बुद्धेरात्मगुणत्वप्रकरणम्


नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानात् ॥ ३ । २ । १८ ॥


चिन्तान्तरमवतारयति—इदं तु चिन्त्यत इति । नन्वात्मपरीक्षायामात्मगुणत्वं
बुद्धेर्व्यवस्थापितं तत् कस्मात् पुनः परीक्ष्यत इत्यत आह भाष्यकारः—प्रसिद्धोऽ
523 पीति ।
यद्यप्ययमर्थः परीक्षितः, तथाप्यवान्तरविशेषपरिज्ञापनार्थं पुनः परीक्षत
इत्यर्थः । चोदयति बार्त्तिककारः—न गुणेति ॥ परिहरति—अनित्यत्वे सतीति ।
विमृश्य सिद्धान्ती पक्षं गृह्णाति—सन्निकर्षोत्पत्तेरिति । नेन्द्रि…नात् ॥
चोदयति—अद्राक्षमित्येतन्नेति । परिहरति—स्मृतावपीति ॥ १८ ॥


युगपज्ज्ञेयानुपलब्धेश्च न मनसः ॥ ३ । २ । १९ ॥


देशयति—अस्तु तर्हीति । युग…सः ॥ परिहरति—युगपदिति । यत्
करणत्वेनानुमितं तत् करणत्वमपोद्य न कर्तृ भवितुमर्हतीत्यर्थः । युगपज्ज्ञेयानुप
लब्ध्या यत् समधिगतमिति भाष्य
माक्षिपति—विशेषणोपादानादिति ।
समाधत्ते—न सर्वस्येति । पुनराक्षिपति—एवमपीति । विशिष्टस्य करणस्य
ज्ञानगुणत्वनिषेधः करणान्तरस्य ज्ञानगुणत्वमापादयति, न चात्मा करणमित्यर्थः ।
समाधत्ते—अन्यस्योपपत्तेरिति । एतदेव विवृणोति—अनवस्थितत्वादिति । प्रमातैव
कदाचित् प्रमाणं कदाचित् प्रमेयमित्यर्थः । पुरुषान्तरेण पुरुषान्तरं परिच्छिनत्तीति ।
यादृशोऽयं पुरुषः, तादृशोऽयमपीति पुरुषान्तरेण प्रसिद्धेन पुरुषान्तरपरिच्छेद इति ।
पृच्छति—यदि न तस्य करणस्य, कस्य तर्हीति । उत्तरम्—ज्ञस्य वशीत्वात् । कर्तुः
स्वातन्त्र्यादित्यर्थः । कर्तृकरणादिसमवधाने हि चैतन्यं कर्तर्येव दृष्टं न करणादौ यथा
मृद्दण्डचक्रसलिलसूत्रकुलालसमवधाने कर्तुरेव कुलालस्य न तु मृदादीनामिति ।
वशीज्ञाता, वश्यं करणमिति भाष्यम् । तदनुपपन्नम्, ज्ञातुरपि क्वचिद्, वश्यत्वदर्शनात्,
यथा देवदत्तं कटं कारयति यज्ञदत्त इत्यत आह—न चायं ज्ञातरीति । यदि तु
कश्चित् ज्ञानगुणं मन इच्छेत् तं प्रति भाष्यम्—ज्ञानगुणत्वे चेति1978
घ्राणादिसाधनस्येति भाष्यं
व्याचष्टे—यथा ज्ञातुरिति । तथा च मन्तुर्मतिसाधनं
यत् तन्मनः करणम् । अथ तदपि कस्माच्चेतनं न भवतीत्यत आह—उभयोरिति ।
524 विभु चान्तःकरणं ज्ञानगुणम्
अन्तःकरणान्तररहितमिति शेषः । विकरण
धर्मेति भाष्यम् ।
विशिष्टं करणं धर्मो यस्य स विकरणधर्मा अस्मदादिकरण
विलक्षणकरणो येन व्यवहितविप्रकृष्टसूक्ष्मादिवेदी भवतीत्यर्थ ॥ १९ ॥


