502

औपोद्धातिकं क्षणभङ्गप्रकरणम्


स्फटिकेऽप्यपरापरोत्पत्तेः क्षणिकत्वाद् व्यक्तीनामहेतुः ॥
३ । २ । १० ॥


तदेवं स्वमतेन सांख्यपक्षं दूषयित्वा बौद्धैस्तु यत् सांख्यीये राद्धान्ते
दूषणमभिहितं1918 तद् दूषयितुं बौद्धमतमुपन्यस्यति—स्फटिकान्यत्वाभिमानवत्
तदन्यत्वाभिमान इत्येतदमृष्यमाणः1919 क्षणिकवाद्याहेति स्फटि…तुः ॥
यत् सत्
तत्सर्वं क्षणिकं यथा शरीरं तथा च स्फटिक इति जरन्तो बौद्धाः । शरीरस्य च
कालपरिपाकवशेन स्थौल्यस्य ह्रासस्य च दर्शनात् प्रतिक्षणं सूक्ष्मः परिणति
भेदोऽनुमीयते स चान्तरा विनाश एवेति । यस्यापि स्फटिकादेस्तादृशं स्थौल्यं
वा ह्रासो वा न दृश्यते तस्यापि सत्त्वेन शरीरवदेव प्रतिक्षणं विनाशोत्पादावनुमीयेते
इति ।


स्यादेतत् । यदैवोपचयापचयौ शरीरस्य दृश्येते तदैवोत्पादविनाशौ
भविष्यतः, पूर्वं च तत्प्रबन्धकल्पनायां किं प्रमाणमित्यत आह—यस्य खलु
प्रतिक्षणमिति ।
अस्य प्रयोगः, प्रतिक्षणं शरीरम् अन्यच्चान्यच्चेति । पटस्य हि
कुङ्कुमादिद्रव्यसंयोगे सत्यन्तेऽरूणिमलक्षणो विशेषो दृश्यते । न चास्यारुणिमा
प्रतिक्षणभावीत्यत उक्तम्—बाह्यप्रत्ययाभेदे सतीति । अभिन्नो हि शरीरोपचयहेतुः
प्रतिदिनमुपयुज्यमानोऽन्नपानप्रचयो यथा पाकजोत्पत्तावौष्ण्यापेक्षो वह्निसंयोगः,
बाह्यः प्रत्ययः कारणम्, पटे तु रागोत्पत्तौ कुङ्कुमादिद्रव्यसंयोगः सांप्रतिको विशिष्ट
इत्यर्थः ॥ १० ॥


नियमहेत्वभावाद् यथादर्शनमभ्यनुज्ञा ॥ ३ । २ । ११ ॥


503

सिद्धान्तसूत्रम्—निय…ज्ञा ॥ तदेतद् व्याचष्टे—तदिदमुपचयापचयेति ।
हि धूमदर्शनानुमितो वह्निः क्वचित् पर्वत1920 इत्यदृश्यमानेऽपि धूमे पर्वतत्वमात्रेण
पर्वतान्तरेऽपि वह्निमनुमिन्वते अनुमातार इत्यर्थः । शङ्कते—यत्रोपलब्धिरिति ।
क्षणिकत्वं पूर्वापरभागविकलकालकलामात्रावस्थायित्वम् । न च तादृशं क्षणिकत्वं
नैयायिकानां क्वचिदपि संमतमिति न सिद्धसाधनमित्यर्थः । निराकरोति—सत्यमिति ।
कस्मात् पुनरस्मदभिमतैव क्षणिकता न सिध्यत्युपचयापचयप्रबन्धदर्शनादित्यत
आह—उपचयापचयप्रबन्धदर्शनं चान्यथाभवदिति । चो हेत्वर्थः । शङ्कते—
तुल्यमिति । निराकरोति—नासाधनादिति । एकान्तनिश्चयं विना न साधनम्,
दूषणं तु सन्देहापादनेनापीति सोऽयं साधनदूषणयोर्विशेष इत्यर्थः ॥ ११ ॥


नोत्पत्तिविनाशकारणोपलब्धेः ॥ ३ । २ । १२ ॥


उत्तरसूत्रमवतारयति—अथावश्यं साधनं वक्तव्यमिति । नोत्प…ब्धेः ॥
उत्पत्तिविनाशकारणं ज्ञापकम् । अवयवोपचयापचयौ न क्षणिकपक्षे युज्येते निरन्वयो
त्पादविनाशयोरुपचयापचयप्रत्ययाभावादिति । उपचयापचयोत्पत्तिविनाश
कारणोपलब्धेरिति ।
उपचयापचयौ च तावुत्पत्तिविनाशकारणे चेति कर्मधारयः ।


उत्पत्तिविनाशकारणोपलब्धेरित्यस्य व्याख्यानान्तरमाह—अथ वा
कारणमिति ।
समवायिकारणं हि कार्यात् पूर्वं च कार्यकाले चेति लोकसिद्धम् ।
तच्चैतत् क्षणिकत्वेऽनुपपन्नमित्यर्थः । एककालानुभाविनी, अनुभवः प्राप्तिः
एककालप्राप्ते इत्यर्थः । भिन्नलोकमर्यादः शङ्कते—आधाराधेयभावस्येति ।
निराकरोति—नानेकान्तात् । भवतामपि राद्धान्ते रूपं सप्रतिघं कार्यमाधारवच्च1921
यदि तु रूपमप्यनाधारं मनुषे, ततस्ते स्वसिद्धान्तव्याकोप इत्याह—स्पर्शस्तदाश्रय
इति च व्याघात
इति । सर्वं तदेककालानुभावि सिद्धं भवतीति । शङ्कते—सिद्धः
504 कार्यकारणभावः क्षणिकेष्वपीति कार्यस्यानाधारत्वप्रसङ्गे । न हि क्षणिकत्वे
कार्यकारणभावो न सिध्यति । स तु सिद्धः क्षणिकत्वपक्षेऽपि कारणविनाश
समकालत्वेन कार्योत्पादस्य कार्यकारणयोः समानकालत्वादित्यर्थः । निराकरोति—
न हेत्वर्थापरिज्ञानादिति । एतावता प्रयासेन त्वया कार्यकारणभावः क्षणिकानां
समर्थ्यते । न चायमक्षणिकत्वे हेतुः । अपि त्वाधाराधेयभावः, स चायमशक्य
साधनः । को नु खल्वयं कारणविनाशः कारणाभावो वा, विनाशकारणसान्निध्यं वा ?
पूर्वस्मिन् कल्पे कार्यकारणयोः कुतः समानकालता ? उत्तरस्मिन्नप्युत्पन्नस्य पश्चाद्
विनाशकारणसान्निध्येऽपि कुतः सतः क्षणिकता ? न चोत्पद्यमानताविनश्यत्तयो
स्तुल्यकालत्वमनुभवविरोधात् । कार्यस्य च तदैवोत्पद्यमानत्वे कार्यकारणभावाभावः
सव्यदक्षिणशृङ्गवदिति भावः । अपि च दृष्टान्तोऽपि साध्यविकल इत्याह—
तुलाधारस्येति । ये अवयवकर्मणी नामोन्नामौ न तयोः कार्यकारणभावः, यत्
त्ववयविकर्म न तत्र यौगपद्यं नापि कार्यकारणभाव एकत्वादित्यर्थः । गुरुत्व
प्रयत्नसंयोगा उन्नतेरिति ।
विधारकः प्रयत्नस्तुलाधारस्य, तदपेक्षः संयोगः संयुक्त
संयोगो गुरुत्वं च तत्संयुक्तावयवान्तरवर्तिकारणमुन्नतेस्तुलावयवस्य, अवनतेरपि
द्रव्यं गुरुत्ववत्सुवर्णादि परिमीयमाणं तत्संयोगानुगृहीतो रज्जुतुलासंयोगः
कारणम् ॥ १२ ॥


क्षीरविनाशे कारणानुपलब्धिवद्दध्युत्पत्तिवच्च तदुपपत्तिः
॥ ३ । २ । १३ ॥


लिङ्गतो ग्रहणान्नानुपलब्धिः ॥ ३ । २ । १४ ॥


चोदयति—न नास्ति शीतोष्णस्पर्शभेदस्येति । परिहरति—स तु निमित्ता
न्तरादिति ।
पुनश्चोदयति—अप्तेजोऽवयवानुप्रवेशो न युक्त इति । स्वगता
महाभूतविशेषाः
तदवयवाः पृथिव्यादयः । ते हि परस्परतो विशिष्यन्त इति
505 विशेषाः । परिहरति—न युक्तमिति । यदि प्रतिक्षणमन्यत्वमात्रैण विशेषस्ततः
काष्ठक्षणानामपि भूम्यश्मलोहवद्विशेषोपलम्भः स्यात् । यथा हि काष्ठाक्षणादकस्माल्लो
हादिक्षणा भिद्यन्ते एवं काष्ठक्षणान्तराण्यपि । तस्मात् पार्थिवत्वेऽपि स्वमतौ
विशेषाविशेषावास्थेयौ1922 यतो भूम्यश्मादिभ्यो व्यावर्तन्ते, न व्यावर्तन्ते च
काष्ठक्षणान्तरेभ्यः काष्ठक्षणाः । तस्मादेव विशेषादक्षणिकत्वेऽपि काष्ठभूम्यश्मलोहाना
मुपपन्न उत्तरोत्तरो विशेष इति वृथा क्षणिकत्वकल्पनेति ।


