संप्रति सांख्यं प्रत्यवतिष्ठते । कम्पसमानाश्रयस्येति । अनुवृत्तो नादः
शब्दोऽनुनाद इति । वैयधिकरण्ये हि प्रतिघातिद्रव्यप्रश्लेषेण1707 समानाधिकरणस्यैव
संस्कारस्योच्छेदः स्यात् । न व्यधिकरणस्य शब्दस्य । व्यधिकरणस्य तूच्छेदाभ्युप
गमेऽतिप्रसङ्गः स्यात् । तस्मात् कम्पसन्तानसंस्कारसमानाश्रयः शब्दोऽ
भ्युपगन्तव्यः । तदनेनाकाशाश्रयत्वं शब्दस्य प्रतिषिद्धम् । तदेतद् वार्त्तिककारो
व्यचष्टे—व्यधिकरणत्वादयुक्तमिति ।
अस्योत्तरसूत्रम्—अस्प…धः ।
प्राप्यकारित्वमिन्द्रियाणाम् उपपादितम्1708 । घण्टाद्याश्रयश्च शब्दो न श्रोत्रं
प्राप्नोति । एवं हि प्राप्नुयाद् यदि घण्टा कर्णशष्कुलीमागच्छेत् । कर्णशष्कुली वा
घण्टाम् । न चैतदुभयमस्ति । न चाहङ्कारिकमिन्द्रियं व्यापीत्युक्तम् । तस्माच्छब्दा
धारोऽस्पर्शो व्यापी चाकाशः । तदाधारः शब्दः श्रोत्रमायाति सन्तानवृत्त्येति युक्तम् ।
तथा च श्रवणमस्योपपन्नम्, नान्यथेति । तदेतद् वार्त्तिककृद् विभजते—अस्पर्शेति ।
येन केनचिदिति, मन्दतरेण वा मन्दतमेन वा कारणशब्देनेत्यर्थः ।
अनेकः संस्कार इति एतत्1709 तत्त्वं शब्दभेदादिति । एकस्य हि संस्कारस्य
धर्मभेदकल्पनायां कल्पनागौरवप्रसङ्गः । संस्कारस्तावदेको धर्मी धर्मभेदाश्चेति ।
तदिह धर्मभेदस्थानेऽस्तु संस्कारभेदः । कृतमत्रैकेन धर्मिणा । न च संस्कारभेदेषु
धर्मभेदाः कल्पनीयाः । संस्कारभेदमात्रादेव कारणात् कार्यभेदोपपत्तौ तद्गतधर्म
भेदकल्पनावैयर्थ्यादिति भावः । यस्य च वैशेषिकस्य एकः संस्कारस्तस्येषोः
पातः प्राप्नोति । संस्कारस्य हीषोर्मूर्तद्रव्यसंयोगो विनाशकोऽविनाशको वा ?
विनाशकश्चेद् आद्येनैव मूर्तद्रव्यसंयोगेन तद्विनाशाद् अगत्वैव यावद् गन्तव्यभिषोः
पातप्रसङ्गः । द्वितीये तु कल्पे कृतकस्यापि संस्कारस्य विनाशकारणाभावेनाविना
शान्न कदाविदपि पातः स्यात् । प्रयोगश्च इष्वादिवेगः क्षणिको वेगत्वाद्
घटादिगतवेगवदिति ॥ ३८ ॥