तदात्मगुणत्वेऽपि तुल्यम् ॥ ३ । २ । २० ॥


अणु1979 मनोऽन्तःकरणमपश्यंश्चोदयति—तदात्मगुणत्वेऽपीति ॥ २० ॥


इन्द्रियैर्मनसः सन्निकर्षाभावात्तदनुत्पत्तिः ॥ ३ । २ । २१ ॥


परिहरति—न प्रसङ्ग इति ॥ २१ ॥


नोत्पत्तिकारणानपदेशात् ॥ ३ । २ । २२ ॥


यदि पुनरित्यादि भाष्यं पूरयित्वा व्याचष्टे—यदि पुनरिति । नोत्प…शात् ॥
नोत्पत्तीति ।
नात्र प्रमाणमपदिश्यते प्रत्युत बाधकं प्रमाणमस्तीत्यर्थः । व्याख्या
नान्तरमाह—अयुगपदुत्पत्तौ वेति । व्याख्यानान्तरमाह—विदेहेति । शरीरवृत्तित्वे
हि मनसः सर्वं ज्ञानं शरीरायतनस्यात्मनो भवेत् । यदा तु मन एव नास्ति
तदेन्द्रियार्थसन्निकर्षस्यात्मनश्च शरीराद् बहिरपि भावाद् विदेहप्रत्ययोत्पादप्रसङ्ग
इति । अन्तःकरणप्रत्याख्याने चेति । यदि सर्वाण्यपि ज्ञानानि न युगपदुपजायन्ते,
तथापि स्मृतीनामवश्यं युगपदुत्पादप्रसङ्ग इति पूर्वस्मादस्य विशेषः ।
व्याख्यानान्तरमाह—यदा चेन्द्रियमात्मा चार्थेन युगपत्संबद्धाविति । असति
525 इन्द्रियमनःसन्निकर्षे व्यभिचारिणां कारणत्वकल्पनायां विनिगमनाहेतोरभावा
दिति भावः ॥ २२ ॥


विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ॥ ३ । २ । २३ ॥


अत्र पूर्वपक्षसूत्रे चकारः पूर्वपूर्वपक्षसूत्रापेक्षयेत्याह—तदात्मगुणत्व इति ।
अतः परस्य निगद एव व्याख्यानम् ॥ २३ ॥


अनित्यत्वग्रहणाद्बुद्धेर्बुद्ध्यन्तराद्विनाशः शब्दवत् ॥ ३ । २ । २४ ॥


यदनन्तरमपवृज्यते पुरुषः सा अन्त्या बुद्धिः स्थितिहेत्वभावाद्विनश्यतीति ।
स्थितिहेतू धर्माधर्मौ तयोरभावादिति । अथ तयोरभावः कस्मादित्यत आह—कालात् ।
अन्त्यसुखदुःखोपभोगकालं प्राप्येत्यर्थः । अथ वा स्वजनितात् संस्कारादेवान्त्याया
बुद्धेर्विनाश इत्याह—संस्काराद् वा । संस्कारस्य तु स्थितिहेत्वदृष्टाभावाद् विनाशो
भवतीति भावः । पृच्छति—कथं कालात् इति । उत्तरम्—यावन्त्यस्य जन्मन इति ।
चरमस्य देहस्येत्यर्थः । देशयति—यदि कारणस्येति । अत्र तावदेकः परिहार इति ।
एकः प्रधानः परिहारः । परिहारान्तरं त्वेकदेशिमतेनाप्रधानमित्यर्थः । अपि च न
स्मृतयो युगपदुत्पद्यन्ते परिच्छेदत्वाद् गन्धरसरूपस्पर्शशब्दज्ञानवदित्याह—
परिच्छेदत्वाच्चेति ॥ २४ ॥


ज्ञानसमवेतात्मप्रदेशसन्निकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिः
॥ ३ । २ । २५ ॥


एकदेशिपरिहारमाह—अपरे त्विति ॥ २५ ॥


526

नान्तःशरीरवृत्तित्वान्मनसः ॥ ३ । २ । २६ ॥


दूषयति—एतत्तु न सम्यगिति । नान्तः…सः ॥ न हि मनः क्वचिदाश्रितम्
इति । न क्वचित् समवेतम् । संयोगमात्रं चातिप्रसक्तमित्यर्थः । नापि वृत्तिः
स्वकार्यसामर्थ्यम्
इति । शरीर एव मनः स्वकार्यं करोति, नान्यत्रेति शरीराश्रितं मन
इत्युच्यत इत्येतदपि नास्ति, इन्द्रियार्थसन्निकर्षस्य मनःकार्यस्य शरीराद्
बहिर्भावादित्यर्थः । तमिममाक्षेपं समाधत्ते—अत्र ब्रूम इति । येनात्मना यच्छरीरं
कर्मोपार्जितं तत्संयुक्तस्य मनसो वैशेषिकज्ञानादिलक्षणकार्यकारित्वं न
तदसंयुक्तस्येति शरीराश्रितत्वं मनसो नान्यदित्यर्थः ॥ २६ ॥


साध्यत्वादहेतुः ॥ ३ । २ । २७ ॥


चोदयति1980साध्य…तुः ॥ २७ ॥


स्मरतः शरीरधारणोपपत्तेरप्रतिषेधः ॥ ३ । २ । २८ ॥


परिहरति1981स्मर…धः ॥ २८ ॥


न तदाशुगतित्वान्मनसः ॥ ३ । २ । २९ ॥


पुनश्चोद्यम्—न त…सः ॥ २९ ॥


न स्मरणकालानियमात् ॥ ३ । २ । ३० ॥


527

पुनः परिहारः—न स्म…मात् ॥ ३० ॥ भाष्यम्—चिन्ताप्रबन्धः स्मृति
प्रबन्धः । कस्यचिदेवार्थस्य लिङ्गभूतस्य चिह्नभूतस्यासाधारणस्येति यावत् ।
चिन्तनं स्मरणम् । आराधितं सिद्धं चिह्नवतः स्मृतिहेतुर्भवतीति । इतश्च
शरीरसंयोगापेक्षमेव मनः स्मृतिहेतुर्नेतरथेत्यह—शरीरसंयोगानपेक्ष इति ॥ ३० ॥


आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः ॥ ३ । २ । ३१ ॥


शरीरान्न बहिर्मन इत्यत्रैकदेशिपरिहारमुपन्यस्यति1982आत्म…षः ॥ ३१ ॥


व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् ॥ ३ । २ । ३२ ॥


दूषयति—व्यास…नम् ॥ ३२ ॥


प्रणिधानलिङ्गादिज्ञानानामयुगपद्भावाद् युगपदस्मरणम् ॥
३ । २ । ३३ ॥


प्रातिभवदिति । स्मृत्युत्पादस्य पुरस्तात् प्रणिधानादीनां स्मृतिकारणानाम
संवेदनादात्ममनः संयोगात् संस्कारापेक्षात् स्मृतीनां युगपदुत्पादप्रसङ्गः प्रातिभव
दित्याक्षेपः । समाधानमाह—सतः स्मृतिहेतोरिति ।


अदृश्यमानमपि कारणम् । तत्क्रमश्च कार्योत्पादक्रमेणानुमीयत इति प्रातिभमपि
पुरुषकर्मविशेषापेक्षादात्ममनःसन्निकर्षादुपजायमानं नाकारणं न चाक्रमवदिति
प्रधानभूतामुपपत्तिमवतारयितुं पृच्छति भाष्यकारः—प्रातिभमिदानीमिति ।


अत्रोत्तरमाविलं दत्त्वा शङ्कते—हेत्वभावादयुक्तमिति चेत् ? उत्तरसारमाह—
528 न करणस्येति । यद्यपि क्वचिद् व्रश्चनस्य युगपद् दारुद्वयसंयोगे युगपच्छिदाद्वयं
भवति, तथापि व्रश्चनावयवभेदात् करणभेद उन्नेयः । अथ वा करणान्तराणि युगपत्
कार्याणि कुर्वन्तु, प्रत्ययकरणं तु क्रमेणैव प्रत्ययान् करोतीति तत्र न व्यभिचारः ।
तदुक्तम्—प्रत्ययपर्याय इति । तस्मात् करणमेकं न क्वचिदपि युगपत् कार्यायालम् ।
कर्ता पुनरेकोऽपि करणभेदेन युगपद् बहूनि कार्याणि करोतीत्याह—
ज्ञातुर्विकरणधर्मणो देहनानात्वे प्रत्यययौगपद्यादिति ।
विविधं करणं धर्मो यस्य
स तथोक्तः । तद् व्याचष्टे वार्त्तिककारः—न चायं नियम इति । योगी खलु ऋद्धौ
प्रादुर्भूतायां सेन्द्रियाणि शरीराणि तेषु तेषु लोकेषु निर्माय मुक्तात्मनामादाय मनांसि
मोक्षाय त्वरमाणो युगपत् स्वकर्मणोपार्जितान् सुखदुःखभेदान् अद्विषन्न सक्तो भुङ्क्ते
तदस्यैकस्यापि करणभेदाद् युगपज् ज्ञानानि भवन्तीति ।


अयं च द्वितीयः प्रतिषेधः ज्ञानसंस्कृतात्मप्रदेशभेदस्यायुगपज्ज्ञानोत्पादकस्य ।
अवस्थितेति । यत्रात्मप्रदेशेऽस्य ज्ञानानि नानाविषयाणि जातानि तत्संस्काराश्च
तत्रैव अवस्थितशरीरस्य । तदनेन शरीरान्तर्गतस्य मनसस्तत्र प्रदेशे संयोग
उपपादितः ।


तदिदमाह वार्त्तिककारः—यदि च ज्ञानसमवेतात्मप्रदेशासन्निकर्षादिति ।
अतश्च
अव्यापकत्वाद् अपरिहार इत्यर्थः । आचार्यदेशीयानां तु स्मृतियौग
पद्यप्रसङ्गमाशङ्कत1983अवस्थितशरीरस्यैव संस्काराः समानदेशा इत्ययुक्तम् ।
कुतः ? आत्मप्रदेशानामद्रव्यान्तरत्वात् सर्वसंस्काराणां समानदेशत्वे
प्रत्यययौगपद्यप्रसङ्गोऽपरिहार्यः । न ह्यात्मनो घटस्येव प्रदेशास्ततोऽन्ये सन्ति1984, किं
त्वात्मैव । स चैक इति सर्व एवात्मवर्तिनः समानदेशा इत्यर्थः । तदिदमुक्तं भाष्य
कारेण—आत्मप्रदेशानामद्रव्यान्तरत्वादेकार्थसमवायस्याविशेषे1985 स्मृतियौग
पद्यस्यप्रतिषेधानुपपत्तिरिति ।