असाधनं भूतस्वभावः क्षणिकत्वसिद्धावित्यर्थः । दूषणान्तरमाह—विरुद्ध
श्चायं हेतुः
उत्तरोत्तरविशेषदर्शनादिति । 1923भवतां किल भूतानामन्योन्यव्यावर्तकं
लक्षणं खरस्नेहोष्णेरणात्मकानि भूतानीति । खरा पृथिवी स्नेह उदकम् उष्णं तेजः
ईरणं समीरणो गतिमानिति यावत् । तथोत्पादे तु काष्ठ भूम्यश्मलोहानामङ्गीक्रियमाणे
एकमेव खरोष्णं1924 खरोष्णेरणात्मकं स्यादिति संकीर्णत्वाद् भूतलक्षणव्याघात इति ।
कठिनमिति खरां पृथिवीमुपलक्षयति । अस्मत्पक्षे तु न व्याघात इत्याह—यस्य
पुनरिति ।
न केवलं पृथिव्यादिलक्षणेन विरुध्यते, अपि तु शीतोष्णस्पर्शभेदेन
नानात्वस्य साधनेन पूर्वोक्तेनापीत्याह—विरुद्धश्चायमिति । पृच्छति—कथम् ?
उत्तरम्—एकस्य विशेषाभ्युपगमात् । येनैव विशेषेण 1925पूर्वं नानात्वमभ्युपगतं
शीतोष्णादिना भेदेन तेनैव संप्रत्येकत्वमपीत्यर्थः1926सिद्धान्तमभ्युपेत्येति पूर्वेण
हेतुना योऽभ्युपगतोऽर्थः, तद्विरोधितया विरुद्ध इत्यर्थः । शङ्कते—अथ मन्यसे न
विशेषमात्रमिति ।
मा भूद् रूपं सप्रतिधमुपादानमिति रूपस्यैकस्य नानात्वमिति
भावः । निराकरोति—नाभिप्रायेति । यस्त्ववयवानुप्रवेशे देशयेदुष्णजले वह्निस्पर्शवद्
रूपग्रहोऽपि स्यादयोगोलक इवेति तं प्रति एकदेशिमतेन परिहारमाह—जलेऽग्नि
रूपग्रहणप्रसङ्ग स्त्विति,
तद् दूषयति—तन्नेति । युक्तं यन्मध्यन्दिने
सवितृप्रकाशेनोल्वणेन मन्द उल्काप्रकाशोऽभिभूयते सजातीयत्वे सत्युल्वणत्वात् ।
506 तोयरूपं तु नोल्वणं न च सजातीयमभास्वरत्वात्, तेजसस्तु भास्वरत्वात्; तस्मा
न्नाभिभव इत्यर्थः । परमार्थपरिहारमाह—अपि तु तेजसश्चातुर्विध्यात् । किञ्चिदुद्
भूतरूपस्पर्शं तेजो भवति । यथासवितृप्रकाशः शरदि दिवा । किञ्चिदनूद्भूतरूपस्पर्शं
यथा चाक्षुषं तेजः । किञ्चिदुद्भूतरूपमनुद्भूतस्पर्शं च यथा प्रदीपप्रभायां तेजः ।
किञ्चिदनुद्भूतरूपमुद्भूतस्पर्शं यथा तोयगतं तेजः । यथा वा निशीथे निदाधसमये
तेजः, यतो मेदस्विनः स्विद्यन्तीति ।


प्रतिज्ञार्थं यथासंभवं विकल्प्य दूषयति—या चेयं प्रतिज्ञेति । अथ वर्तमानं
स्फटिकमभ्युपगम्य यदतीतं स्फटिकान्तरं
तत् पक्षीकृत्य वर्तमानात् तदन्यदिति
साध्यते ।
निराकरोति—एवं सतीति । यदि लिङ्गं स्वसत्ताज्ञानाभ्यां गमकं तदा
सत्यपि ज्ञानेऽतीतधर्मस्य सत्ता नास्तीति न गमक इति भावः । यदि पुनः
स्वज्ञानमात्रेण गमकं लिङ्गमुच्येत तदा दूषणान्तरमाह—वर्तमानाच्चेति ।


तद्विरोध्याश्रयविनाशानुविधानेन विनश्यन्तीति । विरोधीति गुणाभिप्रायम् ।
गुणो हि विरोधिना गुणान्तरेण विनाश्यते आश्रयविनाशेन चेति सर्वसाधारणम् ।
आश्रयग्रहणं चोपलक्षणार्थम् । तेनासमवायिनिमित्तकारणविनाशेनापि यथा
संभवमुन्नेतव्यमिति । शङ्कते—विनश्यदवस्थेति । मा भूत् प्रदीपो दृष्टान्तः,
विनश्यदवस्थे तु द्रव्ये कर्मोत्पन्नमुत्पत्त्यनन्तरमेवापवृज्यते अत ईदृशं कर्म दृष्टान्तो
भविष्यतीत्यर्थः । निराकरोति—नकर्मण इति । कर्मापलापनिबन्धनो ह्ययं क्षणिक
वादस्तदभ्युपगमे न भवितुमर्हति । स्थिराद् द्रव्यादागन्तुककर्मसहितादेव कार्योत्पादोप
पत्तेरिति । निराकरणान्तरमाह—अनभ्युपगमाच्चेति तादृशस्यापि कर्मणः क्षणिकत्व
स्यास्माभिः । तथा हि द्रव्यस्य विनश्यत्ता कर्मोत्पाद इत्येकः कालः । अथ द्रव्यस्य
विनाशः, न च कारणोत्पादसमये कार्योत्पाद इति द्रव्यविनाशानन्तरं कर्मनाश इति
सिद्धं क्षणद्वयावस्थानं कर्मण इति । शङ्कते—विनाशहेत्वभावादिति चेत् ?
अयमभिसन्धिः—स्वकारणादयं भावो विनश्वरस्वभावो वा जायतेऽविनश्वरस्वभावो
वा ? विनश्वरश्चेद्, विनाशं प्रति न हेतुमपेक्षेत । न हि नीलं स्वकारणादुत्पन्नं नीलत्वे
507 हेतुमपेक्षते तस्यैव ताद्रूप्यात् । अविनश्वरश्चेत्, तथापि नास्य हेतुशतैरपि शक्यो
विनाशः कर्तुम् । न हि नीलमुत्पन्नं पीतं शिल्पिशतेनापि शक्यं कर्तुम् । अपि चायं
विनाशो भावस्य कारणैराधीयमानो भावाद् भिन्नोऽभिन्नो वा जन्येत1927 । अभिन्नत्वे
भाव एवासाविति विनष्टोऽपि भावः प्राग्वदुपलब्ध्यर्थक्रिये कुर्यात् । न च भावाभावयोः
कारणभेदे सति संभवत्यभेदः । तन्तुसंयोगभेदेभ्यो हि पटो जायते तन्तुविमोक्षाद्1928
वा तन्तुविनाशाद् वा पटाभाव इति कारणभेदः । भावाभिन्नत्वे तु जायतामभावो
भावस्य किमायातम् ? न हि क्रमेलकोत्पादने पीलवो निवर्तन्ते । अभावेन भावस्तिरो
धीयते इति चेत् ? न, तिरोधानस्यापि भावादभेदे पूर्ववदुपलब्ध्यादिप्रसङ्गः । भेदेऽपि
तिरोधानस्यान्यस्योत्पादे अन्यस्य न किञ्चिदुत्पन्नं विनष्टं वेति भावतादवस्थ्या
दुपलब्ध्यादिप्रसङ्गः । अपि च यद् येषां ध्रुवभावि न तत्र तेषां हेत्वन्तरापेक्षा यथा
कृपाणस्यायोमयत्वे । ध्रुवभावी च कृतकानां भावानां नाश इति विरुद्धव्याप्तोप
लब्धिः । ध्रुवभाविता हि प्रतिषिध्यमानहेत्वन्तरापेक्षत्वविरुद्धतन्निरपेक्षत्वव्याप्तोप
लब्धा, सेह प्रतीयमाना निरपेक्षत्वमुपस्थापयन्ती हेत्वन्तरापेक्षितां प्रतिक्षिपति । ये हि
हेत्वन्तरापेक्षा न ते ध्रुवभाविनो यथा वाससि रागादयः कुसुम्भादिसंयोगसापेक्षा
नावश्यम्भाविन इति । तस्मादभावस्य सर्वोपाख्याविरहितस्य विकल्पितस्य
क्रियानुपपन्नेति । अभावं करोतिक्रियाया अभावेन संबन्धानुपपत्तेर्नञ्संबन्धो भावं
न करोतीति । यथाह—

