तृतीयाध्याये प्रथमाह्निकम्


इन्द्रियभेदप्रकरणम्


दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् ॥ ३ । १ । १ ॥


अत्र भाष्यं परीक्षितानि प्रमाणानि । प्रमेयमिदानीं परीक्ष्यत इति वृत्तानुकीर्तनं
प्रमेयपरीक्षां वर्तिष्यमाणां प्रति वृत्तायाः प्रमाणपरीक्षाया हेतुभावं दर्शयितुम् ।
प्रमाणेन हि प्रमेयं परीक्ष्यते नान्येन । न च तदपरीक्षितं प्रमेयपरीक्षायै प्रभवति । तस्मात्
प्रमाणपरीक्षा हेतुः । हेतुमती च प्रमेयपरीक्षेति । द्वादशविधं च तत् प्रमेयमिति1819
कस्मात् प्रथमत आत्मैव परीक्ष्यते न प्रमेयान्तरमित्यत आह—तच्चात्मादीत्यात्मा
विचार्यत
इति । आत्मैव हि प्रमेयेषु प्रथममुद्दिष्टश्च लक्षितश्चेति । तदनुरोधादात्मैव
प्रथमं परीक्ष्यते, न प्रमेयान्तराणीति । अत्र च यद्यपि स्वरूपेणात्मन्येव परीक्षां
प्रतिजानीते, तथापि लक्षणपरीक्षाद्वारेण लक्ष्यपरीक्षणात् लक्षणपरीक्षैव द्रष्टव्या ।
यथा चेयमात्मलक्षणपरीक्षा तथोपरिष्टाद् दर्शयिष्यति1820


तदेतद् वार्त्तिककारो व्याचष्टे—आनन्तर्यादिति । किं पुनः प्रयोजनं
प्रमेयपरीक्षायाः ? न हि निष्प्रयोजनं परीक्षन्ते प्रेक्षावन्त इत्यत आह—यद्विषयोऽह
ङ्कार
इति । अहङ्कार इत्यात्मादिविषयं मिथ्याज्ञानं निर्दिशति । शरीराद्यभेदेनात्मदर्शनं
खलु संसारं प्रवर्तयतीत्युक्तं द्वितीयसूत्रे । अनेन प्रमेयपरीक्षायाः प्रयोजनवत्त्वं
दर्शितम् ।


अत्र भाष्यकारेण 1821विचारपूर्वरूपं संशयो दर्शितः । किं देहेन्द्रियमनोबुद्धि
संघातमात्रमात्मेति
संशयकारणं चोक्तं व्यपदेशस्येति । यद्यपि वृक्षप्रासादयोर
वयविसमुदाययोरन्ययोरेवान्येनावयवेन समुदायिना च व्यपदेशः, तथाप्यवयव्यभावं
453 समुदायं च समुदाय्यव्यतिरिक्तं1822 मन्यमानस्य1823 परस्योदाहरणं द्रष्टव्यम् ।


तदेतद् वार्त्तिककार आक्षेप्तुं पृच्छति—किं पुनरस्येति । उत्तरम्—किं
शरीरेति ।
आक्षिपति—नेति । समानधर्मणो धर्मिणो दर्शनात् संशयो न पुनरदर्शनादि
त्यर्थः । समाधत्ते—नेच्छादिसूत्रेति । इच्छादयो हि कार्यत्वात् लिङ्गमात्मन इति
दर्शितम् । तान्येव तु लिङ्गानि दर्शयिष्यन्त्येषितारं परीक्षिष्यन्ते1824 । किं देहेन्द्रियव्यतिरिक्त
एषितैभ्यः सिध्यति, आहोस्विदभिन्न इति युक्तो विचारः ।


अपि चायमात्मशब्दाभिधेयो धर्मी सर्वतन्त्रसिद्धः केवलमस्य शरीरेन्द्रियादि
भेदाभेदे1825 वादिनां विवाद इत्याह—अविप्रतिपत्तेश्चेति । ननु चात्मासत्त्वे परैः
प्रमाणान्यजातत्वादीन्युपन्यस्तानि, तत्र कथं न तत्सत्त्वे विप्रतिपत्तिरित्यत
आह—असत्त्वप्रतिपादकप्रमाणासंभवाच्चेति । वाद्येवासौ न भवति यो धर्मिणि
विप्रतिपद्यते । न हि धर्मिणि विप्रतिपद्यमानस्यास्ति किञ्चित् प्रमाणं सर्वस्य
तस्याश्रयासिद्धेरप्रमाणत्वात् । अभावस्य च भावाधीननिरूपणस्यात्यन्तासद्भावा
निरूपणेनानिरूपणात् । तस्माद् धर्म्यभाववादी न लौकिको नापि परीक्षक
इत्युन्मत्तवदुपेक्षणीय इति भावः ।


