तर्कस्य स्वातन्त्र्यमपाकरोति । स्यादेतत्—यदि
न तर्कस्तत्त्वनिश्चयसाधनमपि तु प्रमाणमेव, हन्त भोः किमर्थं तर्हि वादे प्रमाण
तर्कसाधनेत्युक्तमित्यत आह—सोऽयं तर्क इति । व्यक्त्यभिप्रायेण प्रमाणानीति ।
प्रमाणविषयविपर्ययशङ्काविघटितानि प्रमाणानि प्रतिसन्दधान इत्यर्थः ।
वार्त्तिककारः सूत्रतात्पर्यमाह—अस्येति । समानजातीयात् संशया
देरसमानजातीयात् चेच्छादेर्व्यवच्छिद्यते । यद्यपि संशयजिज्ञासे अप्यविज्ञाततत्त्वेऽर्थे
प्रवर्तेते, तथापि न कारणोपपत्तित इति तयोर्व्यवच्छेद इति । तत्त्वं व्याचष्टे—यथेति ।
समानासमानजातीयव्यवच्छिन्नमविपरीतं रूपं तत्त्वमित्यर्थः । चोदयति—कुतः
पुनरिति । न हि सामान्यज्ञानविधायकं पदमत्रास्तीत्यर्थः । परिहरति—अविज्ञातेति ।
विशेषनिषेधः शेषाभ्यनुज्ञाहेतुरित्यर्थः । विमृशति—अविज्ञाततत्त्व इति समासोऽय
मिति । अवधारयति—षष्ठीविग्रहेणेति । युक्तम् उपपन्नम् । तृतीयाविग्रहेण त्वनुप
पन्नमित्यर्थः । संशयवाद्याह—विशेषहेत्वभावादिति । युक्तमिति प्रतिज्ञामात्रेणोच्यते,
न त्वत्र हेतुरभिधीयत इति भावः1221 । युक्तत्वे हेतुमाह—युक्तमर्थग्रहणसामर्थ्यादिति ।
अन्यश्चोदयति—अर्थग्रहणमन्तरेणापीति । ज्ञेयेन हि ज्ञानं निरूप्यते न ज्ञात्रा,
तस्य साधारण्यादिति सामर्थ्यमित्यर्थः । निगूढाभिसन्धिः परिहरति—एवमपीति ।