न तस्य किञ्चिद् भवति न भवत्येव केवलम्

इति । तस्माद् विनाशकारणाभावादुत्पन्नमात्र एव भावो1929 विनश्यतीति सिद्धः क्षणभङ्ग
इति ।


तदेतन्निराकरोति—नविकल्पानुपपत्तेः । अयमभिसन्धिः । यत् तावद् विकल्पितं
स्वहेतुभ्यो भावा विनश्वरा, अविनश्वरा वा जायन्त इति तत्र ब्रूमः किं पुनरिदं
विनश्वरत्वं भावानामभिमतमायुष्मतः, किं विनाशस्वभावत्वम् आहो विनाशार्हत्वं
508 नित्येभ्यो व्यावृत्तं रूपम् ? न तावत् पूर्वः कल्पः परस्परपरिहारवतोर्भावतन्नाशयो
स्तादात्म्यानुपपत्तेः । तादात्म्ये च विनाशवद् भावोऽपि द्वितीयादिषु क्षणेषु वर्तेतेति
साधु क्षणिकत्वं समर्थितमत्रभवता भावानां नित्यत्वमुपपादयता । भावसमये वा
विनाशोऽपि भावात्मास्तीत्यत्यन्ताभावो भावस्य भवेदिति सुव्यवदातं1930 तत्त्वं भावानाम् ।
न च भाव एकक्षणस्थितिधर्मा नाशो द्वितीयादिक्षणेष्विति साम्प्रतम्, प्रथमद्वितीय
क्षणावच्छेदलक्षणविरुद्धधर्मसंसर्गेण भेदात् । द्वितीयं तु कल्पमनुमन्यामहे । नन्वेवं
विनाशार्हाश्चेद् भावाः स्वकारणादुत्पन्नाः, हन्तोदयानन्तरमेवापवृज्येरन् ? नापवृज्यन्ते ।
विनाशार्हा अपि पटादयस्तन्तुविनाशाद् वा तन्तुविमोक्षाद्1931 वा स्वकारणाधीनजन्मनो
विनङ्क्ष्यन्ति । न हि तण्डुलाः पचेलिमा इति विनैव दहनसलिलसंयोगप्रचयभेदं
विक्लिद्यन्ति । काष्ठानि वा भिदेलिमानीति कुठाराभिघातमन्तरेण दलन्ति । यो मन्यते
त एव तण्डुलाः पचेलिमा ये समर्थदहनोदकपिठरसहभुवः, तदनन्तरं हि पुलाकाः
प्रादुर्भवन्ति, यदनन्तरं तु न प्रादुर्भवन्ति न ते पचेलिमा इति । तस्योत्तरम् अक्षणि
कार्थक्रियामुपपादयन्तो वक्ष्यामः ।


तस्माद् विनश्वराणामुत्पत्तेः स्वकारणान्न विनाशकारणापेक्षा भावानामिति
युक्तम् । केवलं भावादन्यस्य नाशस्य कारणाभावं1932 ब्रुवाणः पर्यनुयोज्यो भवान्
किमकारणत्वात् नाशस्य नास्तित्वं रोचयते, किं वा नित्यताम् ? तत्रोक्तं साक्षाद्दूषणं
वार्त्तिककृता—भवतां शाक्यानांपक्षे अकारणंद्विधा, नित्यं व्योम शशविषाणादि
चात्यन्ततुच्छम् । अस्माकं तु नित्यमेव । भवदभिमतस्य तस्य तुच्छस्याभावस्या
नङ्गीकारादस्मदभिमतस्य तु भवद्भिरनङ्गीकृतत्वेन नास्तीत्यध्यारोप्य राशिरेक
उक्तः । उत्पन्नस्य विनाश इति सर्वजनीनं तद्विपरीतं भवत्पक्षे प्राप्नोति । नन्वस्तु
भावाभावयोः सहावस्थानं को दोष इत्यत आह—ततश्च भावानामिति ।
शङ्कते—अथाविनाशित्वादिति । प्रयोजनक्षतिरियं यदकारणत्वे विनाशस्यैष दोष
इति न तु दोषभयेन स्फुटतरप्रमाणबाधितं कारणवत्त्वं विनाशस्य शक्यमङ्गी
509 कर्तुमिति भावः । गूढाभिसन्धिः सिद्धान्ती पृच्छति—विनाशो न विनश्यतीति
कुत एतत् ?
चोदक आह—विनष्टानामिति । सिद्धान्ती बौद्धमतमालम्ब्याह—
हि विनाशाभावो भाव
इति । यस्य पटाभाव एव तुच्छस्तस्य तदभावे का कथा
तस्य तुच्छादपि तुच्छतरत्वादिति भावः । स्वमतमास्थायाह—अपि च विनाशः
कारणवांश्चेति ।
शेषं सुबोधम् । यदप्यकारणवत्त्वे1933 कारणमुक्तं भावाद् भिन्नश्चेदभावो
जन्येत भावतादवस्थ्यमिति, तत्रोच्यते—नाभावस्योत्पादे भावस्यापरा निवृत्तिः किं
त्वभावोत्पाद एव तन्निवृत्तिरिति । कथमन्यस्योत्पादेऽन्यस्य निवृत्तिः ? अत्र स्व
भावभेदैरुत्तरं वाच्यं ये परस्परपरिहारावस्थितयः ते स्वहेतुभ्यो जायन्ते । न हि
स्वतोऽन्यस्याङ्कुरस्य वह्निर्न कारणमित्यन्यत्वाविशेषाद् भस्मनोऽपि न कारणमिति ।
स्वभावभेदेन तु कार्यकारणभावनियमसमर्थनं परस्परपरिहारस्थितिनियमेऽपि तुल्यम् ।
यथा चोत्पादस्य पुरस्तादखिलसामर्थ्यरहितस्याङ्कुरप्रागभावस्योपकारं
कञ्चिदकुर्वन्तोऽपि बीजादयोऽङ्कुरमारभन्ते तदुत्पादस्यैव तत्प्रागभावनिवृत्ति
रूपत्वात् । एवं तदभावहेतवोऽपि भावरूपे अकिञ्चित्करा अपि तदभावमादधति1934
न चेद् भावरूपे किञ्चित्कृतं तदभावहेतुभिः । अथ भावः प्रागिव स्वाभावसमये
कस्मान्न 1935स्वरूपे उपलम्भार्थक्रिये करोति । अथोत्पादात् 1936प्रागिवोत्पन्नोऽप्यङ्कुरः
कस्मादुपलम्भार्थक्रिये करोति ? उत्पत्तेः प्रागङ्कुरो नासीत् तेन नाकार्षीदुत्पन्नस्त्वस्ति,
तस्मात् करोतीति चेत् ? हन्त भावोऽपि यदासीत् तदाकार्षीत्, इदानीं तु विनष्ट इति
नास्ति, तेन न करोति । यथा च भावोत्पाद एव तत्प्रागभावस्य नास्तिता एवम
भावोत्पत्तिरेव भावस्य नास्तिता । उपजनापायधर्मतया भावाद् अभेदो विनाशस्य
ततो न सदसद्रूपतया द्वैराश्यं विश्वस्येति चेत् ? कोऽयमुपजनः ? यदि
स्वकारणसमवायः सत्तासमवायो वा, सोऽभावे नास्ति । अथ स्वरूपप्रतिलम्भः,
तथापि तावन्मात्रस्य साम्येऽपि अवान्तरभेदेन द्वैराश्योपपत्तेः । तस्मात् यथा सत्त्वस्य1937
510 साम्येऽपि द्रव्यगुणकर्माणि तेन तेन तत्त्वेनान्योऽन्यस्य भिद्यन्ते, एवं
प्रमेयत्वाभिधेयत्वकार्यत्वकारणवत्त्वेनाविशेषेऽपि सद्भिः सहासतां सत्तातद्विरह
रूपभेदाद् भेद इति सिद्धम् । यापि ध्रुवभाविता विनाशस्य तत्र ब्रूमः ध्रुवभावित्वेन
विनाशस्य हेत्वन्तरानपेक्षत्वं ब्रुवाणो नाहेतुकत्वं वक्तुमर्हति हेत्वन्तरनिराकरणेन
हेतुना निराकरणात्1938 । विशेषनिषेधस्य शेषाभ्यनुज्ञानहेतुत्वात्1939 । अपि च
ध्रुवभावित्वमसिद्धमनैकान्तिकं वा । इदं भवान् पृष्टो व्याचष्टां किं घटसन्तानात्
सभागात् कपालसन्ततिर्ध्रुवभाविनी न वा ? न चेत् ? न विनाशोऽपि घटस्य
ध्रुवभावी । न खलु विसभागक्षणोत्पादनमन्तरेण घटविनाशमीक्षामहे मांस
चक्षुषः । तथा चासिद्धा ध्रुवभाविता विनाशस्य । अथ ध्रुवभाविनी, तस्यामेव तर्हि
विसभागसन्ततौ ध्रुवभाविन्यामपि मुद्गरादिहेत्वपेक्षेत्यनैकान्तिकं ध्रुवभावित्वं
नानपेक्षत्वेन व्याप्तमिति न हेत्वन्तरापेक्षित्वं निषेद्धुमर्हतीति । तदेतद् यश्चाकारणे
विनाशे दोषः स चापरिहार्य
इत्यनेन वार्त्तिकेन सूचितम् ।