1826धर्म्यसिद्धिवादीनां प्रमाणमुपन्यस्यति—न नास्तीति । निराकरोति—नास्त्या
त्मेति ।
यत् पुनरपरे समादधुः


अनादिवासनोद्भूतविकल्पपरिनिष्ठितः ।

शब्दार्थस्त्रिविधो धर्मी भावाभावोभयाश्रयः ॥

भावाश्रयो यथा नीलमिति । अभावाश्रयो यथा शशविषाणमिति । उभयाश्रयो
यथा अमूर्तमिति । अमूर्तं हि भवति विज्ञानं भवति च शशविषाणम् ।

तस्मिन् बाह्यानुपादाने साध्येऽस्यानुपलम्भनम् ।

तथा हेतुर्न तस्यैवाभावः शब्दप्रयोगतः ॥

454 इति । सोऽयमात्मविकल्पो बाह्योपादानो न भवतीति । यथा नीलविकल्पो
बाह्यनीलोपादानः, नैवमात्मविकल्पो बाह्योपादानो भवतीत्यर्थः ।


अत्रैवं भवान् प्रष्टव्यो जायते किमात्मविकल्पस्य बाह्योपादानत्वमात्रं प्रतिषिध्यते,
किं वा बाह्यात्मोपादानत्वम् ? पूर्वस्मिन् सिद्धसाधनम् । मा भूदात्मविकल्पो
बाह्यनीलाद्युपादानः, किं नश्छिन्नम् ? उत्तरस्मिंस्तु कल्पे क्वायं बाह्यात्मा सिद्धः,
यदुपादानत्वं विकल्पस्य प्रतिषिध्यते ? सिद्धश्चेत् क्वापि नास्यात्यन्ताय प्रति
षेधः । असिद्धश्चेत् कथमप्रतीतस्य निषेधः ? प्रतीतो विकल्पे बाह्ये निषिध्यते चैत्र
इव गेहे चत्वरतले निषिध्यते इति चेत् ? एवमपि यत्र प्रतीतस्तत्र न निषिध्यते, यथा
भवद्भिरेवोक्तम्
न तस्यैवाभावः शब्दप्रयोगतः
इति । बाह्यश्चात्मा विकल्पेन नोपदर्शित इति प्रसक्त्यभावान्न शक्यो निषेद्धुम् ।
अप्रदर्शितोऽप्यध्यवसित इति प्रसक्त एवेति चेत् ? अथ1827 कोऽयमध्यवसायो नाम ?
ग्रहणादतिरिक्तः ग्राह्यस्य स्वाकारस्य वा अलीकस्य वा बाह्याध्यारोप इति
चेत्—न, बाह्याऽविषया विकल्पा बाह्यमारोपयन्तीति1828 चित्रम् । न हि आरोपविषयारोप्ये
अजानान आरोपयितुमर्हतीत्यसकृदावेदितम् । अपि चालीकं प्रतीयमानं यथा न
निषेद्धुं शक्यं प्रतीयमानत्वाद् एवमस्य बाह्यत्वमपि । मिथ्यात्वात् प्रतिषिध्यत इति
चेत् ? किमलीकमपि सत्यं यत् तदुल्लङ्घ्य तस्य बाह्यत्वं प्रतिषेद्धुमध्यवसितोऽसि ?
1829बाह्यभेदाग्रहस्तु तदध्यवसायो न प्रसञ्जक इति न निषेधगोचरः । न च ज्ञानाकार
आत्मा परमार्थसन् बाह्यत्वेनारोप्यमाणः प्रतिषिध्यत इति सांप्रतम् । विज्ञाननये1830
सर्वथा बाह्यस्याग्रहे तत्समारोपासंभवात् । अत्यन्तासतश्च बाह्यस्य विज्ञानानात्मनो
ग्रहे तथा विधेनासता 1831विज्ञानानात्मना विज्ञानग्राह्येण किमपराद्धं येन तद्ग्राह्यं न
स्यादिति विज्ञाननयो दत्तजलाञ्जलिः प्रसज्येत । न चायमात्मा पूर्वापरकालावस्थायी
455 क्षणिक विज्ञानाकारो1832 भवितुमर्हति, येन तदाकारो बाह्यत्वेन प्रतिषिध्येत । तस्माद्
अन्यत्र दृष्टमन्यत्र 1833समारोपप्रसञ्जितं प्रतिषिध्यत इति युक्तम् । स च समारोपः क्वचित्
स्वकारणप्रभवः क्वचित् प्रतिषिध्यते यथेन्द्रियादिदोषादुत्पन्नरजतज्ञानस्य शुक्तिकायां
नेदं रजतमिति । क्वचित् पुनराहार्यो यथा नेह गेहे चैत्र इति । तस्मादात्मनो
1834देशकालावस्थान्तरे विकल्पविज्ञाने वा असंभवादत्यन्तासतो न समारोपः,
तदभावादात्मन्येव1835 नास्ति । अस्ति चेत् कथमत्यन्ताय निषेधः ? तस्माद् आत्मा
नास्तीति पदयोर्व्याघातः । यद्यप्यात्मा नास्तीति पदानि, तथापि नास्तीत्यस्यैकपद्यं
विवक्षित्वा पदे इति द्विवचनोपपत्तिः । पद्यते गम्यतेऽनेनार्थ इति हि विवक्षित्वा
पदसमुदायोऽपि पदमुच्यते ।


