548 भावः । तमेवापवर्गाभावं तद्विरोधिसंसारसत्त्वेन दर्शयति—यदा च नानात्वदर्शन
मिति ।
निदानानुच्छेदेन निदानिनो नोच्छेद इत्यर्थः । पुनर्विकल्पं दर्शयति—
अज्ञानमदर्शनमिति चेति । विवेकज्ञानाभावस्य तुल्यत्वादित्यर्थः । शेषमति
रोहितार्थमिति ।


अपरे तु आर्हता अदृष्टं परमाणुगुणं वर्णयन्ति । पार्थिवानामणूनां मनसश्च
गुणोऽदृष्टम् । तत्र पार्थिवाद्या अणवः स्वादृष्टप्रयुक्ताः शरीरमारभन्ते । मनश्च
स्वगुणप्रयुक्तं तच्छरीरमाविशति । तच्च स्वकादेवादृष्टात् पुद्गलस्य सुखदुःखोप
भोगं साधयति, न तु पुद्धलस्य धर्मोऽदृष्टमिति सांख्यवत् तेषामपि दिगम्बराणां
पुनःस्तत्प्रसङ्गोऽपवर्गे । एतदुपपादयति—परमाणुगुणस्येति ॥ ६८ ॥


मनःकर्मनिमित्तत्वाच्च संयोगाव्युच्छेदः ॥ ३ । २ । ६९ ॥


अपि चास्मिन् दर्शने प्रायणं न स्यादित्याह—मनःकर्मनिमित्तत्त्वादिति ।
मनः…दः ॥
अस्मद्दर्शने तूपपद्यते प्रायणमित्याह—वर्तमानशरीरारम्भककर्माशयक्षये
तु भविष्यद्देहान्तरारम्भककर्माशयान्तरादपसर्पणं मनस इति युक्तं प्रायणम् ।
उभयहेतुरिति
उपसर्पणापसर्पणहेतुरित्यर्थः ॥ ६९ ॥


नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः ॥ ३ । २ । ७० ॥


ननु भवतु संयोगाव्युच्छेदः किं नो बाध्यत इत्यत आह शरीरस्य
नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः । नित्य…त्तेः ॥ संयोगाव्युच्छेदादित्यर्थः ।
ननु
सदकारणवन्नित्यम्
इति कथं सकारणं शरीरं नित्यं भवेदित्यत आह शरीरस्य नित्यत्वप्रसङ्ग इति