एवं तावदन्यत्वे साध्ये दोष उक्त इति । यद्यपि क्षणिकत्वमपि पूर्वमुक्तं
दूषितं च तथापि क्षणिकत्वाभिधानं 1940तत्रान्यत्वपरमन्यत्वमेव तु तत्र प्रधानम् । इदानीं
तु क्षणिकत्वमेव प्रधानतया साध्यमित्येतावता प्रकरणभेद इति । विशेषणं
सिद्धान्तविरोधीति ।
1941यद्यनाशुविनाशिनोऽपि केचन भावा भवेयुः ततो
विशेषणमाशुविनाशिन इति कल्पेत, तथा च सिद्धान्तविरोध इत्यर्थः । मत्वर्थीय
इति । क्षणिक इति ।
अत इनिठनौ
इति मत्वर्थीयष्ठन् । अनन्तरेण विनाशेन विशिष्यमाण इति उपलक्ष्यमाणः ।
सर्वान्त्यं कालमिति । पूर्वापरभागविकलकालकलैकाज्योतिर्विद्यासिद्धा सर्वान्तः
काल इति संज्ञामात्रं न तु वास्तवम् । वास्तवी तु क्षणिकताभिमतेति ।


पक्षवचनं दूषयित्वा हेतुं दूषयति—येऽपि हेतव इति । अत्र आदिग्रहणेन
511 सत्त्वकृतकत्वादयः संगृहीता वेदितव्याः । तत्र यत् सत् तत् क्षणिकं यथा घटः । संश्च
विवादध्यासितः शब्दादिरिति स्वभावहेतुः सत्तामात्रानुबन्धित्वात् क्षणिकत्वस्य ।
कथं पुनः सत्तामात्रानुबन्धसिद्धिः क्षणिकतायाः ? उच्यते, सत्त्वं नामार्थक्रियाकारित्वं
भावानां नान्यत् । न ह्यस्ति संभवः संश्च भावो न चार्थक्रियाकारीति । तथा हि स
सार्वज्ञस्य विज्ञानस्यालम्बनप्रत्ययो भवेन्न वा ? न चेत् नास्ति, सर्वज्ञो वा न सर्वज्ञः
तस्यैवाज्ञानात् । आलम्बनप्रत्ययश्चेत् कथं नार्थक्रियाकारीति ? न च सत्तासामान्यं
नामास्ति किञ्चित्, नापि तत्समवायो यतः सन्नित्युच्यते । तत्सद्भावे वा न भवतां
सामान्यविशेषसमवायाः सन्तो भवेयुः, तेषां सामान्याधारत्वानभ्युपगमात् ।
प्रमाणग्राह्यतापि प्रमाणविषयता प्रमाणं प्रत्यालम्बनप्रत्ययत्वमेव । तच्चार्थक्रिया
कारित्वान्नान्यदिति सिद्धमर्थक्रियाकारित्वमेव सत्त्वमिति । तच्च क्रमाक्रमाभ्यां
व्याप्तं तृतीयप्रकारविरहात् । तथा हि भावानां तासु तास्वर्थक्रियासु क्रमाक्रमौ
परस्परपरिहारवन्तौ चकास्तः । तथा च क्रमाक्रमात्मकं प्रकारान्तरमपि यदीदृशा
भ्यामेवानुभूतावसिताभ्यां क्रमाक्रमाभ्यां करम्बितमङ्गीक्रियेत ततो दृश्यमानयोरपि
क्रमाक्रमयोः परस्परसंकरप्रसङ्गः । करम्बितावेव हि क्रमाक्रमाविमावपीति दृश्यमानः
क्रमोऽक्रमात्मकः, अक्रमश्च क्रमात्मकः प्रतिभासेत । न च तथा प्रतिभासते । एतेन
प्रत्यक्षमेव परस्परपरिहारवन्तौ क्रमाक्रमौ परिच्छिन्दत् सर्वत्रैवानयोः संकरं प्रतिक्षिपति ।
यदि हि क्वचिदप्यनयोस्तादात्म्यं भवेदिहापि तावेव क्रमाक्रमाविति संकीर्णौ
गृह्येयाताम् । तस्मात् अनयोरिह संकरानुपलम्भ एव देशान्तरे कालान्तरे च संकरं
निषेधति । तादात्म्यनिषेधे च दृश्यत्वविशेषणानपेक्षत्वादनुपलब्धेः1942 दृश्यमानस्तम्भ
तादात्म्येन स्वयमदृश्यानां पिशाचादीनां दृश्यानां च प्लवङ्गादीनामविशेषेण प्रतिषेधात् ।
यथाह—
विशेषणं चावाच्यम्
इति । अनेवंभूतक्रमयौगपद्यव्यतिकरवती1943 प्रकारान्तरे क्रमयौगपद्ये एव न भवतः ।
512 न हि शब्दाभेदेन वस्तुनोऽप्यभेदः । मा भूद् गोशब्दसामानाधिकरण्येन वागादीनामपि
विषाणित्वप्रसङ्गः ।


स्यादेतत् । मा भूतां क्रमयौगपद्ये अस्त्वन्य एव क्रमाक्रमाभिधानः क्रमयौग—
पद्याभ्यामन्यः प्रकारो यमास्थाय भावाः स्थिरा अप्यर्थक्रियायामुपयोक्ष्यन्ते, न त्वेषां
प्रकारान्तरवदर्थक्रियापि1944 पिशाचायमानैव । तथा चेत् किं नश्छिन्नम् ?
दृश्यमानास्त्वनुभूतावसिताः परस्परव्यावृत्तक्रमयौगपद्ययोरन्यतरप्रकारसमा
लिङ्गितशरीरा1945 अर्थक्रिया न प्रकारान्तराद् भवितुमीशते । न च प्रकारान्तरमपीति ।
तथा हि यत्र यत्प्रकारप्रतिषेधेन यदितरप्रकारव्यवस्थाननियमस्तत्र न प्रकारान्तर
संभवः । यथा नीलप्रकारनिषेधेनानीलप्रकारव्यवस्थायां पीते । अस्ति च क्रमयौग
पद्ययोः1946 अन्यतरप्रकारनिषेधेनान्यतरप्रकारव्यवस्थानियमो निषिध्यमानप्रकार
विषयीकृते सर्वत्र कार्यकारणे इति विरुद्धोपलब्धिः । निषिध्यमानप्रकारान्तर
संभवविरुद्धो हि द्वयोरन्यतरनिषेधेनान्यतरव्यवस्थाननियम इति प्रकारान्तरासंभवाद्
भावानामर्थक्रिया क्रमाक्रमाभ्यं व्याप्ता । तौ च स्थिरान्निवर्तमानावर्थक्रियामपि
व्यावर्तयतः, वृक्षतेव निवर्तमाना शिंशपात्वम् आराद्दृश्यमानादेकशिलामयाद्
भूभृत्कटकादिति प्रतिबन्धसिद्धिः । तथा हि न तावदक्षणिकः क्रमेणार्थक्रियां
कर्तुमर्हति । स्वेनैव हि रूपेण भावा अर्थक्रियासूपयुज्यमाना दृश्यन्ते । यतो यद्वस्तु
यत्कार्यान्वयव्यतिरेकानुविहितभावाभावं तद्वस्तु तत्कार्यप्रसव समर्थम् । रूपं च
तस्य कार्येणानुकृतान्वयव्यतिरेकमिति रूपमेव समर्थम् । तच्च द्वितीयादिषु क्षणेष्विव
प्रथमेऽपि क्षणे सदिति द्वितीयादिक्षणजन्यं कार्यकलापं प्रथम एव क्षणे निष्पादयेत्
समर्थस्य क्षेपायोगादिति नाक्षणिकस्य क्रमवद्व्यापारता युज्यते1947