शब्दसन्ताने त्विति शङ्कानिराकरणभाष्यम् । तुशब्दः शङ्कां निराकरोति ।
529 तदेतद् भाष्यं वार्त्तिककारो
व्याचष्टे—संस्कारप्रत्यासत्त्येति । पृच्छति—का
प्रत्यासत्तिरिति ।
उत्तरम्—न ब्रूम इति । निष्प्रदेशत्वेऽप्यात्मनः संस्कारस्याव्याप्य
वृत्तित्वमुपपादितम् । तेन शब्दवत् सहकारिकारणस्य सन्निधानासन्निधाने कल्पेते
एवेत्यर्थः ॥ ३३ ॥


ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योः ॥ ३ । २ । ३४ ॥


संप्रति बुद्धिरेव किमिच्छादिसमानाधिकरणा न वेति विचार्यते । तत्र
सांख्यदर्शननाशकानां1986 विप्रतिपत्तेः संशयः । तद्विप्रतिपत्तिमाह—पुरुषधर्मो
ज्ञानमन्तःकरणस्य त्विति ।
पुरुषचैतन्यमेकमेव कूटस्थनित्यं सत् तत्तदर्थाकार
परिणतबुद्धिसत्त्वप्रतिबिम्बविभ्रमवशाद् भिन्नमिवोपजनापायधर्मकमिव ज्ञानमिति1987
च वृत्तिरिति चाख्यायते । इच्छाद्वेषादयस्तु वस्तुतः उपजनापायधर्माणोऽन्तःकरणस्येति
दर्शनम् । तत्प्रतिषिध्यते—ज्ञस्ये…त्योः ॥ प्रति वृत्त्याञ्चतीति 1988प्रत्यक् स चात्मा चेति
प्रत्यगात्मा तस्मिन् । एतदुक्तं भवति, 1989ज्ञातृसामानाधिकरण्येनोपलब्धेरन्यदीयानां
चेच्छादीनामन्यस्याप्रत्यक्षीकरणात् तत्करणे वा मैत्रगतानामपि चैत्रेण ग्रहण
प्रसङ्गाद् अन्तःकरणवृत्तीनां च गुणान्तराणां नित्याप्रत्यक्षत्वादात्माश्रिता एवेच्छादयो
नान्तःकरणाश्रया इति ॥ ३४ ॥


तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः ॥ ३ । २ । ३५ ॥


अत्रान्तरे लब्धावकाशो भूतचैतनिकः प्रत्यवतिष्ठते—तल्लि…धः ॥ यदि
यस्यारम्भनिवृत्ती तस्येच्छाद्वेषौ, यस्य चैतौ तस्य चैतन्यम्, हन्त आयातमनेन क्रमेण
530 भूतचैतन्यमस्मदभिमतं भूतेष्वेव कायाकारपरिणतेषु आरम्भनिवृत्तिदर्शना
दित्यर्थः ॥ ३५ ॥


परश्वादिष्वारम्भनिवृत्तिदर्शनात् ॥ ३ । २ । ३६ ॥


परश्वादिष्वित्यस्य तात्पर्यमाह वार्त्तिककारः—परश्वादिष्विति ।
भूतचैतनिकः
तल्लिङ्गत्वादिति हेतुं स्वपक्षसिध्यर्थमन्यथा व्याचष्टे—अयं तर्हीति ।
शरीरेष्ववयवव्यूहभेददर्शनाच्च लोष्टादिषु शरीरारम्भकाणामणूनां प्रवृत्तिभेदोऽनुमीयते ।
ततश्चेच्छाद्वेषौ, ताभ्यां चैतन्यमिति । त्रसं जङ्गमं विशरारु अस्थिरं कृमिप्रभृतीनां
शरीरम् । स्थावरं स्थिरं शरीरं देवमनुष्यादीनाम् । तद्धि चिरतरं वा ध्रियते । तदेतद्
दूषयति—कुम्भादिषु मृदवयवानामिति । कुम्भाद्यारम्भिकाणां मृदां व्यूहभेदा
दारम्भदर्शनाददर्शनाच्च सिकतानामारम्भनिवृत्त्योरनैकान्तत्वम् ॥ ३६ ॥


नियमानियमौ तु तद्विशेषकौ ॥ ३ । २ । ३७ ॥


तदेवं भूतचैतन्यसाधनं दूषयित्वा भूतेभ्योऽन्यस्य चैतन्ये साधनमाह—
निय…कौ ॥ तयोरिच्छाद्वेषयोर्नियमानियमौ विशेषकौ । अयमेव
चेच्छाद्वेषयोर्विशेषो यद् भूताश्रयत्वमनयोर्व्यावर्त्य तदितराश्रयत्वव्यवस्थितिः । तत्रा
नियमं तावदाह—ज्ञस्येच्छाद्वषनिमित्ते प्रवृत्तिनिवृत्ती स्पन्दास्पन्दौ, न स्वाश्रये
नेच्छाद्वेषयोराश्रये । किं तर्हि ? प्रयोज्ये परश्वादौ आश्रये दृष्टे । तत्र प्रयुज्यमानेषु
एव भूतेषु प्रवृत्तिनिवृत्ती स्यातां न सर्वेषु प्रयोजकेष्वपि शरीरादिष्विति । सेयम्
अनियमोपपत्तिः असार्वत्रिकत्वमनियम इति । एतदुक्तं भवति शरीरमिच्छा
ज्ञानद्वेषानाधार इच्छादिजनितस्पन्दास्पन्दाधारत्वात् परश्वादिवदिति ।


