537

बुद्धेरुत्पन्नापवर्गित्वप्रकरणम्


कर्मानवस्थायिग्रहणात् ॥ ३ । २ । ४२ ॥


तदेवं सिंहावलोकितं समर्थ्य प्रकृतायामेव बुद्धौ विचारान्तरमारभते—
अनित्यायां च बुद्धाविति । द्रव्याश्रितत्वादित्युच्यमानेऽपि पिठरादिगतै रूपादि
भिर्व्यभिचारोऽत आह—व्यापकद्रव्याश्रितत्वादिति । तथाप्यात्मत्वादिभिरने—
कान्तोऽत आह—2005जातिमत्त्वे सतीति । तथापि विभुत्वेन परिमाणेनानेकान्तोऽत
आह—अस्मदादिप्रत्यक्षत्वे सतीति । कर्मादिसन्तानविषया बुद्धय
आशुतरविनाशिन्यः । अत्र यदि प्रकाशकत्वादित्युच्येत तत आत्मनानेकान्तः स्यादत
आह—करणत्वे सतीति । तथापि मनःश्रोत्रादिभिरनेकान्तोऽत आह—प्रत्यर्थेति ।
एका बुद्धिरेकविषया न विषयान्तरविषया । एवमन्या अपि बुद्धयः स्वविषयमात्रे
पर्यवसिताः । न च मनः श्रोत्रादि तथा, नानाविषयत्वात् तस्येति । ननु प्रत्यर्थनियत
त्वमव्यापकं युगपदनेकार्थसन्निकर्षे सति नानाविषयाप्येका बुद्धिरुपजायतेऽत
आह—प्रतिक्षणं कर्मणोऽपूर्वस्यार्थस्योत्पत्तौ सत्यां तत्कार्याया बुद्धेः 2006क्रमेणोत्पत्तौ
कारणक्रमानुविधानात्, कार्यक्रमस्य प्रत्यक्षबुद्धेर्विषयकारणत्वात् । एकैकश्चासौ
विषयः क्रमोत्पादवान् कारणमिति क्रमवतीनां बुद्धीनां सर्वासामेव सिद्धं
प्रत्यर्थनियतत्वम् । नियमश्च तज्जातीयकर्मान्तरापेक्षया न तु द्रव्यापेक्षया । तेन
कर्मबुद्धेर्द्रव्यादिविषयत्वेऽपि प्रत्यर्थनियमाविरोधः । प्रत्यर्थनियमविशेषणयोगाच्च
प्रागात्मनाऽनैकान्तिकत्वशङ्कायां करणत्वं विशेषणमिति ।


प्रयोगान्तरमाह—अथवेति । सुखत्वादिभिरनैकान्तिकत्वं मा भूदित्यत उक्तं
गुणत्वे सतीति । रूपादिभिर्व्यभिचारनिवृत्त्यर्थमुक्तम्—अबाह्येति ।


