शब्दपरिणामप्रकरणम्
विकारादेशोपदेशात् संशयः ॥ २ । २ । ४० ॥
तदेवं रूपादिसन्निविष्टः शब्दो व्यज्यते इति सांख्यमते दूषिते स एव सांख्यो
वर्णेषु प्रकृतिविकारभावश्रुतेर्मृत्सुवर्णादिवत् परिणामिनित्या वर्णा इति यदि प्रत्यवतिष्ठते
तत्र परीक्षामारभते—द्विविधश्चायं शब्द इति ।
विका…यः । विकारोपदेशोऽपि न ध्वनिमात्रे शब्देऽस्तीति न तस्य
परिणमिनित्यतामापादयितुमर्हति । केवलं वर्णात्मन्यापादयेद् यद्यसन्देहः स्यात् ।
अस्ति तु तत्रापि संशयः1711 । तथा हि
419
इको यणचि
इत्यादिकं विकारोपदेशं व्याचक्षत एके, अन्ये त्वादेशोपदेशम् । तदत्र व्याख्यातृ
विप्रतिपत्तेः संशयः । तन्नापरीक्ष्य शक्यमवधारयितुमित्यर्थः । तत्र परीक्षायाम् ।
आदेशोपदेशस्तत्त्वमित्यवधारयति—आदेशोपदेश इति । सुवर्णजातीयाः
खल्ववयवा अन्यतमव्यूहपरित्यागेनान्यतमं व्यूहमापद्यमाना रुचक इति वा वर्धमानक
इति वा कटक इति वा परिणमन्ते । अस्ति हि तेषु सर्वेषु सुवर्णजातीयानामवयवाना
मनुगमः । न तु यकारे इकारस्य वा तदारम्भकस्य वा अवयवस्यानुगममीक्षामहे ।
तस्माद् विकाराभावादादेशत्वमस्य निश्चिनुम इति ।
उपपत्त्यन्तरं चाविकारे दर्शयति—भिन्नकरणयोश्चेति । यदि हीकारविकारो
यकारः स्याद् यकारप्रयोगायेकारमुपाददानास्तत्कारणं विवृतकरणं पूर्वमुपाददीरन्,
तन्निरपेक्षास्तु यकारं प्रयुयुक्षमाणा1712 ईषत्स्पृष्टकरणमुपाददते । तस्मात् नेकारविकारो
यकार इत्युत्पश्यामः1713 ।
उपपत्त्यन्तरं चाह—अविकारे चेति । कारकज्ञापकयोर्हे त्वोरविशेष
माह—उभयत्रेति ।
उपपत्त्यन्तरमाह—प्रयुज्यमानेति । यथा हि क्षीरं कालविपाकापेक्षं दधि भवद्
दृश्यते, न तथेकारो यकारो भवन्नित्यर्थः ।
यदि न विकारः कथं तर्हि शब्दान्वाख्यानम्
इको यणचि
इत्यत आह—अविकारे चेति । इकः प्रयोगप्रसङ्गे संहितायां यणः प्रयोगमाह
तत् सूत्रम्, न पुनरिग्विकारं यणमित्यर्थः । ननु मा भूद् विकारः, परिणामोऽर्थान्तरं
तु भविष्यति यतो नित्या वर्णा भविष्यन्तीत्यत आह—एतावच्चैतदिति । परिणामो
वा इत्यापाततः । कार्यकारणभावो वेति परमार्थः । न जातु क्षीरं तदवयवा वा
दधिरूपेण परिणमन्ते । न ह्यवयवा अवयविस्वभावाः । तस्मात् कार्यकारणभाव एव
420
तात्त्विकः । स च वर्णेषु नास्ति इगनपेक्षस्य यणो निष्पत्तेः । तस्मादिक्प्रयोगप्रसङ्गे
संहितायां यणः प्रयोग इत्यन्वाख्यानार्थः ।
इतश्चायमादेशोपदेश इत्याह—वर्णसमुदायेति । वर्णस्यैकस्य वास्तवत्वात्
कदाचिद् विकार उच्येत1714 । बुद्धिसमाहारमात्रस्य तु तत्समुदायस्य न विकार
