536 प्रत्यक्षं विषाणम्, गवा समस्ति विषाणस्य समवाय इति समवायि विषाणमुक्तम् ।
न तु तद्गवि समवायि गोरेव स्वावयवे विषाणादौ समवायात् । एकार्थसमवायी
त्यस्य
एकार्थस्य समवाय एकार्थसमवायः । स यस्यास्ति स एकार्थसमवायी
त्यर्थः । तदिदमुदाहरणम्—यथा पाणिः पादस्येति । एकस्य खलु चैत्रावयविनः2000
समवायः पादे च पाणौ च, तौ पाणिपादावेकार्थसमवायवन्तौ तत्रैकेनैकार्थसम
वायवता प्रत्यक्षेणाप्रत्यक्ष एकः स्मर्यत इति । यदा त्वेकस्मिन्नर्थे समवाय इत्यर्थः तदा
रूपं स्पर्शस्येत्युदाहरण् । स्वाभाविकाविनाभावयुक्तं लिङ्गं सांकेतिकं तु चिह्नमिति
विशेषः । ग्रामणीः नायकः । यद्यपि सर्वत्रैव प्रणिधानादौ संबन्धः संप्लवते तथापि
प्रणिधानादिपरिहाण्या संबन्धान्तरे गोबलीवर्दन्यायेन संबन्धशब्दो वर्तते । न च
संबन्धपदेन सर्वसंग्रहादनर्थकमितरपदोपादानमिति वाच्यम्, उक्तमत्र भाष्यकृता
अन्यत्र स्ववाक्यलाघवं नाद्रियते सूत्रकार इति । शिष्यधीप्रसादश्चैवं भवति
विशिष्याभिधानादिति । आनन्तर्यादिति । ब्राह्मे हि मुहूर्ते प्रबोधानन्तरमुत्थानं ततो
मौनं ततो विडुत्सर्गः ततः शौचं ततो मुखप्रक्षालनदन्तधावनादीनि । वियोगादिति
शोकमुपलक्षयति । ततोऽपि शोकविषयस्य स्मरति । एककार्यादिति । यथा
सप्तदशावराणामृद्धिकामानामेकं सत्रं कार्यम् । तत्रैकं यजमानं दृष्ट्वा यजमानान्तरं
स्मरति । अतिशयात् यथा ब्रह्मचारी उपनयनविद्याविनयाद्यतिशयोत्पादकमाचार्यं
स्मरति । प्राप्तेः तद् यथा 2001प्रासर्पकः यतोऽनेन 2002मृष्टमन्नं प्राप्तं प्राप्तव्यं वा तमभीक्ष्णं
स्मरति । इच्छा स्नेहः । स तु भ्रात्रादिषु । द्वेषः प्रतिकूले दारादौ, ताभ्यामपि च तद्विषयं
स्मरति । क्रियया कार्येणेत्यर्थः । धर्माद् वेदाभ्यासजनिताद्2003 जातिं स्मरति पूर्विकाम् ।
एवं जातमात्रस्य सुखादिसाधनस्मरणं धर्माधर्माभ्यां द्रष्टव्यम् । ननून्मादादयोऽपि
स्मृतिहेतवो लोकसिद्धाः, तत् किं तेऽपि नोक्ता इत्यत आह—निदर्शनमात्रं चेदं
स्मृतिनिमित्तानामिति2004
॥ ४१ ॥


॥ बुद्धेरात्मगुणत्वप्रकरणम् ॥

  1. खल्वत्रा° C

  2. प्रार्थकः C

  3. मिष्टं C

  4. °नितेन धर्मेण C

  5. °तिहेतूनामिति C