स्यादेतत् । समर्थोऽपि क्रमवत्सहकारियोगात् क्रमेण करोतीति ? तदयुक्तं
विकल्पासहत्वात् । किमस्य सहकारिणः कञ्चिदुपकारमादधति न वा ? आदधाना
513 अपि भावाद् भिन्नमभिन्नं वा ? तत्र भिन्नोपकाराधाने भावे सत्यनुत्पत्तेरुपकारे च
सत्युत्पादात् । एवं कार्यस्योपकार एव जनको न जनको भावः । न चोपकारसहकारी
भाव एव कार्यस्य जनको नोपकारमात्रमिति वाच्यम्, उपकारस्योपकारान्तरजनने
अनवस्थापातात् । अजनने तु सहकारिभावाभावात् । अभिन्नोपकाराधाने च भाव एव
जन्येत ।1948 स च प्रागप्यासीदिति सहकारिवैयर्थ्यम् । अनुपकारकत्वे वा सहकारिणो
न भावेनापेक्षेरन्नित्युत्पन्नमात्र एव भावः कार्यमुत्पादयेत्, समर्थस्य क्षेपायोगात् । क्षेपे
वा न पश्चादपि कुर्यादविशेषात् । यदि मन्येत अनुपकारका अपि भवन्ति
सहकारिणो यतस्तैः सह भावः कार्यं करोति । न च भावेन नापेक्ष्यन्ते, तैर्विना
कार्यस्यानुत्पत्तेरिति । ननु स्वरूपेण चेत् कार्यजनको भावः, कस्मान्नैतानन्तरेण1949
जनयति, तेभ्यः प्रागपि स्वरूपसद्भावात् । सहकारिरूपेण वा जनकत्वे सहकारिण
एव जनका न जनको भावः । न चोभयभावाभावानुविधानादर्थक्रियाभावा
भावयोरेकैकस्माच्च1950 व्यभिचारादुभयाधीनतेति सांप्रतम्, भावे सत्यनुत्पादात् कार्यस्य
भावस्य व्यभिचारात्1951 चरमभाविनिमित्तसहकारिसमवधाने सति भावादेव
सहकारिसमवधानस्यैव चरमभाविनोऽव्यभिचारेण कारणत्वावधारणात् ।


एतेनैतन्निरस्तं भवति यदाहुरेके


स्वहेतोर्विलम्बकारी भावो जात इति नोत्पन्नमात्रः करोतीति ।

सा हि विलम्बकारिता अस्य स्वभावः सहकारिसमवधानसमयेऽप्यस्ति न
वा ? अस्ति चेत् तदापि न कुर्यात् । नास्ति चेत् कथं स्वभावविनाशे भावो न
नष्टः ? अथास्य विलम्बकारिता न स्वभावः, कथमुत्पन्नमात्रो न कार्यं कुर्यादिति ।
तस्मान्न क्रमेणार्थक्रिया भावानां नापि यौगपद्येन । तस्माद् यावत् कार्यं तेनाक्षणिकेन
प्रथमे क्षणे संपादितं तावत् सर्वं द्वितीयादिष्वपि क्षणेषु संपादयेत्, तावत्
कार्यसम्पादनस्वरूपस्य द्वितीयादिष्वपि क्षणेषु भावात् । न च सम्पादितं शक्य
514 सम्पादनमिति यद् द्वितीयादिषु क्षणेषु सम्पादयति तत् प्रथमक्षणे सम्पादितादन्यदिति
1952क्रम एवावर्तते । तथा चोक्तो दोषः । युगपत् कृतकृत्यस्य वा द्वितीयादिषु क्षणेषु
कर्तव्याभावान्नार्थक्रियासामर्थ्यमस्तीत्यसत्त्वेन क्षणिकत्वापत्तिः । तस्मादक्षणिके सत्त्वे
व्यापकयोः क्रमाक्रमयोरनुपलम्भाद् व्यापकानुपलब्ध्या निवर्तमानं सत्त्वमक्षणिकात्
क्षणिकत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः । नीलमेव चानुभूतावसितं
समारोपिताक्षणिकभावमक्षणिकं तादृशनीलस्वरूपोपलम्भ एव तत्राक्षणिके
क्रमयौगपद्यानुपलम्भः, यथा भूतलस्वरूपोपलम्भ एव समारोपितदृश्यत्वस्य
घटस्यानुपलम्भः । भूतलं च तथोत्पन्नं घटाभावः । न त्वभावो नाम कश्चिद्
विग्रहवानस्ति यः प्रतिपत्तिगोचरः स्यात्, अपि तु व्यवहर्तव्यः परम् ।


स्यादेतत् । क्षणिको भावोऽर्थक्रियाजनकस्वभावो न वा ? न चेत्, असन्नेव ।
तज्जननस्वभावश्चेत्, किमस्य सहकारिभिः ? उत्पन्नमात्रमेव बीजमङ्कुरं जनयेत् ।
ननूत्पन्नो बीजक्षणः समर्थो जनयेदेवाङ्कुरम् । कुतः पुनः समर्थस्योत्पत्तिः ? पूर्वस्माद्
बीजक्षणात् । तर्हि तत्सन्तानवर्तिनां सर्वेषां बीजत्वाविशेषादङ्कुरजननसामर्थ्यमिति
कुसुमानन्तरलब्धजन्ममात्रमेव बीजमङ्कुरं जनयेत् ? नैवम्, पूर्वपूर्वक्षितिबीज
पवनादिक्षणसमवधानोत्पन्नातिशयवदुत्तरोत्तरक्षणपरम्परालब्धजन्मा अन्त्यो
बीजक्षणः समर्थः समर्थक्षित्यादिलक्षणसहभूरनपेक्ष एवाङ्कुरं जनयति । न चास्य
क्षित्यादिसहभुवस्तदनपेक्षस्यापि तैर्विना कार्यकरणं तदेकसाग्यधीनस्य
तदभावेऽभावात् । न वा सहकारिता क्षित्यादीनां तैरेव सहाङ्कुरजननात्, तेषामपि
कार्यात् पूर्वभावस्य नियमतोऽविशेषात् तन्मात्रत्वादेव च कारणतायाः । न च
निरपेक्षाणामपि प्रत्येकं कार्यान्तरारम्भणं तन्मात्रस्य तेभ्य उपलब्धेस्तत्रैव
सामर्थ्यनियमात् । न च कृतकरणतयेतरेषामक्रिया सहक्रियायां कृतमित्यसम्भवात् ।
न च स्वकारणबललब्धसन्निधयो भावाः प्रेक्षावन्तः शक्यमिदमस्मास्वेकेनापि कर्तुं
कृतं नः सर्वेषां सन्निधानेनेत्यालोच्य निवर्तितुमीशते । न च स्वकारणभेदमात्रं
515 कार्यभेदहेतुः, अपि तु सामग्रीभेदः । तस्मिन् सति कार्यभेदोपलब्धेः अभिन्ना चेह1953
सामग्रीति न कार्यभेदप्रसङ्गः । परस्परसमवधानं चोपसर्पणप्रत्ययेभ्यः क्षित्यादीना
मिति । न च क्षणिकस्यार्थक्रियाविरोधादसाधारणता हेतोः । न च साध्यधर्मिणि
दृश्यमाने शब्दादौ व्याप्तिसाधनादेव साध्यसिद्धेरसाधनाङ्गं हेतुवचनम् । न खलु
सर्वोपसंहारवती व्याप्तिर्दृश्यमात्रविषया भवितुमर्हति । शक्यं हि शङ्कितुं परेणा
दृश्यमानानां सत्त्वमक्षणिकाद् न व्यावर्त्तितं त्वयेति सत्त्वमनैकान्तिकं क्षणिकत्वसाधन
इति । तस्माद् यद् दृश्यमदृश्यं वा तत् सर्वं क्षणिकमिति दर्शनीया व्याप्तिः ।