संभवः । तस्मात् तत्राकामेनाप्यादेशोपदेशो वक्तव्यः । स वरं कॢप्तत्वादेकस्मिन्नप्यस्तु
वर्ण इत्यर्थः ॥ ४० ॥
प्रकृतिविवृद्धौ विकारविवृद्धेः ॥ २ । २ । ४१ ॥
इतश्च न प्रकृतिविकारभावः—प्रकृ…द्धेः ।
प्रकृतिविवृद्धाविति । महद्भिः खलु तूलपिण्डैरारब्धस्तूलपिण्डो महान् ।
अल्पैरारब्धोऽल्प1715 इति दृष्टम् । तद्वदिहापि दीर्घेकारविकारस्य यकारस्य ह्नस्वेकार
विकाराद् भवितव्यं विशेषेण । न चास्ति विशेषः । तस्मान्न प्रकृतिविकारभाव
इत्यर्थः ॥ ४१ ॥
न्यूनसमाधिकोपलब्धेर्विकाराणामहेतुः ॥ २ । २ । ४२ ॥
अस्याक्षेपसूत्रम् । न्यून…तु । अल्पेन हि न्यग्रोधबीजेनारब्धो न्यग्रोधतरुर्महान् ।
अतोऽतिमहता माननारिकेलबीजेनारब्धो1716 नारिकेलतरुरल्पः । नारिकेलबीजैरेव
परस्परापेक्षया 1717समैरारब्धः सम इति ॥ ४२ ॥
द्विविधस्यापि हेतोरभावादसाधनं दृष्टान्तः ॥ २ । २ । ४३ ॥
421
अस्य प्रत्याख्यानसूत्रम्—द्विविधस्यापि हेतोरिति यदि च न्यूनसमाधिको
पलब्धेरिति साधनं तदा द्विविधस्य हेतोरभावाद् दृष्टान्तमात्रस्य चासाधकत्वात्
प्रतिदृष्टान्तस्य च संभवादित्येतद् दूषणम् ॥ ४३ ॥
नातुल्यप्रकृतीनां विकारविकल्पात् ॥ २ । २ । ४४ ॥
यदि तु न्यूनसमाधिकोपलब्धेरित्यनेनानैकान्तिकोद्भावनं प्रकृत्यनुविधानस्य
क्रियते तदा दूषणपक्षे नातुल्यप्रकृतीनां विकारविकल्पादिति दूषण
मनैकान्तिकदोषस्यासंबद्धत्वं नाम । न्यूनसमाधिकत्वे तु प्रकृत्यनुविधानं
विकाराणामप्रच्युतम् । तथा हि अतुल्यायाः प्रकृतेर्विकारा विकल्प्यन्ते प्रकृति
भेदम् अनुविधीयन्ते । न जातु न्यग्रोधबीजान्नारिकेलपादपो भवति, भवति च
न्यग्रोधबीजान्न्यग्रोधपादपः1718 । एतदुक्तं भवति—प्रकृतिभेदानुविधानं विकारभेदानां
ब्रूमो न पुनस्तद्विवृद्धिह्रासाभ्यां तद्विवृद्धिह्रासौ, येनानैकान्तिकत्वमुद्भाव्येत ।
तस्मादनैकान्तिकोद्भावनमसंबद्धमित्यर्थः ।
न त्विवर्णमनुविधीयते यकार इति भाष्यम् । तस्यार्थो न त्विवर्णभेदमनु
विधीयत इति । तस्मादनुदाहरणं न्यूनसमाधिकभावेन द्रव्यविकार इति ॥ ४४ ॥
द्रव्यविकारवैषम्यवद् वर्णविकारविकल्पः ॥ २ । २ । ४५ ॥
अस्याक्षेपसूत्रम्—द्रव्यविकार इति । द्रव्य…कल्पः । न प्रकृतिभेदम
वश्यमनुविधीयन्ते विकाराः द्रव्यत्वेन तुल्यत्वेऽपि प्रकृतीनां विकारवैषम्यदर्शनात् ।
एवं वर्णत्वेन तुल्यत्वेऽपि विकारवैषम्यम् । तथा च दीर्घह्रस्वाभ्यां वैषम्येऽपि
विकारसाम्यं1719 भविष्यति प्रकृतिसाम्य इव विकारवैषम्यम् इति भावः ॥ ४५ ॥
422
न विकारधर्मानुपपत्तेः ॥ २ । २ । ४६ ॥
