419 इको यणचि
इत्यादिकं विकारोपदेशं व्याचक्षत एके, अन्ये त्वादेशोपदेशम् । तदत्र व्याख्यातृ
विप्रतिपत्तेः संशयः । तन्नापरीक्ष्य शक्यमवधारयितुमित्यर्थः । तत्र परीक्षायाम् ।


आदेशोपदेशस्तत्त्वमित्यवधारयति—आदेशोपदेश इति । सुवर्णजातीयाः
खल्ववयवा अन्यतमव्यूहपरित्यागेनान्यतमं व्यूहमापद्यमाना रुचक इति वा वर्धमानक
इति वा कटक इति वा परिणमन्ते । अस्ति हि तेषु सर्वेषु सुवर्णजातीयानामवयवाना
मनुगमः । न तु यकारे इकारस्य वा तदारम्भकस्य वा अवयवस्यानुगममीक्षामहे ।
तस्माद् विकाराभावादादेशत्वमस्य निश्चिनुम इति ।


उपपत्त्यन्तरं चाविकारे दर्शयति—भिन्नकरणयोश्चेति । यदि हीकारविकारो
यकारः स्याद् यकारप्रयोगायेकारमुपाददानास्तत्कारणं विवृतकरणं पूर्वमुपाददीरन्,
तन्निरपेक्षास्तु यकारं प्रयुयुक्षमाणा1712 ईषत्स्पृष्टकरणमुपाददते । तस्मात् नेकारविकारो
यकार इत्युत्पश्यामः1713


उपपत्त्यन्तरं चाह—अविकारे चेति । कारकज्ञापकयोर्हे त्वोरविशेष
माह—उभयत्रेति ।


उपपत्त्यन्तरमाह—प्रयुज्यमानेति । यथा हि क्षीरं कालविपाकापेक्षं दधि भवद्
दृश्यते, न तथेकारो यकारो भवन्नित्यर्थः ।


यदि न विकारः कथं तर्हि शब्दान्वाख्यानम्
इको यणचि


इत्यत आह—अविकारे चेति । इकः प्रयोगप्रसङ्गे संहितायां यणः प्रयोगमाह
तत् सूत्रम्, न पुनरिग्विकारं यणमित्यर्थः । ननु मा भूद् विकारः, परिणामोऽर्थान्तरं
तु भविष्यति यतो नित्या वर्णा भविष्यन्तीत्यत आह—एतावच्चैतदिति । परिणामो
वा
इत्यापाततः । कार्यकारणभावो वेति परमार्थः । न जातु क्षीरं तदवयवा वा
दधिरूपेण परिणमन्ते । न ह्यवयवा अवयविस्वभावाः । तस्मात् कार्यकारणभाव एव

  1. प्रयोक्ष्यमाणाC

  2. इत्यवस्यामःJ