तदेवमनियमं भेदकं व्याख्याय नियमं व्याचष्टे—यस्य तु चार्वाकस्य दर्शने
531 ज्ञत्वाद् भूतानामिच्छाद्वेषनिमित्ते आरम्भनिवृत्ती स्वाश्रये शरीरादौ तस्य
चार्वाकस्य । यथा भूतानां गुरुत्वादि गुणान्तरनिमित्ता प्रवृत्तिः पतनादिलक्षणा,
तस्यैव गुरुत्वादेर्गुणान्तरस्य प्रतिबन्ध आधारद्रव्यसंयोगेन, तस्माच्च निवृत्तिः
अपतनादिका भूतमात्रे भवति नियमेन व्याप्ता न तु शरीरोपगृहीतेष्वेव भूतेषु1990, एवं
भूतमात्रेज्ञानेच्छाद्वेषनिमित्ते प्रवृत्तिनिवृती स्वाश्रये स्याताम् ।
एतदुक्तं भवति—ये
ये पृथिव्यादिधर्मास्ते ते यावत्पृथिव्यादिभाविनो दृष्टाः यथा गुरुत्वादयः, ज्ञानेच्छाद
योऽपि चेत् पृथिव्यादिधर्मास्तैरप्यवश्यं यावत्पृथिव्यादिभाविभिर्भवितव्यं न तु
घटादौ दृश्यन्ते । तस्मान्न पृथिव्यादिधर्मा ज्ञानादय इति ।


अत्र च भाष्यकृता सार्वत्रिकत्वप्रसङ्गविवक्षया नियमशब्दः प्रयुक्तः,
असार्वत्रिकत्वविवक्षया त्वनियमशब्दः । वार्त्तिककृता तु प्रयोज्य एवेत्यवधारणं
विवक्षित्वा प्रादेशिके नियमशब्दः प्रयुक्तः सार्वत्रिके तूक्तनियमरूपावधारणा
भावादनियमशब्द इति विवक्षाभेदाश्रयणाद् अविरोध इति ।


यस्तु नियमं मदशक्त्या व्यभिचारयेत्, यथा किल किण्वादयः परिणाम
विशेषवन्तो मदिराभावमापन्ना मदयन्ति एवं कायाकारेण परिणतानि पृथिव्यादीनि
चेतयन्ते नान्यथा, तेन 1991घटादिष्वप्रसङ्ग इति, तं प्रत्याह—एकशरीरे चेति । यथा
मदिरावयवेषु प्रत्येकमेव मदशक्तिरस्ति न पुनः समुदायमात्रसमवायिनी, एवं
शरीरावयवेष्वपि प्रत्येकमेव चैतन्येन भवितव्यम्, न च वैयात्यात् काये समुदायाश्रयमेव
चैतन्यं नावयवाश्रययमिति शक्यमास्थातुं त्रिचतुरावयवच्छेदेऽपि चैतन्योपलम्भात् ।
तस्मादवयवानां प्रत्येकं चैतन्ये शरीर एकस्मिन् बहवश्चेतनाः स्युः । भवतु किं नो
बाध्यत इति चेत् ?
न, विरुद्धाभिप्रायत्वेन स्वतन्त्राणां न किञ्चिदपि कार्यं जायेत ।
न च बहूनामेकाभिप्रायनियमो दृष्टः । काकतालीयन्यायेन स्यादेकाभिप्रायत्वं न
पुनरस्य नियमो दृष्टचर इति प्रसिद्धत्वाद् दूषणमेतदुपेक्ष्य प्रत्ययव्यवस्था न
भवेदिति
दूषणमुक्तम् । एकस्मिन् शरीरे प्रत्ययानां परस्परप्रतिसन्धानं पश्यामो न
532 शरीरान्तर इति व्यवस्था । सेयं यद्येकस्मिन् शरीर एक एव चेतनो न चासौ शरीरान्तरे
ततो भवेन्नान्यथेत्यर्थः । क्वचित् पाठः प्रत्ययव्यवस्थानानुमानं स्यादिति1992 । स सुगम
एव ।


नियमानियमाविति यदुक्तं तत्रानुमानप्रयोगं सूचयति भाष्यकारः—दृष्ट
श्चान्यगुणनिमित्तः प्रवृत्तिविशेष
इति । हिताहितप्राप्तिपरिहारहेतुः परिस्पन्दः
प्रवृत्तिविशेषः । सोऽयं प्रयोगः । त्रसस्थावरशरीरेषु प्रवृत्तिविशेषः स्वाश्रयव्यति
रिक्ताश्रयगुणनिबन्धनम्, प्रवृत्तिविशेषत्वात् परश्वादिगतप्रवृत्तिविशेषवदिति । न
केवलं शरीरस्य प्रवृत्तिविशेषोऽन्यगुणनिमित्तः, भूतानामपि तदारम्भकाणां प्रवृत्ति
विशेषोऽन्यगुणनिबन्धन एवेत्याह—तदवयवव्यूहलिङ्ग इति ।


नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानादिति च समान इति यथा
हीन्द्रियार्थयोर्विनाशेऽपि ज्ञानावस्थानान्नेन्द्रियार्थयोर्गुणो ज्ञानमेवं बाल्यकौमार
यौवनवार्धकावस्थासु शरीरविनाशेऽपि ज्ञानावस्थानान्न शरीरगुणो ज्ञानमित्यर्थः ।
अपि च,
ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्र्योः ३ । २ । ३४
इत्यत्रारम्भनिवृत्तिशब्देन न प्रवृत्तिनिमित्तमात्रमभिमतमस्माकम्, अपि तु हिताहित
प्राप्तिपरिहारार्थः परिस्पन्दः1993 । तमिमं प्रवृत्तिविशेषमविज्ञाय त्वया प्रवृत्तिसामान्येन
प्रत्यवस्थितमित्यप्रतिपत्तिस्ते निग्रहस्थानमित्याह भाष्यकारः—क्रियामात्रमिति ।
तद् वार्त्तिककारो व्याचष्टे अन्यथाभिधानाच्च । अयुक्तमिति शेषः ॥ ३७ ॥


यथोक्तहेतुत्वात् पारतन्त्र्यादकृताभ्यागमाच्च न मनसः ॥
३ । २ । ३८ ॥


स्यादेतत् । यथोक्तहेतुत्वादित्यादयो वक्ष्यमाणसूत्रगता हेतवो भूतेन्द्रिय
चैतन्यप्रतिषेधेऽपि समाना इति कस्मान्मनोमात्रे चैतन्यं प्रतिषिध्यते न मनस इति ?
533 अत आह—भूतेन्द्रियमनसामिति । यथो…सः ॥ यथोक्तहेतुत्वादिति
व्याचष्टे—इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् इत्यत आत्मलक्षणात्
प्रभृति तल्लक्षणपरीक्षापर्यवसानं यावद् यदुक्तं तत् संगृह्यते । अत्र च हेतुशब्देन
इच्छादिसूत्रं सुसंगृहीतं भावप्रत्ययेन हेत्वर्थविषया परीक्षोपलक्षिता ।
वार्त्तिकम्—यथोक्तहेतुत्वादिति
दर्शनस्पर्शनाभ्यामेकार्थग्रहणात्
इत्येवमादीनां हेतूनाम् उक्तहेतुत्वं तस्मादिति योजना । तदनेन भाष्यगतप्रभृति
पदार्थो विवृतः । नन्वेते यथोक्ता हेतवः परैः प्रतिषिद्धा इत्यत आह—अप्रतिषेधात् ।
वाङ्मात्रेण प्रतिषिद्धा न वस्तुत इति । धारणप्रेरणव्यूहनक्रियासु यथायोगं
शरीरेन्द्रियाणि परतन्त्राणि भौतिकत्वाद् घटादिवदिति । मनश्च परतन्त्रं करणत्वाद्
वास्यादिवदिति कस्यचित् प्रयत्नवशात् प्रवर्तन्ते, चैतन्ये पुनः स्वतन्त्राणि
स्युः ।
तथा च पारतन्त्र्यप्रसाधकानुमानविरोध इति भावः ।


यस्तु कश्चिदभ्युपेतवेदप्रामाण्यः पुरुषमचेतनं फलभागिनमभ्युपगम्य
शरीरादीनां चैतन्यं रोचयते तं प्रति तेषामचैतन्ये हेतुमाह—अकृताभ्यागमाच्च1994
उपदेशफलं हि कर्तरि कर्त्रपेक्षितोपायताभिधानलक्षणत्वादुपदेशस्य । यथाह स्मात्र
भगवान् जैमिनिः
शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्
इति । उपपादितं चैतदस्माभिः
विधिर्विधायकः २. १. ६३
इत्यत्रान्तरे ।
स्वर्गकामो यजेत
इति च कर्त्रभिप्रायक्रियाफलावगमात् तत्रैवात्मनेपदस्मरणात् य एव कर्मणः कर्ता
स एव तत्फलस्य भोक्तेति सर्वैरास्तिकपथानुसारिभिरभ्युपेयम् । शरीरादीनां चैतन्ये
534 चेतनस्य स्वातन्त्र्यात् त एव कर्मणः कर्तारः, न तेषां भस्मसाद्भूतानामामुष्मिक
स्वर्गादिफलशालितासंभव इत्यात्मनोऽचेतनस्य तद्भागिता अभ्युपगन्तव्या । तथा
चैतैः शरीरादिभिः कृतं कर्म पुरुषेण भुज्यते इति शास्त्रप्रतिक्षिप्ताकृताभ्यागम
कृतनाशदोषप्रसङ्गः । अचैतन्ये तु शरीरादीनां तदतिरिक्तस्य च पुरुषस्य चैतन्ये
पुरुषः स्वातन्त्र्यात् कर्ता । तत्प्रयोज्यतया शरीरादीनि तत्साधनानीति तत्साधनस्य
पुरुषस्य स्वकृतकर्मफलोपभोग इति न शास्त्रव्याकोपः, नापि प्रेक्षावत्प्रवृत्तिविरोध
इति भावः ॥ ३८ ॥


