537

बुद्धेरुत्पन्नापवर्गित्वप्रकरणम्


कर्मानवस्थायिग्रहणात् ॥ ३ । २ । ४२ ॥


तदेवं सिंहावलोकितं समर्थ्य प्रकृतायामेव बुद्धौ विचारान्तरमारभते—
अनित्यायां च बुद्धाविति । द्रव्याश्रितत्वादित्युच्यमानेऽपि पिठरादिगतै रूपादि
भिर्व्यभिचारोऽत आह—व्यापकद्रव्याश्रितत्वादिति । तथाप्यात्मत्वादिभिरने—
कान्तोऽत आह—2005जातिमत्त्वे सतीति । तथापि विभुत्वेन परिमाणेनानेकान्तोऽत
आह—अस्मदादिप्रत्यक्षत्वे सतीति । कर्मादिसन्तानविषया बुद्धय
आशुतरविनाशिन्यः । अत्र यदि प्रकाशकत्वादित्युच्येत तत आत्मनानेकान्तः स्यादत
आह—करणत्वे सतीति । तथापि मनःश्रोत्रादिभिरनेकान्तोऽत आह—प्रत्यर्थेति ।
एका बुद्धिरेकविषया न विषयान्तरविषया । एवमन्या अपि बुद्धयः स्वविषयमात्रे
पर्यवसिताः । न च मनः श्रोत्रादि तथा, नानाविषयत्वात् तस्येति । ननु प्रत्यर्थनियत
त्वमव्यापकं युगपदनेकार्थसन्निकर्षे सति नानाविषयाप्येका बुद्धिरुपजायतेऽत
आह—प्रतिक्षणं कर्मणोऽपूर्वस्यार्थस्योत्पत्तौ सत्यां तत्कार्याया बुद्धेः 2006क्रमेणोत्पत्तौ
कारणक्रमानुविधानात्, कार्यक्रमस्य प्रत्यक्षबुद्धेर्विषयकारणत्वात् । एकैकश्चासौ
विषयः क्रमोत्पादवान् कारणमिति क्रमवतीनां बुद्धीनां सर्वासामेव सिद्धं
प्रत्यर्थनियतत्वम् । नियमश्च तज्जातीयकर्मान्तरापेक्षया न तु द्रव्यापेक्षया । तेन
कर्मबुद्धेर्द्रव्यादिविषयत्वेऽपि प्रत्यर्थनियमाविरोधः । प्रत्यर्थनियमविशेषणयोगाच्च
प्रागात्मनाऽनैकान्तिकत्वशङ्कायां करणत्वं विशेषणमिति ।


प्रयोगान्तरमाह—अथवेति । सुखत्वादिभिरनैकान्तिकत्वं मा भूदित्यत उक्तं
गुणत्वे सतीति । रूपादिभिर्व्यभिचारनिवृत्त्यर्थमुक्तम्—अबाह्येति ।


  1. सामान्यवत्त्वे C

  2. °रयुगपदुत्पत्तौ कारण° C