तत्प्रत्याख्यानसूत्रम्—न विकारधर्मेति । यद्यपि प्रकृतेर्द्रव्यत्वमभेदस्तथापि
विकारभेदे प्रकृतिभेद एवोपयुज्यते, न पुनः सन्नपि प्रकृतेरभेदः । तद्विकाराणां तु
यदभिन्नं रूपं द्रव्यत्वं तत्र तस्योपयोग इति स्थिते परिहारे, अन्वयाग्रहणं1720 परिहार
उक्तः ॥ ४६ ॥
विकारप्राप्तानामपुनरापत्तेः ॥ २ । २ । ४७ ॥
इतश्च न सन्ति वर्णविकारा इत्याह विकारेति । नो खलु क्षीरविकारो दधि
पुनः क्षीरं दृष्टमित्यर्थः । अननुमानादिति प्रमाणाभावमुपलक्षयति ॥ ४७ ॥
सुवर्णादीनां पुनरापत्तेरहेतुः ॥ २ । २ । ४८ ॥
अस्याक्षेपः सुवर्णादीनामिति । सूत्रम् । साधनपक्षे दूषणम्—व्यभिचारा
दिति ॥ ४८ ॥
न तद्विकाराणां सुवर्णभावाव्यतिरेकात् ॥ २ । २ । ४९ ॥
दूषणपक्षे दोषमाह—सुवर्णोदाहरणोपपत्तिश्चेति । न त…त् ।
तथा हि ये सुवर्णजातीया अवयवा रुचकत्वमापन्नाः, त एव पूर्वव्यूहपरित्यागेन
वर्धमानकतामापन्नाः पुना रुचकत्वमापद्यन्ते । तदवयवानां तत्र प्रत्यभिज्ञायमान
423
त्वात् । न त्विहेकारो यकारानुगत इकारयकारानुगतो वान्यः कश्चिद्धर्मी दृश्यते य
इत्वं परित्यज्य यत्वमापद्यते । वर्णत्वं चानुगतमपि न धर्मि किं तु धर्म एव । न च
निवर्तमान इकारो यकारस्य धर्मी1721 भवितुमर्हति, धर्मधर्मिणोः समानकालत्वा
दित्यर्थः ॥ ४९ ॥
नित्यत्वेऽविकारादनित्यत्वे चानवस्थानात् ॥ २ । २ । ५० ॥
ननु दध्यत्रेति प्रयोगे कदेकारस्योत्पद्य निरोधः ? तथा दधि अत्रेति प्रयोगे कदा
यकारस्योत्पद्य निरोध इत्यत आह—तदेतदवगृह्य सन्धान इति । अवग्रहोऽसंहिता ।
दधि अत्रेत्युच्चार्य दध्यत्रेत्युच्चार्यते, दध्यत्रेति वा सन्धाय यदा दधि अत्रेत्यवगृह्यते
इत्यर्थः ॥ ५० ॥
नित्यानामतीन्द्रियत्वात् तद्धर्मविकल्पाच्च वर्णविकाराणाम
प्रतिषेधः ॥ २ । २ । ५१ ॥
जातिवादी प्रत्यवतिष्ठते—नित्यपक्षेतावदिति । नित्या…धः । यथा हि सत्यपि
नित्यत्वे केचिदतीन्द्रियाः, यथा परमण्वाकाशादयः । केचिदैन्द्रियकाः, यथा गो
त्वादयः । एवं सत्यपि नित्यत्वे परमाण्वाकाशादयो न प्रकृतिविकारभूताः । वर्णास्तु
प्रकृतिविकारभावमापत्स्यन्ते नित्या अपीत्यर्थः ।
सेयं विकल्पसमा जातिरित्याह—विरोधादिति । नो खल्वैन्द्रियकत्वानैन्द्रिय
कत्वाभ्यामस्ति कश्चिन्नित्यत्वस्य विरोधः प्रकृतिविकारभावेन त्वस्ति । न हि
अस्ति संभवः कार्यश्च नित्यश्चेति ॥ ५१ ॥
424
अनवस्थायित्वे च वर्णोपलब्धिवत्तद्विकारोपपत्तिः ॥ २ । २ । ५२ ॥
अनित्यपक्षे जातिवाद्याह—अनवस्थायित्वे चेति । यथा सत्यप्यनवस्थायित्वे
