415
नाद इति 1702वायुधर्मोऽभिधीयत इति । शङ्कते—व्यामोहप्रत्यय इति । यथा हि वस्तुतः
स्वच्छधवले स्फटिकमणौ लाक्षारसावसेकतिरस्कृतधवलिम्नि लोहितः स्फटिक
इति प्रत्ययः, एवमभिव्यञ्जकवृत्तिस्तारतमत्वादिर्भ्रान्त्या शब्दे प्रतीयते इत्यर्थः ।
निराकरोति—न विशेषहेत्वभावादिति । न हि समीचीनात् प्रत्ययात् तारोऽयं शब्द
इति प्रत्ययस्य कश्चिद् विशेषहेतुरस्ति बाधकप्रत्ययो येनैष मिथ्याप्रत्ययः स्यादि
त्यर्थः । न च निर्बीजा भ्रान्तिरपि भवितुमर्हति । दीर्घत्वादिभ्रमाणां तु शब्देऽस्ति बीज
मित्याह—यदि चायमिति । यानि खलु दीर्घाणि वंशप्रभृतीनि तेषामवयवो
पचयः समानजातीयोपचयः । इहाप्यविरतश्रुतौ1703 शब्दसन्ताने विवृतकरणनिष्पन्ने
समस्ति समानजातीयोपचय इति तत्साधर्म्याद् दीर्घत्वभ्रमः । एवं शब्दसन्तान एव
तारो महानित्युच्यते । तत्राप्यस्ति समानजातीयोपचयोऽस्ति च स्फुटतरत्वम् । महानपि
हि स्फुटतरोऽयमपि तथेति महानित्युच्यते ।
शङ्कते—तुल्यमिति चेत् । यथा ह्यनित्यवादिनो घण्टास्थमवस्थितं सन्तानवृत्ति
वा न युगपत् तारमन्दानुत्पादयति किं तु क्रमेणैव, एवं नित्यानपि शब्दान् क्रमेण
व्यङ्क्ष्यतीत्यर्थः । निराकरोति—न तन्निमित्तस्य कदाचिद् भावात् । न
तावन्नित्यवादिभिस्तारत्वादिधर्मभेदेन शब्दभेदोऽभ्युपेयते । तथा चैकेनावस्थितेन
घण्टास्थेन सन्तानवृत्तिना व्यज्यमान एकस्मिन् शब्दे नित्ये श्रुतिभेदः कादाचित्को
नोपपद्येत । शब्दे त्वनित्येऽन्यस्मिन्नन्यस्मिन् क्रियमाणे सन्तानवृत्तिना कारणेन
तद्भेदात् कार्यत्वात् कादाचित्कत्वाच्च श्रुतिभेदोपपत्तिरिति वैषम्यमित्यर्थः । तच्च
कारणमिति । निमित्तकारणमित्यर्थः । पाणिसंश्लेषमपेक्षमाणादिति । स्पर्शवद्वेगव
द्द्रव्यसंयोगाद् घण्टायां कर्म, कर्मवद्घण्टाकाशसंयोगात् तादृशाच्छब्दश्चेत्येकः
कालः । तत्कर्म पाण्यभिघातमपेक्षमाणं विभागसमकालं संस्कारं वेगाख्यं
करोति । सा घण्टा चलन्त्याध्यात्मिकं वायुमुपगृह्णाति । घण्टातदवयवसंपृक्ता1704
वायुपरमाणव एवाध्यात्मिको वायुः । तदुपग्रहो घण्टायाः स्ववेगमपेक्षमाणाया