परिशेषाद्यथोक्तहेतूपपत्तेश्च ॥ ३ । २ । ३९ ॥


अथायं सिद्धोपसंग्रहः उपसंहार इत्यर्थः । परि…श्च ॥ उपपत्तिपदार्थ
व्याख्यानम् अप्रतिषेधादिति । भाष्यम्—कायस्य भेदाद् विनाशादिति ।
अप्रतिसंहितमिति, पूर्वेद्युरर्धकृतानामपरेद्युः परिसमापना दृष्टा मयारब्धं मयैव
परिसमापनीयमिति प्रतिसन्धाने, अप्रतिसन्धाने तु न परिसमापयेत् । परिसमापने वा
चैत्रारब्धमपि मैत्रः परिसमापयेत् यतः स्वयमारब्धात् परैरारब्धम् अव्यावृत्तम्
अविशिष्टं स्वस्यापि परत्वाद् अपरिनिष्ठितं च कर्मजातं स्यात् । तथा हि वैश्यस्तोमे
वैश्य एवाधिकृतो न ब्राह्मणराजन्यौ, एवं राजसूये राजैव न ब्राह्मणवैश्यौ । एवं
सोमसाधनके यागे ब्राह्मण एवाधिकृतो न राजन्यवैश्यौ । शूद्रश्चानधिकृत एवेति
परिनिष्ठा । सा बुद्धिसन्ततिमात्रे न स्यात् । कुतः ? सत्त्वक्षणानां1995 सर्वेषामेव
त्रैलोक्यवैलक्षण्येन भेदात् । अन्यापोहसामान्यस्य अपास्तत्वादित्यर्थः1996 । अप्रतिसंहितत्वे
हेतुमाह—स्मरणाभावादिति ॥ ३९ ॥


स्मरणं त्वात्मनो ज्ञस्वाभाव्यात् ॥ ३ । २ । ४० ॥


535

त्रिकालव्यापिनी ज्ञानशक्तिरेव ज्ञस्वाभाव्यम् । तच्चाकाशादिभ्यो व्यावृत्तं
त्रिकालव्यापि स्वरूपमेवात्मनः ॥ ४० ॥


प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रित
सम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखे
च्छाद्वेषभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः ॥ ३ । २ । ४१ ॥