यद्यपि पटादीनां देशान्तरादौ निषेधस्तथापि आत्मनोऽत्यन्ताय भविष्यति । न
हि प्रतिषेधान्तरधर्ममवश्यं प्रतिषेधान्तरमनुबध्नातीत्यत आह—सर्वश्चायमिति ।
उपपादितमेतदधस्ताद् यथा नानारोपितप्रतिषेधो यथा चाननभूतमशक्यमारोपयितुमिति ।
न क्वचिदात्मन्यनाधारत्वमुक्तमिति स्वातन्त्र्यादात्मनः । सामान्यादयस्तु
पिण्डादिपारतन्त्र्यनिरूपणाः पिण्डाद्याधारा इति पृच्छति—किमयमिति । यन्न
क्वचिदस्ति तदत्यन्तासद् यथा शशविषाणम् । तथा चायम् । तस्मादत्यन्तमसन्निति
भावः । उत्तरम्—न नास्तीति । न तावत् न क्वचिदस्तीति वाक्यमात्मानं स्वरूपेण
निषेधति देशरूपविशेषप्रतिषेधात् । शङ्किता आह—केयं वाचोयुक्तिरिति ।
उत्तरवाद्याह—एषा वाचोयुक्तिरिति । एषा वक्ष्यमाणार्था । तमर्थमाह—यद्
यथाभूतमिति ।
न हि पदार्थानां सत्ता देशवत्त्वेन व्याप्ता, येन देशवत्त्वं निवर्तमानं
तां निवर्तयेदिति भावः । न च कालविशेषप्रतिषेधोऽपीति । कालान्तरप्रतियोगी
एकैकः कालः कालविशेषः । तत्प्रतिषेधोऽप्यात्मनि न युक्तः । न हि यथा
घटादिष्ववच्छेदार्थः कालस्तथा नित्य आत्मनि । प्रध्वंसाभाववान् घटः खल्वासीत्
456 न तथा आत्मा । प्रागभाववान् घटो भविष्यति न तथा आत्मा । अतीतप्रागभावोऽ
नागतप्रध्वंसश्च घटो वर्तमानः । न च तथात्मा । तस्मान् नास्यावच्छेदार्थं
त्रैकाल्यमुपावर्तते । अतीतानागतव्यपवृक्तवर्तमानक्रियाव्यङ्ग्यः कालोऽस्ति सदा
नित्यानां यतः अस्त्यात्मा, विद्यते व्योमेति भवति । तस्मादवच्छेदकत्रैकाल्याप्राप्तेर्न
त्रैकाल्यप्रतिषेधः, अतीतानागतव्यपवृक्तक्रियाव्यङ्ग्यस्य च वर्तमानस्या
शक्यप्रतिषेधत्वात् नात्मनि कालप्रतिषेध इति स्थितम् । आत्मप्रतिषेधं चेति ।
आत्मेति हि पदं लोकसिद्धम्, पद्यते हि तेन कश्चिदर्थभेदः । येन च कश्चिदर्थः
पद्यते, न तदनर्थकं भवितुमर्हतीति ।


