501 1913प्रथेतोपधानभेदाभावादित्यर्थः । कश्चिद् देशयति—स्फटिक इति । परिहरति—
नैरन्तर्यदर्शनादिति ।
नीलीद्रव्यलेपस्यापि सान्तरत्वं नीलः स्फटिक इति
साक्षात्कारानुमेयमिति भावः । इतोऽपि प्रत्ययभेद इत्यत आह—यस्य च प्रत्ययाभेद
इति । प्रमाणस्य करणस्य भेदः प्रत्ययलक्षणकार्यभेदोन्नेयो नासति प्रत्ययभेदे
भवितुमर्हति । शङ्कते—विषयभेदादिति । एतदुक्तं भवति, प्रातिस्विको हि भेदो
विषयाणां यदि प्रमाणभेदहेतुः हन्तैतस्यानन्त्यात् प्रमाणानामनन्तो भेदः स्यात्, न तु
त्रित्वम् । तस्मादवान्तरसामान्यं विषयाणामास्थेयम् । न च तदपि स्वरूपमात्रनिष्ठं
विषयाणां संभवति, एकस्मिन्नपि विषये प्रमाणानां संप्लवात् । तस्मात्
प्रत्ययभेदोपहितसीमानो1914 विषयास्त्रित्वे व्यवतिष्ठमानाः प्रमाणान्यपि त्रित्वे
व्यवस्थापयन्ति । सामग्रीत्रयान्वयव्यतिरेकानुविधायिनश्च प्रत्ययास्त्रयो भवन्ति ।
तथा च त्रिविषयत्वात् प्रमाणानि त्रीणि । तदिदमुक्तम्—विषयभेदादिति ।
निराकरोति—तन्नेति । प्रमाणाभेदे सामग्रीत्रयाभेदे तदनुविधायिनां प्रत्ययानाम
भेदात् । न हि प्रत्ययभेदमन्तरेण सामग्रीभेदः शक्यो विज्ञातुम् । तस्मात्
प्रत्ययसामग्र्यभेदेऽपि विषयभेदानधिगतेर्न विषयभेदस्त्रित्वाधिगमोपायः1915 प्रत्यय
भेदमन्तरेणेति । शङ्कते—विषयतादात्म्यादिति चेत् ? प्रत्ययप्रत्येतव्ययोरभेदादुपपन्नः
प्रत्येतव्यभेदप्रथा1916 इत्यर्थः । निराकरोति—तन्नेति । अपि च प्रत्ययाभेदे प्रकार
वत्त्वाभावाद् यथाध्यवस्यति बुद्धिः तथा चेतयते पुरुष इति व्याघातः ।
कुतः—अप्रकारवत्त्वात् । भिन्नो हि प्रकारवान् भवति नाभिन्न इत्यर्थः । अन्तः
करणस्य बुद्धेः प्रत्ययानामभेदे बुद्धिस्थं1917 प्रत्ययमुपलभत इति विरोध इति ॥ ९ ॥


॥ बुद्ध्यनित्यताप्रकरणम् ॥

  1. प्रत्ययो° C

  2. °पहितसामान्या C

  3. °धिगमो वा C

  4. प्रत्ययभेद° C

  5. बुद्धिस्तं C