420 तात्त्विकः । स च वर्णेषु नास्ति इगनपेक्षस्य यणो निष्पत्तेः । तस्मादिक्प्रयोगप्रसङ्गे
संहितायां यणः प्रयोग इत्यन्वाख्यानार्थः ।


इतश्चायमादेशोपदेश इत्याह—वर्णसमुदायेति । वर्णस्यैकस्य वास्तवत्वात्
कदाचिद् विकार उच्येत1714 । बुद्धिसमाहारमात्रस्य तु तत्समुदायस्य न विकार
संभवः । तस्मात् तत्राकामेनाप्यादेशोपदेशो वक्तव्यः । स वरं कॢप्तत्वादेकस्मिन्नप्यस्तु
वर्ण इत्यर्थः ॥ ४० ॥


प्रकृतिविवृद्धौ विकारविवृद्धेः ॥ २ । २ । ४१ ॥


इतश्च न प्रकृतिविकारभावः—प्रकृ…द्धेः ।


प्रकृतिविवृद्धाविति । महद्भिः खलु तूलपिण्डैरारब्धस्तूलपिण्डो महान् ।
अल्पैरारब्धोऽल्प1715 इति दृष्टम् । तद्वदिहापि दीर्घेकारविकारस्य यकारस्य ह्नस्वेकार
विकाराद् भवितव्यं विशेषेण । न चास्ति विशेषः । तस्मान्न प्रकृतिविकारभाव
इत्यर्थः ॥ ४१ ॥


न्यूनसमाधिकोपलब्धेर्विकाराणामहेतुः ॥ २ । २ । ४२ ॥


अस्याक्षेपसूत्रम् । न्यून…तु । अल्पेन हि न्यग्रोधबीजेनारब्धो न्यग्रोधतरुर्महान् ।
अतोऽतिमहता माननारिकेलबीजेनारब्धो1716 नारिकेलतरुरल्पः । नारिकेलबीजैरेव
परस्परापेक्षया 1717समैरारब्धः सम इति ॥ ४२ ॥


द्विविधस्यापि हेतोरभावादसाधनं दृष्टान्तः ॥ २ । २ । ४३ ॥


  1. उपपद्यते C

  2. °ब्धः स्थूलः पिण्डोऽल्पश्चारब्धो महानल्पः C

  3. ततोऽति
    महता वा नारि°
    C

  4. °पेक्षमाणसमै° C