किमसतः सता साधर्म्यमिति । न हि भवतां सिद्धान्ते सर्वोपाख्या
विरहितमसत्प्रमेयमपीति भावः । अथ शरीरदेरात्मत्वं कल्पितं निषिध्यते शरीरादयो
नात्मन इति तत्राह—आत्मसामान्यं चेति । अथ शरीरादीति । अहङ्कारस्तावत्
परमार्थतः शरीरादिविषयः स्थूलोऽहं कृशोऽहं गौरोऽहमिति प्रत्ययात् । तमिमम्
आत्मनि कल्पयित्वा विपर्यस्यति तदनुरूपं व्यपदिशति व्यवहरति च । सोऽयं
विपर्ययः प्रतिषिध्यते नास्त्यात्मेति । निराकरोति—एवं च शरीरादीति । न ह्यहङ्कार
समारोपविषयसत्त्वमनभ्युपगच्छतः समारोप उपपद्यते । तस्मात् तत्प्रतिषेधतो व्याघात
इत्यर्थः । चतुर्णामुपादानरूपत्वात् तमस इति । रूपरसगन्धस्पर्शाश्चत्वारो
घटादिरूपेण विपरिणतास्तेषामुपादानरूपं तम उपादीयत इत्युपादानम् ।
उपादेयरूपत्वादिति क्वचित् पाठः । स तु सुगमः । सोऽयं वात्सीपुत्राणां वैभाषि
काणां
सिद्धान्तः । तेन विरोध इत्यर्थः । सुगममन्यत् ।


अथायं भावप्रतिषेध इति । न जन्ममात्रप्रतिषेधोऽपि त्वात्मनो भावः सत्ता
प्रतिषिध्यते इत्यर्थः । स्वतन्त्रस्य धर्मस्य समवायादन्यस्य अदर्शनाद् इति । निकायो
देवमनुष्यतिर्यगादीनामनौत्तराधर्येणावस्थितः संघातः तद्विशिष्टाभिरित्यर्थः ।


कार्यं कारणं वेति । यदि विषाणमवयवस्तदा कारणं यदि तु केशनखादितुल्य
त्वेनानारम्भकत्वात् नावयवः, ततः कार्यम् तस्मात् तत् प्रभवतीति । उक्तमप्यर्थं
457 पुनर्विकल्पयन् पर्यनुयोगार्थमाह—इदं च शशविषाणं नास्तीति ब्रुवाण इति ।
सामान्यप्रतिषेधः विषाणसंबन्धमात्रप्रतिषेध इति । विशेषप्रतिषेधः कार्यकारण
भावलक्षणसंबन्धप्रतिषेध इति ।


विषयस्वभावभेदानुविधायीति । अहमिति 1836हि ज्ञानं मानसं विषयस्य
आत्मनो यः स्वभावभेदः कर्तृत्वभोक्तृत्वादिरूपः1837 जानेऽहं भुञ्जे इत्यादिस्तदनुविधायि ।
एतदुक्तं भवति, न केवलमात्मस्वरूपमात्मज्ञानस्य विषयस्तथा सति परसमवेत
क्रियाफलशालित्वाभावेनात्मनः कार्यत्वाभावेनाकर्मतया तद्व्याप्यज्ञानस्यापि
निवृत्तिप्रसङ्गात् । यदा तु धर्मवदात्मविषयं ज्ञानं भवति तदा धर्माणां परसमवायि
क्रियाफलसंकलिततया कर्मत्वात् न कर्माभावेन जानातेर्निवृत्तिरिति1838 । जानातिरा
त्मधर्मकर्मा आत्मानमपि गोचरयतीति सूक्तं1839 विषयस्वभावभेदानुविधायीति ।
अहङ्कारालम्बनेति ।
आलम्ब्यतेऽनेनेत्यालम्बनं विज्ञानम् अहङ्कारेण च विषयिणा
विषयमुपलक्षयति । देशयति—ननु भवत्यहं गौर इति । परिहरति—न भवतीति
ब्रूम
इति । न व्यपदेशमात्रं देहाद्यव्यतिरिक्तात्मसद्भावसाधनमस्माभिरुक्तं
येनानैकान्तिकं भवेत्, अपि त्वनुभवः । स च न शरीरादिष्विदमो विषयेष्वस्ति, अपि
त्वसंभिन्नेदंविषयोऽहंप्रत्ययः शरीराद्यतिरिक्त एवास्ति । स चात्मा । शरीरादयस्तु
मतुब्लोपादभेदोपचाराद् वा अहमा विषयीक्रियन्ते । ममात्मेति तु व्यपदेशमात्रं न
पुनः शरीरादिष्विव ममकारस्तत्र मुख्यो भेदेनाप्रतिभासनात् । राहोः शिर इतिवत्तु
ममकार आत्मनि द्रष्टव्यः । अत एवाह—ममप्रत्ययेति, न पुनर्ममकारमात्रम् ।
तस्मात् सर्वं रमणीयम् । विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिर्बाधितेति यावत् ।