नन्वेवमपि शब्दादेर्विवादास्पदीभूतस्य व्याप्तिदर्शनबलादेव सिद्धा क्षणिकतेति
तदवस्थमेवासाधनाङ्गत्वं हेतुवचनस्य ? मैवम्, असत्यपि शशविषाणादौ यत्सद्
दृश्यमदृश्यं वा तत् सर्वं क्षणिकमिति, यथा सर्वोपसंहारवती व्याप्तिः । न च
शशविषाणादयोऽपि भवन्ति क्षणिकाः, एवं सत्यपि विवादास्पदीभूते शब्दादौ
व्याप्तिसिद्धावपि न सिध्यति क्षणिकतेत्यवश्यं 1954दर्शयितव्यमेतेषां क्षणिकत्वसाधनाय
सत्त्वमिति नासाधनाङ्गता हेतुवचनस्येति ।


अत्रोच्यते । न सत्त्वं क्षणभङ्गसिद्धावङ्गमसाधारणत्वात् सन्दिग्धव्यतिरेकित्वाद्
वा । 1955यथा हि क्रमाक्रमाभ्यां व्याप्तं सत्त्वं तदनुपलम्भेनाक्षणिकाद् व्यातर्वत एवं
तदेव 1956सापेक्षनिरपेक्षत्वाभ्यां व्याप्तं तदनुपलम्भेन क्षणिकादपि व्यावर्तते । तस्माद्
गन्धवत्त्ववदसाधारणं सदसाधनाङ्गम् । तथा हि अन्त्यक्षणप्राप्तानि क्षिति
पवनपाथस्तेजोबीजानि समर्थानि प्राग्भावनियतानि नियतचरमोत्पादाना
मवनिजलानलानिलाङ्कुराणां कारणं भवद्भिरभ्युपेयन्ते । तान्यमूनि परस्परानपेक्षाणि
वा जनयेयुः, सापेक्षाणि वा ? ननु निरपेक्षाण्येवान्त्यक्षणप्राप्तानि क्षित्यादीन्युत्तरस्मिन्
पुञ्जे जनयितव्य इत्युक्तम् । तत् किमनभ्युपगतविकल्पेन सापेक्षाणि निरपेक्षाणि
चेति । तत् किमिदानीं समर्थबीजक्षणजनकोऽपि बीजक्षणोऽनपेक्ष एव । ओमिति
516 चेत् ? नन्वेवं सर्व एव पूर्वबीजक्षणा निरपेक्षाः स्वकार्योपजनन इति कृतं
सहकारिभिः । ननूक्तं नैते प्रेक्षावन्तः, किं तु स्वप्रत्ययाधीननियतसन्निधयो न
क्षणमपि व्यवधेरीशत इति । तत् किमयं कृषीबलोऽपि न प्रेक्षावान् ? प्रेक्षावान्,
यतः प्रयत्नेन कुसूलादवतार्य बीजमावपति भूमौ परिकर्मितायां1957 क्षित्यादिसहभुव
एव बीजक्षणस्यातिशयोत्पादनपरम्पराया अङ्कुरप्रसवसामर्थ्यात् । कुसूलस्थात् तु
सहस्रेणापि वर्षैरङ्कुरानुत्पादात् तत्रावपतीति चेत् ? अथ किमयं न स्वसन्तानमात्रप्रभवः
समर्थो बीजक्षणः ? तथा चेत् कथं सन्तानान्तरं नापेक्षेत स्वकार्ये । नन्वपेक्षत एव,
किं तु स्वोत्पादे न पुनः स्वकार्ये । तत्र चास्यानपेक्षत्वमुपेयते, न तु स्वोत्पादे ।
ननूत्पत्तावप्यस्य जागर्ति स्वसन्तानवर्ती पूर्व एव निरपेक्षः । एवं तस्य तस्य पूर्वः
पूर्वः क्षणसन्ततिपतित एवानपेक्षो जागर्त्युपजनन इति कुसूलनिहितबीज एव स्यात्
कृती कृषीबलः, कृतमस्य कृषिकर्मणा दुःखबहुलेन । तस्मात् परस्परा
पेक्षाणामेवान्त्यक्षणप्राप्तानां कार्यजनकत्वमकामेनाप्युपेयम्1958 । अपि चान्त्यक्षणप्राप्तं
बीजमनपेक्ष्य अङ्कुरावनिपवनपाथस्तेजांसि जनयत् किं येनैव रूपेणाङ्कुर जनयति
तेनैव तदितराण्यपि ? किं वा रूपान्तरेण ? न तावत् तेनैव, क्षित्यादीना
मङ्कुरस्वाभाव्यापत्तेः । न खलु भवतां कारणाभेदे भेदवत्कार्यं भवितुमर्हति, कार्य
भेस्याकस्मिकत्वप्रसङ्गात् । यथोक्तं भवद्भिरेव

अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्च

इति । नापि सामग्रीभेदः, तस्या अप्यभेदात् । अन्यथा सहभावनियमाभावात् ।
स्वकारणादासादितः कश्चिदेव स्वभावभेद एकस्तादृशो यस्मान्नानाकार्याणि जायन्ते ।
तस्मान्नाकस्मिकत्वं कार्यनानात्वस्य नाप्यतिप्रसङ्गः तादृशस्य तस्यासार्वत्रिकत्वात् ।
न च कार्यकारणयोरभेदो येन कारणभेदाभेदावनुपतेतां कार्यभेदाभेदौ । तस्माद् यथा
केभ्यश्चिदेव बहुभ्यः कार्यमेकं जायते तथैकस्मादेव कुतश्चिद् बहूनि जनिष्यन्ते1959
कार्याणीति चेत् ? मुधैव तर्हि नानादेशवृत्तिरेकोऽवयविसामान्यसंयोगादिरर्थस्तपस्वी
517 भवता आयासितः1960 । न हि नानात्वेऽपि देशानां तदाश्रितः सामान्यादिरर्थो नाना
भवितुमर्हति, तस्य तेभ्योऽभिन्नत्वात्1961 । रूपान्तरेण बीजमङ्कुरादितरेषां क्षित्यादीनां
जनकम् । तथा हि बीजमङ्कुरस्योपादानं तत्सारभागाविक्रिययाङ्कुरस्योत्पत्तेः ।
क्षित्यादिषु तु जनयितव्येषु सहकारि, पूर्वे तु क्षित्यादयः क्षित्यादीनां यथास्वमु
पादानानि तद्विक्रियया तदुत्पत्तेरिति चेत् ? अथ सहकारितोपादानते किमेकं तत्त्वं
नाना वा ? एकं चेत्, कथं रूपान्तरेण जनकम् ? नानात्वे त्वनयोर्बीजाद् भेदोऽभेदो
वा ? भेदे कथं बीजस्य जनकत्वं ताभ्यामेवाङ्कुरादीनामुत्पत्तेः ? अभेदे वा कथं न भेदो
बीजस्य भिन्नतादात्म्यात् । 1962एतयोर्वा कथं नाभेदो भिन्नार्थतादात्म्यात् । तस्मादङ्कुराद्
भिन्ने क्षित्यादौ जनयितव्ये तदुपादानं पूर्वमेव क्षित्यादिसमसमयभावि बीजेनापेक्ष्यते ।
एवं बीजमपि समसमयभाव्येव सहकारिकारणं क्षित्यादिभिरपेक्ष्यते । नान्यथा
कार्यभेदसिद्धिरित्यनिच्छताप्यभ्युपेतव्यम् । न चानुपकारकमपेक्षागोचर इति च
भवद्भिरेवोपपादितम् । न च क्षणस्योपकारकत्वसम्भवोऽन्यत्र जननात् तस्या
भेद्यत्वात् । न च समसमयभाविनोर्जन्यजनकत्वमस्ति सव्येतरगोविषाणयोरिव ।
तस्मात् स्वसन्तानमात्रादेव कार्योत्पादप्रसङ्गात् कार्यभेदानुपपत्तेश्चानुपकारिण्य
पेक्षाविरहाच्च क्षणिकस्यापि सापेक्षस्यानपेक्षस्य वा नार्थक्रिया सम्भविनीत्य
साधारणसत्त्वं न क्षणभङ्गसिद्धावङ्गम् ।


