414
अश्रवणकारणानुपपत्तेरिति ब्रूमः । तन्नाश्रयानित्यत्वादिति ग्रहणकवाक्यं
विभजते—कर्मत्वस्य पुनरिति ।
प्रतिघातिद्रव्यसंयोगस्त्वन्त्यस्य शब्दस्य निरोधक इति भाष्यम् ।
तस्यार्थः । प्रतिघातिद्रव्यं कुड्यादि । तत्संयोगो नभसः । एतदुक्तं भवति, घनतम
द्रव्यसंयुक्तं नभो न शब्दस्य समवायिकारणतां प्रतिपद्यते । ततश्च सन्नप्यसमवायिकारणं
शब्दो न शब्दान्तरमारभते । तस्य च स्वकारणात् तत्कारणस्य च तस्माद् विनाशो
भवतीति द्रष्टव्यम् । एवमन्यत्रापीदृश एव शब्दविनाशहेतुरूहनीय इति ।
इतश्च शब्दो नित्य इत्याह—घण्टायामभिहन्यमानायामिति । यदि हि
घण्टास्थेन व्यञ्जकेनान्यवृत्तिना वावस्थितेन सन्तानवृत्तिना वा नित्यः शब्दो
व्यज्येत, ततः तारतारतरतारतममन्दमन्दतरमन्दतमादिश्रुतिभेदो न स्यात् । नित्यस्य
च शब्दस्य न स्वाभाविको भेदो नाप्यौपाधिक इत्युपपादितमधस्तात् । यदि तु
तारतमादयस्तावन्त एव शब्दा नित्याः, ततस्तावन्त एव युगपदवगम्येरन् अविशेषादेको1699
ह्येषां व्यञ्जकः स्थिर इति । अथ सन्तानवृत्तिः, तथापि सर्व एव तत्सन्ततिपतिताः
समर्था इत्याद्येनैव सर्वे व्यज्येरन् । न च समानदेशानां समानेन्द्रियग्राह्याणां व्यञ्जकनियमो
युक्त इत्युक्तमधस्तात्1700 । कारणत्वे तु घण्टास्थस्य सन्तानवृत्तेर्युक्तं यत्तारतमादिभेदेन
कारणभेदात् कार्यभेद इति तात्पर्यार्थः । युगपदनेकशब्दोपलब्धिप्रसङ्ग इति ।
अनेकस्य तारतमादेः शब्दस्योपलब्धिप्रसङ्ग इत्यर्थः । घण्टास्थस्य चाभिव्यक्ति
कारणं कथमन्यत्र वर्तमानम् इति श्रोत्रे वर्तमानमित्यर्थः ।
द्वितीयं कल्पमुपन्यस्य1701 दूषयति—अथान्यगतमिति । घण्टासंबन्ध्येष शब्द
इति हि तावल्लौकिकप्रत्ययः । सोऽयमन्यगते शब्दस्य व्यञ्जके यथैकस्यां घण्टायां
भवति, एवं घण्टान्तरेष्वपि तत्प्रत्यासन्नेषु भवेदविशेषात् । तस्मादेकघण्टास्थत्वे
नियमहेतुर्वक्तव्य इति । असति च शब्दभेदे श्रुतीनामिति शब्दज्ञानानामित्यर्थः ।