418

विभक्त्यन्तरोपपत्तेश्च समासे ॥ २ । २ । ३९ ॥


सांख्यानां हि रूपरसगन्धस्पर्शशब्दसमुदायो वीणावेणुशङ्खादिद्रव्यम् । तत्र
समासे समुदाये स्थित एव शब्दो व्यज्यत इति दर्शनम् । तस्मिन् समुदाये
सांख्याभिमते विभक्त्यन्तरोपपत्तेश्च न व्यज्यते शब्दः । यदि समुदाये व्यज्येत
शब्दः, विभक्तिश्च षड्जधैवतगान्धारादिभेदेन, विभागान्तरं च षड्जजातीयस्यैव
तारमन्दादिरूपं नोपपद्येत । न हि तद्गतानां गन्धादीनामेकस्मिन्नेव द्रव्ये वीणादौ
नानाजातीयत्वम्, एकजातीयानां वा1710 प्रतिक्षणं भेदो दृश्यते । तस्माद् विभक्त्यन्तरोपपत्तेर्न
समासे व्यज्यते शब्दः । अपि त्वाकाशगुणः क्रियत इति साम्प्रतम् । सूत्रव्याख्ययैव
भाष्यवार्त्तिके व्याख्याते ॥ ३९ ॥


॥ इति शब्दानित्यत्वप्रकरणम् ॥

शब्दपरिणामप्रकरणम्


विकारादेशोपदेशात् संशयः ॥ २ । २ । ४० ॥


तदेवं रूपादिसन्निविष्टः शब्दो व्यज्यते इति सांख्यमते दूषिते स एव सांख्यो
वर्णेषु प्रकृतिविकारभावश्रुतेर्मृत्सुवर्णादिवत् परिणामिनित्या वर्णा इति यदि प्रत्यवतिष्ठते
तत्र परीक्षामारभते—द्विविधश्चायं शब्द इति ।


विका…यः । विकारोपदेशोऽपि न ध्वनिमात्रे शब्देऽस्तीति न तस्य
परिणमिनित्यतामापादयितुमर्हति । केवलं वर्णात्मन्यापादयेद् यद्यसन्देहः स्यात् ।
अस्ति तु तत्रापि संशयः1711 । तथा हि

  1. द्रव्ये वीणादौ नानाजातीयानां चC

  2. सन्देहःC