बुद्धेः शरीरगुणव्यतिरेकप्रकरणम्


द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ॥ ३ । २ । ४६ ॥


शरीरेति । पूर्वं हि भूतेन्द्रियमनसां चैतन्यं साक्षात् निराकृतमुपक्षेपात्2014 शरीरस्य,
संप्रति तु शरीरस्यैव साक्षात् चैतन्यं निरस्यत इति तात्पर्यभेदादपुनरुक्तम् । वस्तुतस्तु
पौनरुक्त्ये परिहारं2015 भाष्यकारः प्रकारान्तरेण वक्ष्यति । तद्गुणत्वं तत्रोपलब्ध्या
सिध्यति
अबाधितयेति शेषः । द्रव्ये…यः ॥ ४६ ॥


यावच्छरीरभावित्वाद्रूपादीनाम् ॥ ३ । २ । ४७ ॥


540

न कारणानुच्छेदाच्चेतनायाः शरीरमस्याः कारणम् । तच्चानुच्छिन्नम् । संस्कारस्य
तु 2016कारणोच्छेद इति द्रष्टव्यम् ॥ ४७ ॥


न पाकजगुणान्तरोत्पत्तेः ॥ ३ । २ । ४८ ॥


तच्च—न पा…त्तेः ॥ इति । नात्यन्तिकः परमाणौ वा पिठरे वा रूपाभाव
इत्यर्थः ॥ ४८ ॥


प्रतिद्वन्द्विसिद्धेः पाकजानामप्रतिषेधः ॥ ३ । २ । ४९ ॥


तदेवमात्यन्तिकानात्यन्तिकत्वं वैधर्म्यमुक्त्वा सप्रतिद्वन्द्वित्वासप्रतिद्वन्द्वित्वं
वैधर्म्यान्तरमाह—इतश्चेति । प्रति…धः ॥ प्रतिद्वन्द्विसिद्धेः पाकजानां तद्व्यभि
चारोद्भावनेन चैतन्यस्य यावच्छरीरभावित्वादप्रतिषेधः ॥ ४९ ॥


शरीरव्यापित्वात् ॥ ३ । २ । ५० ॥


प्रत्ययव्यवस्थाप्रसङ्गात्—यथा देवदत्तस्य ज्ञानं न यज्ञदत्तः प्रतिसन्धत्ते किं
तु देवदत्त एवेति व्यवस्था । एवमेकस्मिन् शरीरेऽवयवान्तरज्ञानमवयविनो वा ज्ञानं
न प्रतिसंदधीत2017 इत्यर्थः ॥ ५० ॥


न केशनखादिष्वनुपलब्धेः ॥ ३ । २ । ५१ ॥


दृष्टान्तसूत्रमिति । न करचरणादयश्चेतनाः शरीरावयवत्वात् केशनखादिवदिति
541 दृष्टान्तार्थं सूत्रमित्यर्थः ॥ ५१ ॥


त्वक्पर्यन्तत्वाच्छरीरस्य केशनखादिष्वप्रसङ्गः ॥ ३ । २ । ५२ ॥


त्वक्पर्यन्तत्वादिति शरीरावयत्वं केशनखादीनां हेतुरसिद्धः । इन्द्रियाश्रयत्वं
हि शरीरलक्षणम् । तद् यत्र शरीरसमवेतं तेनेन्द्रियाश्रयेणावश्यं भवितव्यम् ।
त्वक्पर्यन्तश्चावयवसमूहस्तथा न तु केशनखादयस्तादृशा इति न शरीरावयवा
इत्यर्थः ॥ ५२ ॥


शरीरगुणवैधर्म्यात् ॥ ३ । २ । ५३ ॥


न रूपादीनामितरेतरवैधर्म्यात् ॥ ३ । २ । ५४ ॥


ऐन्द्रियकत्वाद्रूपादीनामप्रतिषेधः ॥ ३ । २ । ५५ ॥


रूपादीनामितरेतरवैधर्म्यमननुसंहितं च शरीरगुणत्वेनानन्वितमित्यर्थः । न
हि येषां चाक्षुषत्वरासनत्वादिरूपवैधर्म्ययोगस्ते न शरीरगुणा इति दृष्टम् । अव्यावृत्तं
च शरीरगुणानां2018 तादृशवैधर्म्यदर्शनात् । 2019तस्मादशरीरगुणत्वान्वयव्यतिरेकाभावाद्
वैधर्म्यमात्रमेतत् । बाह्यकरणप्रत्यक्षाप्रत्यक्षशरीरगुणवैधर्म्यं मानसप्रत्यक्षत्वम् ।
अन्वयव्यतिरेकि तु चेतनायाः शरीरगुणत्वसाधनं न भवति अपि तु
तदन्यगुणत्वसाधनमित्यर्थः, विशेषप्रतिषेधस्य शेषाभ्यनुज्ञाहेतुत्वादिति ।


ये हेतव इति बहुवचनं हेत्वेकदेशविवक्षया । न शरीरगुणश्चेतना
अयावद्द्रव्यभावित्वाद्
इत्युच्यमाने संस्कारेणानेकान्त इत्यत उक्तम्—
542 निमित्तान्तराभाव इति । तथापि पाकजेन गुणेनानेकान्त इत्यत आह—विरोधि
गुणादर्शने चेति । शरीरव्यापित्वादिति । न साधनमिति ।
प्रसङ्गो हि न साधनं
हेतोरभावात् । यथाहुः
अस्ति प्रसङ्गो न प्रसङ्गः साधनम्
इति । बाह्यकरणाप्रत्यक्षत्वादिति । न च गुरुत्वादिभिरनेकान्तः । तेषां
खल्वप्रत्यक्षत्वमेव, न तु 2020बाह्यकरणप्रत्यक्षत्वमिति भावः ॥ ५५ ॥


॥ इति बुद्धेः शरीरगुणव्यतिरेकप्रकरणम् ॥

  1. °पात् तु C

  2. °क्त्यपरि° C

  3. कारणस्यो°C

  4. संधत्तेC

  5. अशरीर°J

  6. तस्मात् श°J

  7. °करणाप्रत्य° J