अथ मा भूदसाधारणता सत्त्वस्येत्यनुपकारकेष्वपि कार्यकरणायापेक्षाभ्युपेयते,
तेषामपि कार्येणानुकृतान्वयव्यतिरेकत्वात् । न त्वनेन क्रमेणाक्षणिकोऽपि भावोऽनुप
कारकानपि सहकारिणः क्रमवतः क्रमवतैव कार्येणानुकृतान्वयव्यतिरेकानपेक्षिष्यते ।
करिष्यते च क्रमवत्सहकारिवशः क्रमेण कार्याणि । समर्थस्यापि चापेक्षणीयासन्निधेः
कार्यक्षेप उपपत्स्यते । न चैतावता सहकारिसमवधानादेवोत्पत्तिमतः कार्यसिद्धिः,
कृतमेषां रूपेणेति वाच्यम्, तत्सहितादेव तत उत्पत्तिदर्शनात्, रूपे सत्यप्यनुत्पादात् ।
समवधाने तु सत्युत्पादादेव कार्यस्य समवधानमेव हेतुः, न पुना रूपमपीति चेत् ?
518 तत् किमिदानीं रासभादितुल्यता बीजरूपस्य ? ओमिति चेत् ? अथ कस्मात्
गर्दभादीनन्तरेणेव बीजरूपं विनापि नाङ्कुरो जायते । तत्समवधानस्य तत्कारणत्वादिति
चेत् ? तत्समवधानस्य च कारणत्वे1963 कथं तन्निवेशि रूपमपि न कारणम् । न चावर्ज
नीयतया तन्निवेशः समवधानमात्रस्य बीजादिरूपमन्तरेणापि तत्र तत्र भावात् ।
विशेषस्तु समवधानस्य1964 रूपमेव बीजादीनाम् । तस्माद् यथोभयाधीननिरूपणा
व्याप्तिरयोगव्यवच्छेदेन व्यापके निरूप्यते, व्याप्ये भाव एव व्यापकस्य नाभाव इति
व्याप्ये पुनरन्ययोगव्यवच्छेदेन व्यापक एव भावो व्याप्यस्य नान्यत्रेति । एवं कार्य
कारणभावोऽप्युभयाधीननिरूपणोऽपि कारणे अयोगव्यवच्छेदेन निरूप्यते । कार्यो
त्पादस्य पुरस्ताद् भाव एव कारणस्य नाभाव इति । कार्ये पुनरयोगव्यवच्छेदेन,
कारण एव सति भावो नान्यस्मिन्निति अनुभवानुसारान्निश्चीयते । तथैव लौकिक
परीक्षकाणां संप्रतिपत्तेः । न च कारणतैव सत्ता किं तु स्वरूपं नीलादेरनुभूतावसितम्,
तद्धि तेनैव रूपेण स्वाभावव्यवच्छिन्नं तासु तास्वर्थक्रिसूपयुज्यते, न पुनरर्थ
क्रियाकारितैव स्वरूपम् । मा भूदनेकार्थक्रियाकारिणोऽपर्यायेण रूपभेदः । तस्माद्
यद्यस्ति सर्वज्ञस्ततः स्वरूपेणैव सन् भावस्तज्ज्ञानस्यालम्बनप्रत्ययो भविष्यति ।
अथ तु नास्ति तथापि सद्रूपो1965 जनित्वा आपाततोऽकिञ्चित्करोऽपि पश्चात्
कुतश्चिन्निमित्तादासाद्य सहकारिप्रत्ययान् तासु तास्वर्थाक्रियासूपयोक्ष्यते । तत्
सिद्धमेतत् 1966क्षणिकस्यापि क्रमाक्रमाभ्यां यथायोगमर्थक्रियोपपत्तेर्व्यापका
नुपलब्धेरसिद्धेः सन्दिग्धव्यतिरेकमनैकान्तिकं सत्त्वं शाक्यानां क्षणिकत्वे साध्ये
भावानाम् । अस्माकं त्वन्यथासिद्धमसिद्धप्रभेद एवेति । न च जनकत्वाजनकत्व
लक्षणविरुद्धधर्मसंसर्गो नानात्वे हेतुर्भवितुमर्हति । जनकत्वं नाम न वस्तुस्वभावोऽपि
तु तद्धर्मः । धर्मश्च धर्मिणो वस्तुतो भिद्यते । न चान्यस्य भेदोऽन्यस्य भेदायाल
मतिप्रसङ्गात् । अन्यत्वाविशेषे कथं तस्यैव धर्म इति चेत् ? अत्र वस्तुस्वभावैरेवोत्तरं
वाच्यम् । यथान्यत्वाविशेषेऽपि
519 कार्यं धूमो हुतभुजः
एव, न बीजस्येत्युक्तम् । न च कृतकत्वमपि क्षणिकत्वे हेतुरन्यथासिद्धेः सहेतुकेऽपि
विनाशे तदुपपत्तेश्च । न चोत्पत्तिविनाशयोस्तादात्म्यं भावस्यात्यन्ताभावप्रसङ्गा
दित्युक्तम् । तदिदमुक्तं वार्त्तिककृता—तेऽप्यसिद्धा वान्यथासिद्धा वा विरुद्धा
वा भवन्तीत्यहेतव
इति । अन्त्यक्षणविशेषदर्शनं पूर्वक्षणधर्मत्वेनासिद्धत्वादसिद्धम् ।
सत्त्वकृतकत्वे अन्यथासिद्धे, विरुद्धत्वं च सर्वस्यैव हेतोः क्षणिकत्वे साध्ये । तथा
हि सत्त्वं कृतकत्वं वा त्रैलोक्यव्यावृत्ततयाननुगतं देशतः कालतो वा न साधनं
तस्याशक्याविनाभावज्ञानतया लिङ्गभावाभावात् । अन्वयमुखेन व्यतिरेकमुखेन वा
अविनाभावग्रहस्यैकस्मिन् क्षणेऽशक्यत्वात् । तस्माद् देशकालानुगतं सत्त्वं कृत
कत्वमन्यद् वा हेतूकर्तव्यम् । तच्च विधिरूपं वा भवत्वन्यव्यावृत्तिरूपं वा नाना
कालमेकमक्षणिकं क्षणिकत्वेन स्वसाध्येन विरुध्यत इत्युक्तम्—विरुद्धा वेति ।
अन्ते विशेषदर्शनादित्यस्य तु विरुद्धत्वमनन्तरं वक्ष्यति । उपेत्य विशेषवत्त्वस्य1967
सिद्धत्वमनैकान्तिकत्वमाह—उपेत्य वेति । हेतोरसिद्धत्वविरुद्धत्वे दर्शयितुमाह—
अन्ते विशेषेति ।


दर्शनादर्शनलक्षणस्य हेतोरन्यथासिद्धतेत्याह—योऽप्ययं हेतुरिति ।


भावाभावयोस्तद्वत्त्वादिति । संयोगभावाभावयोरिह बुद्धेर्भावाभाववत्त्वात्1968


प्रदीपस्य देशान्तरे उत्पाद इति, एतदपि न बुध्यामह इति । क्षणिकस्य
प्रदीपस्य यदि 1969स्वसन्तानमात्रप्रतिबद्धं देशान्तरे कार्योत्पादकत्वं ततः सर्व एव
प्रदीपक्षणा देशान्तरे प्रदीपमुत्पादयेयुः, न केचन प्रघनोदर एवेति । अथोपसर्पण
प्रत्ययवशात् प्रघनोदरादन्यत्रापि कार्यमुत्पादयन्ति ? ननूपसर्पणप्रत्ययः प्रदीपे कञ्चिदु
पकारमाधत्ते न वा ? न तावदाधत्ते क्षणस्याभेद्यत्वेनोपकृतानुपकृतत्वासंभवात् ।
अनाधाने च सहकारिभावाभावात् । अनुपकारकस्य सहकारित्वेऽतिप्रसङ्गादिति
भवतामेव गिरः । न च विशिष्टप्रदीपक्षणजननमेवोपकारः सहकारिणां तस्य
520 पूर्वस्मादेवोपादानादुपपत्तेः सहकार्यनपेक्षणात् । न खलु तस्येव तत्कारणस्याप्युप
कारकाः1970 सहकारिणो भवितुमर्हन्ति । एवं पूर्वेषामपि प्रदीपक्षणानां तत्पूर्वपूर्व
प्रदीपक्षणमात्रसामर्थ्यभुवा न सहकारिणा किञ्चिदाधीयत इति सर्व एवैकस्मिन्
प्रघाने1971 कार्यं कुर्युः, देशान्तरे वा । यदि पुनरनुपकारिणोऽपि कार्यानुविहितभावाभावतया
क्षणिकेन प्रदीपेन कार्यक्रियां प्रत्यपेक्षन्ते तदक्षणिकपक्षेऽपि तुल्यमित्यभिप्रायः1972
विपञ्चितं चैतदस्माभिः ब्रह्यतत्त्वसमीक्षान्यायकणिकाभ्यामित्युपरम्यते ।


न किलाकाशे पततो लोष्टादेरिति । लोष्टश्येनादेस्तुल्यानां गुरुत्ववतां
द्रव्याणामेकस्य गुरुत्वप्रयत्नक्षेपाः कारणम् । तथा हि सौधस्योपरिस्थितेन पुरुषेण
भूमौ चरन्तं पारावतमुद्दिश्य यदाधःश्येनः क्षिप्यते तदा श्येनस्य पारावतजिघृक्षाजनितः
प्रयत्नश्च गुरुत्वं च क्षेपश्चाशुतरपतनहेतवः । अक्षिप्तस्य तु गुरुत्वप्रयत्नावाशुपतनहेतू ।
अप्रयतमानस्य गुरुत्वमात्रं पतनहेतुरिति । औलूक्यमतेऽपि न दोष इत्यत
आह—एकश्च संस्कार इति ।