वर्णा इन्द्रियेण संबध्य स्वविषयं ज्ञानं जनयन्ति, एवं विकारमपि करिष्य
न्तीत्यर्थः ।
सेयं साधर्म्यसमा जातिरित्याह—असंबन्धादिति । कतिपयक्षणावस्थानेन
वर्णानां क्षणिकानामपि स्वविषयज्ञानहेतुभावो युज्यते । अवगृह्य चिरं स्थित्वा
यदा सन्धीयते, सन्धाय वा चिरं स्थित्वा यदावगृह्यन्ते, तदा वर्णानामनित्यानां न
तावन्तं कालमवस्थानमस्तीति नोपलब्धिहेतुत्वेन विकारकर्तृत्वं वर्णानां
तुल्यम् । तस्मादसंबन्धाद् असमर्था वर्णोपलब्धिर्वर्णविकारप्रतिपादन इत्यर्थः ।
मा भूद् वर्णोपलब्धिर्विकारेण साक्षात्संबद्धा । आदेशविरोधितया तन्निवृत्त्या
पारिशेष्याद् विकारं साधयिष्यतीत्यत आह—न च वर्णोपलब्धिरिति ॥ ५२ ॥
विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेश्चा
प्रतिषेधः ॥ २ । २ । ५३ ॥
तदेवं जात्युत्तरद्वयमुत्थितमारितं कृत्वा भाष्यकारः अत्रैवार्थे सूत्रं पठति—विका
…धः ।
वार्त्तिकम्—उपलभ्यमानस्य चेकारस्य यत्वानुपपत्तेरिति । अवगृह्य
चिरं स्थित्वा सन्धाय यदा यत्वं तदोपलभ्यमानतेकारस्य नास्तीत्यर्थः ॥ ५३ ॥
प्रकृत्यनियमात् ॥ २ । २ । ५४ ॥
इतश्च वर्णविकारनुपपत्तिः—प्रकृत्यनियमादिति । क्षीरजातीयस्य हि
425
दधिजातीयो विकारो न पुनः कदाचिदपि दधिजातीयस्य क्षीरजातीयो विकार
उपलब्धः1722 । इह तु यथेकारजातीयस्य यकारजातीयो विकारो दध्यत्रेति दृश्यते, एवं
यकारजातीयस्यापि विकार इकारजातीयो दृश्यते यथा व्यधेः1723 सति प्रसारणे
यकारस्येकार इति । तस्मादनियमादपि न प्रकृतिविकारभाव इत्यर्थः ॥ ५४ ॥
अनियमे नियमान्नानियमः ॥ २ । २ । ५५ ॥
अत्र छलवादी प्रत्यवतिष्ठते—अनियमे नियमादिति ॥ ५५ ॥
नियमानियमविरोधादनियमे नियमाच्चाप्रतिषेधः ॥ २ । २ । ५६ ॥
तदेतस्य वाक्छलत्वमापादयति—निय…धः । नियमानियमयोः
सामानाधिकरण्यं विरुध्यते । न त्वाधाराधेयभाव इत्यर्थः ॥ ५६ ॥
गुणान्तरापत्त्युपमर्दह्रासवृद्धिलेशश्लेषेभ्यस्तु विकारोपपत्ते
र्वर्णविकाराः ॥ २ । २ । ५७ ॥
तदेवं प्रकृतिविकारभावं निराकृत्य विकारवचनव्यक्तिं शब्दानामादेशपक्षे
समर्थयति—न चेयं वर्णविकारोपपत्तिरिति । गुणा…राः । एकस्याप्रयोगे अन्यस्य
प्रयोगो विकार इति सामान्यलक्षणम् । तस्य विशेषानाह—स भिद्यत इति । उपमर्दो
नामेति, यथास्तेर्भूरिति । लेशः इति । स्त इत्यत्र अस्तेरकारलोपे सकारमात्रस्य
लेशस्यैकदेशस्य व्यवस्थानम्1724 । श्लेष आगमः प्रकृतेः प्रत्ययस्य वा । अत्रापि
426
केवलस्याप्रयोगे शिष्टस्य प्रयोग इत्येतावता विकारसामान्यलक्षणं योजनीयम्1725 ।
एतेन वार्त्तिकमपि व्याख्यातमेवेति ॥ ५७ ॥