543

शरीरस्यादृष्टनिष्पाद्यत्वप्रकरणम्


पूर्वकृतफलानुबन्धात्तदुत्पत्तिः ॥ ३ । २ । ६० ॥


मनसि विचार्यमाणे कः संबन्धः शरीरोत्पत्तिनिमित्तविचारस्येत्यत आह—
मनसः खल्विति । मन एवाधिकरणविचारेणापि परीक्ष्यत इति नासंबन्धः
शरीरोत्पत्तिनिमित्तविचारस्य । परित ईक्षा परीक्षा । सा च स्वरूपतश्च संबन्धितश्च ।
शरीरं च मनःसंबन्धि । तदधिकरणत्वान्मनसः । तस्मात् मनस एवेयं परीक्षा या
शरीरस्येत्यर्थः ।


पूर्व…त्तिः ॥ उत्पत्तिसमकालमिति । सममिव समम् । उत्पत्त्यनन्तर
मित्यर्थः । क एवमाह न ददातीति । यदि समग्रं भवति तत उत्पत्त्यनन्तरं
2022ददात्येवेत्यर्थः । विपच्यमानः कर्माशय2023 इति स्वफलं भोजयन्नित्यर्थः । यानि वा
प्राण्यन्तराणि तस्य कर्मणः समानोपभोगीनीति2024
तद् यथा किन्नरत्वनिर्वर्तनीयं
कर्म स्त्रीपुंसभोग्यं स्त्रीपुंसयोरन्यतरकर्मप्रतिबन्धे फलं न ददातीति । यानि च
प्राण्यन्तराणि
स्नेहविषया भ्रात्रादयः तस्य कर्मणो भोगीनीति कर्मफला
नामन्नाद्यश्वग्रामादीनां2025 भोगित्वात् कर्मभोगीनीत्युच्यन्ते तेषां प्राणिनां कर्मभिर
भाग्यादिशब्दवाच्यैः प्रतिबन्धात् । तस्य वा कर्मणः सहकारि धर्माधर्मलक्षणं
निमित्तं नास्तीति ।
अयमर्थः । दृष्टानां सेवादिकर्मणां व्यभिचाराद् ग्रामादिलाभेऽदृष्टं
कारणं कल्पनीयम् । यथाहुः
तच्चैव तत्र कारणं शब्दश्च
इति । दृष्टं सेवादि च कारणम् । शब्दश्चेति विषयिणा तद्विषयमदृष्टमुपलक्षयति । ते
च ग्रामादयः । तस्माददृष्टादुपजायमाना अन्तरा विघ्ननाशाय कोपशमाय
देवतानमस्कारादिजनितमपि धर्ममपेक्षन्ते । तस्मात् प्राग्भवीयेण धर्मेण स्वफल

  1. दास्यत्ये°C

  2. कर्मातिशयःC

  3. °गानीतिC

  4. अन्नाद्यग्रामा°J