अयुगपत्कालाः प्रत्यया एकविषया इत्युच्यमाने घटपटादिप्रत्ययाः प्रदीपा
दिप्रत्ययाश्च क्रमवन्त एकविषयाः प्रसज्येरन्नित्यत आह—विप्रतिपन्ना इति ।
समानशब्दवाच्यत्वादित्यनेकान्तः । संभवन्ति हि समानशब्दवाच्याः प्रत्ययाः अक्षोऽक्ष
इति । न च समानविषयाः देवनादीनां तद्विषयाणां भेदादत आह—तत्प्रत्यय
सामानाधिकरण्ये सतीति ।
तथापि प्रदीपप्रत्ययैरेवानेकान्त इत्यत आह—
अव्युत्थायीति । व्युत्थातुं भ्रमितुं शीलमस्येति व्युत्थायि भ्रान्तमिति यावत् ।
अभ्रान्तत्वं चास्य क्षणिकत्वसाधननिराकरणेन द्रष्टव्यम् । अव्युत्थायितत्प्रत्यय
सामानाधिकरण्येनैव सिद्धे समानशब्दवाच्यत्वं प्रपञ्चः ॥ १४ ॥


न पयसः परिणामगुणान्तरप्रादुर्भावात् ॥ ३ । २ । १५ ॥


521

भाष्यम्—गुणान्तरप्रादुर्भाव इति । द्रव्यं तावत् सदेव, गुणोऽपि सन्
केवलमनुद्भूत आसीत् । एकश्चोद्भूतो गुणः । तत्र य 1973उद्भूतः स तिरोभवति ।
तिरोभूतश्चोद्भवति । पूर्वगुणस्य निवृत्तौ तिरोभूतौ गुणान्तरमुत्पद्यते उद्भवती
त्यर्थः ॥ १५ ॥


व्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम्
॥ ३ । २ । १६ ॥


अत्र तु प्रतिषेध इति । क्षीरावयवा एव हि क्षीरविनाशे सत्युत्पन्नपाकजा
1974दधिलक्षणं द्रव्यमुत्पादयन्ति । यदि तु सर्वं कार्यं सदेव कारणव्यापारात् प्रागपि,
व्यर्थः कारणव्यापारः, अभिव्यक्तेरपि कार्यायाः सत्त्वात् । असत्त्वे वा यथा सैव न
सती क्रियते, एवं कार्यान्तराण्यपीति । विपञ्चितं चैतदस्माभिः न्यायकणि
कायाम्
॥ १६ ॥


क्वचिद् विनाशकारणानुपलब्धेः क्वचिच्चोपलब्धेरनेकान्तः ॥
३ । २ । १७ ॥


अभ्यनुज्ञाय च निष्कारणमिति । विनाशोत्पादवत्त्वात् समानधर्मात्
संशयः । दधिक्षीरयोर्विनाशोत्पादावकारणौ दृष्टौ कुम्भस्य चोत्पादविनाशौ सकारणकौ ।
तदिह स्फटिके विनाशोत्पादौ सकारणौ निष्कारणौ वेति सन्देहः । तद् यदि
सकारणावेवेति प्रमाणतो निश्चीयते, ततो विनाशकारणानुपलब्धेः स्फटिकस्य
कुम्भवद्विनाशो नास्तीति निश्चीयते । तदिदमुक्तं भाष्यकारेण—न पुनर्यथा
विनाशकारणाभावादिति ।


निरधिष्ठानं चेति । धर्मिणमाश्रित्य तत्समानधर्मा दृष्टान्तो भवति । स्फटिकोत्पाद
522 विनाशौ च धर्मिणौ । तत्समानधर्मतया क्षीरदधिविनाशोत्पादयोर्दृष्टान्तत्वेन भवितव्यम् ।
न पुनः स्फटिकोत्पादविनाशौ धर्मिणौ गृह्येते । तस्मान्न तत्समानधर्मतया दृष्टान्तौ
भवत इति । 1975अभ्यनुज्ञाय च स्फटिकोत्पादविनाशौ इति । कुम्भो दृष्टान्तः
प्रामाणिकत्वात् । न तु दधिक्षीरविनाशोत्पादौ तयोरकारणत्वस्य सकारणत्वग्राहिणा
प्रमाणेनापास्तत्वादित्यर्थः1976 । यदि तु द्रव्यसमवायादित्युच्येत ततस्तोयादिपरमाणुसमवेतै
रूपादिभिरनेकान्तः स्यादित्यत आह—व्यापकेति । तथाप्यात्मत्वसामान्येनाने
कान्तोऽत आह—गुणत्वे सतीति । तथाप्यात्मसामान्येनानेकान्तः1977, अत आह—
गुणत्वे सतीति । तथाप्यात्मपरिमाणेनानेकान्तोऽत आह—प्रत्यक्षतयेति । अस्मदा
दीनामिति शेषः । गुणत्वादिविशेषणयोगात् प्राग् व्यापकग्रहणस्योपयोगः । अस्मदादि
प्रत्यक्षत्वादित्युच्यमाने सामान्यसमवायाभ्यामनेकान्तः स्यादित्यत आह—जातिमत्त्वे
सतीति । आश्रितत्वादि
त्यत्रापि जातिमत्त्वे सति प्रत्यक्षत्वे चेत्यनुषञ्जनीयम् ।
अनित्या बुद्धिः प्रत्यक्षत्वादित्युच्यमाने मनसा व्यभिचारोऽत आह—अयोगीति ।
तथाप्यात्मना व्यभिचारोऽत उक्तं करणभावे सतीति । हानादिबुद्धौ बुद्धिः करणं
भवति । शब्दश्चार्थप्रत्यये करणम् । अत्रापि जातिमत्त्वे सतीत्यनुषंक्तव्यम्, तेन न
गन्धत्वादिभिरनेकान्तः ॥ १७ ॥


॥ इति क्षणभङ्गप्रकरणम् ॥

  1. बौद्धैर्यत् सांख्यराद्धान्ते दूषणमुक्तं C

  2. °मान इतीदममृष्यमाणः C

  3. प्रवर्ततेC

  4. अभिधर्मकोशः १॑२९

  5. स्वतो विशेषावा°C

  6. अभिधर्मकोशे १॑१२

  7. खरोष्णेC

  8. पूर्वस्मात्C

  9. °त्येकत्वाभ्युपगमादित्यर्थःC

  10. जायतेC

  11. °वियोगाद्C

  12. उत्पन्न एवाभावोC

  13. सुष्ठ्वव°C

  14. °विभागाद्C

  15. भावादन्यदकारणंC

  16. कारणत्वेC

  17. °मारभन्तेC

  18. स्वरूपोप°C

  19. प्रागप्युत्प°C

  20. सत्त्वेनJ

  21. हेतुमात्रानि°J

  22. °नुज्ञाफलकत्वात्C

  23. तवान्यपरम्C

  24. °शुतरविनाशि°J

  25. °विशेषणादनुप°C

  26. °व्यतिरेक°C

  27. °न्तरवत् किमर्थक्रि°J

  28. °पद्यरूपप्रकारद्वयसमालिङ्गितरूपाःC


  29. तयोः
    C

  30. प्रसज्यतेC

  31. जनयेत्C

  32. न कस्मान्नेमान°C

  33. °रेकस्माच्चC

  34. कार्यस्य
    व्यभिचारेण
    C

  35. क्रमा एवावर्तन्त इति तत्र चो°C

  36. भेद°C

  37. °कता तेनावश्यंC

  38. तथाC

  39. सापेक्षत्वानपे°C

  40. °कर्षितायांC

  41. °भ्युपेयम्J

  42. जनयिष्यन्तेC

  43. अपासितःC

  44. भिन्न°J

  45. तयोर्वैकरूपत्वमेव तादा°C

  46. °वधाने कारणेC

  47. °धानेC

  48. तद्रूपःC

  49. अक्षणिक°J

  50. °वत्त्वेC

  51. °र्भाववत्त्वादि°C

  52. सन्तानमात्रप्रभवत्वं निबद्धंC

  53. °स्याप्यनुपकार° J

  54. प्रधाने C

  55. °मिति संक्षेपः C

  56. उद्भूतस्तिरोभवतिC

  57. विलक्षणंC

  58. J पुस्तक एव

  59. J पुस्तक एव

  60. °त्मपरिमाणेना°C