538

कर्मा…णात् ॥ अवस्थितग्रहणेऽपि प्रत्यक्षनिवृत्तेर्ध्वंसिनीति । यद्यपि
शक्यं वक्तुं स्पर्शादिबुद्धिरेकैवैतावन्तं कालमवस्थिता व्यवधानादिनार्थसन्निकर्ष
विनाशाद् विनङ्क्ष्यति, निमित्तकारणविनाशोऽपि हि कार्यविनाशहेतुर्दृष्टः, अपेक्षा
बुद्धिविनाशाद् द्वित्वविनाशवदिति, तथापि क्षणिकत्वे हेत्वन्तरादेव सिद्धे बुद्धी
नामभ्युच्चचयमात्रतयैतद् द्रष्टव्यम् । तथा हि क्षणविध्वंसिवस्तुविषयबुद्धिक्षणिकत्व
समर्थनेनैव स्थायिवस्तुविषयबुद्धिक्षणिकत्वसमर्थनमपि सूचितम् । स्थिरगोचरा
बुद्धयः क्षणिकाः, बुद्धित्वात् कर्मादिबुद्धिवदिति । बुद्धिरेव स्मर्त्री ग्रहीत्री चेत्यात्म
भावं बुद्धावारोप्य शङ्कते—स्मृतेरवतिष्ठत इति चेदिति । निराकरोति—नात
एवेति ।
न हि बुद्धिः स्मर्त्री येन तदभावे स्मृतिर्नोत्पद्येत, अपि त्वात्मा । स च
नित्यः । बुद्धिसद्भावस्तु स्मृतिविरोधीत्यर्थः अथ यदि बुद्धिर्नास्ति कुतस्तर्हि स्मृति
रुत्पद्यते ? न ह्यकारणं कार्यं भवति । न चात्ममात्रं कारणम् । मा भूदात्मनो नित्यत्वेन
स्मृत्युत्पादोऽपि नित्यः । तस्मात् स्मृत्युत्पादोऽपि लिङ्गं बुद्ध्यवस्थान इत्यत
आह—अन्यतश्च तद्भावादिति ।


स्यादेतत् । बुद्धिजः संस्कारश्चेत् स्मृतिहेतुरथ यावत्संस्कारं स्मृतिः स्यादित्यत
आह—ततः प्रणिधानादीति । न संस्कारोऽस्तीत्येतावता2007 स्मृतिरपि तु तत्प्रबोधात् ।
तत्प्रबोधश्च 2008कदाचित् प्रणिधानादेरित्यर्थः ॥ ४२ ॥


अव्यक्तग्रहणमनवस्थायित्वाद्विद्युत्सम्पाते रूपाव्यक्तग्रहणवत्
॥ ३ । २ । ४३ ॥


बुद्धिस्थैर्यवाद्याह—यद्यनवस्थायिनीति ॥ ४३ ॥


हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा ॥ ३ । २ । ४४ ॥


539

दूषयति—नविरोधादिति । बुद्धिमात्रस्य स्थायित्वं प्रतिज्ञाय विद्युत्संपातजाताया
2009पटादिबुद्धेरनवस्थायित्वाभिधानं विरुद्धमित्यर्थः । अव्यक्तग्रहणस्यान्यथासिद्धत्वं
चाह—अव्यक्तग्रहणस्येति । धर्मिग्रहणहेतोर्भेदात् । 2010अव्यक्तश्च यो धर्मिग्रहणे
हेतुः सामान्यमात्रवन्तं धर्मिणं गृह्णाति तद्वशादव्यक्तग्रहणम्2011, यस्तु सामान्यविशेषवन्तं
तद्वशाद् 2012व्यक्तग्रहणमित्यर्थः । धर्मिणं त्वनाश्रित्य स्वे विषये ग्रहणानां तदसंभवाच्च
अव्यक्तत्वासंभवादित्यर्थः2013 । धर्मिणमनाश्रित्येत्यविद्वान् शङ्कते—लोकविरोध इति
चेदिति ।
धर्मिग्रहणमाश्रित्य निराकरोति—नान्यथेति । दोषान्तरमाह—अनेकान्ता
च्चेति । वार्त्तिक
व्याख्यानेनैव भाष्यं व्याख्यातम् ॥ ४४ ॥


न प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत् तद्ग्रहणम् ॥ ३ । २ । ४५ ॥


॥ इति बुद्धेरुत्पन्नापवर्गित्वप्रकरणम् ॥

  1. सामान्यवत्त्वे C

  2. °रयुगपदुत्पत्तौ कारण° C

  3. °स्तीत्येव C

  4. कादाचित्कः कादाचित्कत्वात् C

  5. घटादि° C

  6. यो ग्रहणहेतुः J

  7. °दव्यक्तं ग्रहणम् J

  8. व्यक्तं ग्र° J

  9. व्यक्तत्वादि C