416
वायुसंयोगाद् वायौ क्रियोत्पादकत्वम् । ततश्चानिलकर्मणो घण्टानिलसंयोगो
वायुगतवेगापेक्षः पुनर्घण्टायां कर्मारभते । तदिदमाह—सा च वायुनाभिहता पुनः
कर्म करोति । तदेवं वायुघण्टासंयोगो घण्टावेगापेक्षो घण्टाकाशसंयोगश्च शब्दमारभत
इति द्रष्टव्यम् । ततः कर्मणा संस्कारः संस्कारेण पुनः कर्म शब्दश्चेत्यपि
द्रष्टव्यम् । सुगममन्यत् ॥ ३५ ॥
पाणिनिमित्तप्रश्लेषाच्छब्दाभावे नानुपलब्धिः ॥ २ । २ । ३६ ॥
देशयति—अथ घण्टास्थ इति । न खलु निमित्तकारणविनाशे कार्योच्छेदः,
माभूत् कुलालादिनिवृत्तावपि घटादिनिवृत्तिरित्यर्थः । परिहरति—न ब्रूम इति ।
यद्यपि निमित्तनिवृत्तावपि कार्यं निवर्तते यथा अपेक्षाबुद्धिनाशाद् द्वित्वादि, तथापि
निमित्तनिवृत्तावपि तदनिवृत्तिमभ्युपेत्यैष परिहार इति मन्तव्यम् ॥ ३६ ॥
विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ॥ २ । २ ।
३७ ॥
सिंहावलोकितन्यायेन पूर्वोक्तं हेतुं दूषयति—विनाशेति ।
विना…ङ्गः । प्रत्यक्षेण शब्दविनाशकारणानुपलब्धेश्चावस्थाने शब्दस्य
शब्दोपलब्धेरपि नित्यत्वप्रसङ्गः । न हि तस्या अपि विनाशकारणं प्रत्यक्षेणोपलभ्यत
इति । तदनेन विनाशकारणानुपलब्धेरित्यस्य1705 अनैकान्तिकत्वमुद्भावितम् ॥ ३७ ॥
अस्पर्शत्वादप्रतिषेधः ॥ २ । २ । ३८ ॥
1706