स्मृतिहेतूनामयौगपद्यादित्येतत् सिंहावलोकितन्यायेन पृच्छत्यनन्तरं सूत्रम्
अवतारयितुं स्मृतिहेतूनामिति । तात्पर्याभिधानपुरःसरं सूत्रम् अवतारयति—स्मृति
कारणानामिति । प्रणि…भ्यः ॥ भाष्यम्-सुस्मूर्षया मनसो धारणमिति ।
तेषु तेषु
विषयेषु प्रसक्तस्य मनसस्ततो निवारणमित्यर्थः । सुस्मूर्षितलिङ्गानुचिन्तनं वा
साक्षाद् वा तत्र धारणं तल्लिङ्गे वा प्रयत्न इत्यर्थः । निबन्धः खल्विति । यथा अत्रैव
प्रमाणादयोऽर्था एकग्रन्थोपात्ता अन्योन्यस्मृतिहेतवः । आनुपूर्व्या वा । यथा प्रमाणपदार्थं
स्मृत्वा प्रमेयं स्मरति । इतरथा वा । यथा निग्रहस्थानानां स्मृत्वा प्रमाणानां स्मरति ।
निबन्धस्य व्याख्यानान्तरमाह—धारणेति । धारणाशास्त्रं जैगीषव्यादिप्रोक्तं तत्कृतः
प्रज्ञातेषु एव वस्तुषु नाडीचक्रहृत्पुणुरीककण्ठकूपनासाग्रतालुललाटब्रह्मरन्ध्रादिषु
स्मर्तव्यानां बीजरूपसंस्थानास्त्राभरणभृतां च देवतानाम् उपनिक्षेपः समारोपः ।
तथा च तत्र देवताः समारोपितास्तास्तत्तदवयवग्रहणात् स्मर्तव्या1997 इत्यर्थः ।
अभ्यासजनितः संस्कार आत्मगुणः अत्र अभ्यासशब्देनोच्यते । तेन
पट्वादरप्रत्ययावपि स्मृतिहेतू संगृहीतौ1998 भवतः, तयोरप्यभ्यासवत्संस्काराधानद्वारेणैव
स्मृतिहेतुत्वात् । अत्र1999 च स्मृतिकारणानां नासमावेशो विवक्षितः । तेन संस्कारेण
स्मृतिहेतूनां सर्वेषामेव प्रणिधानादीनां समावेश एव । निबन्धादिभिस्तु सह यथायोगं
समावेशासमावेशावूहनीयाविति । अयत्नत उपलब्धं लिङ्गं पुनरिति । संयोगिन
उदाहरणं धूमोऽग्नेरिति । समवायिन उदाहरणं कुड्यादिव्यवहिताया गोः अव्यवहितं
536 प्रत्यक्षं विषाणम्, गवा समस्ति विषाणस्य समवाय इति समवायि विषाणमुक्तम् ।
न तु तद्गवि समवायि गोरेव स्वावयवे विषाणादौ समवायात् । एकार्थसमवायी
त्यस्य
एकार्थस्य समवाय एकार्थसमवायः । स यस्यास्ति स एकार्थसमवायी
त्यर्थः । तदिदमुदाहरणम्—यथा पाणिः पादस्येति । एकस्य खलु चैत्रावयविनः2000
समवायः पादे च पाणौ च, तौ पाणिपादावेकार्थसमवायवन्तौ तत्रैकेनैकार्थसम
वायवता प्रत्यक्षेणाप्रत्यक्ष एकः स्मर्यत इति । यदा त्वेकस्मिन्नर्थे समवाय इत्यर्थः तदा
रूपं स्पर्शस्येत्युदाहरण् । स्वाभाविकाविनाभावयुक्तं लिङ्गं सांकेतिकं तु चिह्नमिति
विशेषः । ग्रामणीः नायकः । यद्यपि सर्वत्रैव प्रणिधानादौ संबन्धः संप्लवते तथापि
प्रणिधानादिपरिहाण्या संबन्धान्तरे गोबलीवर्दन्यायेन संबन्धशब्दो वर्तते । न च
संबन्धपदेन सर्वसंग्रहादनर्थकमितरपदोपादानमिति वाच्यम्, उक्तमत्र भाष्यकृता
अन्यत्र स्ववाक्यलाघवं नाद्रियते सूत्रकार इति । शिष्यधीप्रसादश्चैवं भवति
विशिष्याभिधानादिति । आनन्तर्यादिति । ब्राह्मे हि मुहूर्ते प्रबोधानन्तरमुत्थानं ततो
मौनं ततो विडुत्सर्गः ततः शौचं ततो मुखप्रक्षालनदन्तधावनादीनि । वियोगादिति
शोकमुपलक्षयति । ततोऽपि शोकविषयस्य स्मरति । एककार्यादिति । यथा
सप्तदशावराणामृद्धिकामानामेकं सत्रं कार्यम् । तत्रैकं यजमानं दृष्ट्वा यजमानान्तरं
स्मरति । अतिशयात् यथा ब्रह्मचारी उपनयनविद्याविनयाद्यतिशयोत्पादकमाचार्यं
स्मरति । प्राप्तेः तद् यथा 2001प्रासर्पकः यतोऽनेन 2002मृष्टमन्नं प्राप्तं प्राप्तव्यं वा तमभीक्ष्णं
स्मरति । इच्छा स्नेहः । स तु भ्रात्रादिषु । द्वेषः प्रतिकूले दारादौ, ताभ्यामपि च तद्विषयं
स्मरति । क्रियया कार्येणेत्यर्थः । धर्माद् वेदाभ्यासजनिताद्2003 जातिं स्मरति पूर्विकाम् ।
एवं जातमात्रस्य सुखादिसाधनस्मरणं धर्माधर्माभ्यां द्रष्टव्यम् । ननून्मादादयोऽपि
स्मृतिहेतवो लोकसिद्धाः, तत् किं तेऽपि नोक्ता इत्यत आह—निदर्शनमात्रं चेदं
स्मृतिनिमित्तानामिति2004
॥ ४१ ॥


॥ बुद्धेरात्मगुणत्वप्रकरणम् ॥

  1. तद् व्याचष्टे—ज्ञानगुणत्वे चेतित्यधिकम्J

  2. अथC

  3. चोद्यम् C

  4. परिहारः C

  5. इत्यत्रैकदेशिमतम्C द्रः अलङ्कारः पृः ५८४

  6. प्रसङ्गमाहC

  7. संभवन्तिC

  8. °शेषे सतिC

  9. °र्शनवैनाशिकानांC

  10. धर्मकं विज्ञानमितिC

  11. प्रत्यगात्मा तस्मिन्C

  12. ज्ञानसामा°C

  13. एव भूतेषुJ

  14. घटादिषु प्र°J

  15. °स्थानुमानंJ

  16. °रार्थस्पन्दविशेषःC

  17. अकृता° C द्रः भा, वा, टीJ

  18. सल्लक्ष° C

  19. °स्य च निवर्त्तितत्वा° C

  20. स्मर्यन्तC

  21. तेनादरप्रत्ययावपि संगृ°C

  22. अपिC

  23. खल्वत्रा° C

  24. प्रार्थकः C

  25. मिष्टं C

  26. °नितेन धर्मेण C

  27. °तिहेतूनामिति C