कः साधनार्थ इति कः साधनशब्दस्यार्थः । अथानुपलब्धिरपि नास्तीति ।
भावरूपो धर्मोऽसति विरुध्यते, न त्वभावरूपः, उभयोः समानशीलत्वादित्यर्थः ।
निराकरोति—कः साधनार्थोऽनुपलब्धेरिति । असत्यास्तुच्छाया अनुपलब्धेः कः
458 साधनत्वरूपोऽर्थ इत्यर्थः । शङ्कते—अथ कल्पितस्येति । नानुपलब्धिस्तुच्छा किं
तु तत्त्वान्तरं सत् । सा तु कल्पिताश्रयतया नाश्रयासिद्धेत्यर्थः । एतद्विकल्प्य निराकरोति—
कथं कल्पितस्येति । न हि तात्त्विक्यनुपलब्धिः परमार्थसदाश्रया कल्पितसत्त्वस्य
धर्मिणो धर्मो भवितुमर्हतीत्यर्थः । द्वितीयं कल्पमाशङ्कते—अथासत्त्वेनेति ।
निराकरोति—सिध्यत्यनुपलब्धिरिति । असत्त्वेन हि कल्पितस्य पारमार्थिकं
भावत्वमुपेतव्यम्1840 । असत्यसत्त्वकल्पनाया अयोगात् । तथा च भावाश्रयानुप
लब्धिस्तात्त्विकी सिध्यत्येव । यदर्थं त्वसौ तदेव पारमार्थिकम् असत्त्वमात्मनो न
सिध्यति असत्त्वस्य काल्पनिकत्वाभ्युपगमाद् भवद्भिरित्यर्थः । अपि चायमसत्त्वेन
सन्तमात्मानं कल्पयित्वा अत्यन्तासत्त्वमनुपलब्धेरस्य साधयितुमध्यवसितः ।
1841तच्चान्यधर्मेण अनुपलब्ध्या न सिध्यति । न जातु स्थाणुधर्मेण कल्पितेन पुरुषे
स्थाणुत्वं पारमार्थिकं शक्यं साधयितुमित्याह—किमर्थं चायमात्मेति ।


रूपादिशब्देभ्योऽन्यत्वे सतीति । यदि हि पदत्वादित्युच्येत रूपादि
शब्दैरनैकान्तिकत्वं स्यादत उक्तम्—रूपादिशब्देभ्योऽन्यत्वे सतीति ।
1842यद्येकपदत्वादित्युच्येत रूपादिशब्दैरनैकान्तिकत्वं स्यादत उक्तम्—रूपादिशब्दे
भ्योऽन्यत्वे सतीति ।
तथापि रूपविज्ञानवेदनासंज्ञासंस्कारा इत्ययं शब्दो रूपादि
वाचको यः शब्दो रूपं वेदना संज्ञा विज्ञानमित्यादिस्ततोऽन्योऽसमस्तादन्यः समास
इति । तेनानैकान्तिकत्वमत उक्तम्—एकपदेति । तेन रूपादिवाचकैकपदव्यतिरिक्तं
यद्यदेकपदं तत्तद् रूपादिव्यतिरिक्तस्य वाचकम्, यथा घटादिपदम् । तथा चात्मपदम् ।
तस्मात् तदपि तथेति । एतेनेति । आत्मशब्दसाध्यत्वेनैवासंभिन्नेदंप्रत्ययः । अहंप्रत्ययो
व्याख्यातः ।
शङ्कते—असिद्ध इति । घट इति रूपादय एवैकोदकाहरणावच्छिन्ना
उच्यन्ते, न तु रूपाद्यतिरिक्तो घटो नाम कश्चिदस्तीत्यर्थः । निराकरोति—
अत्रोक्तमिति । उपादायरूपत्वात् तमस इति । यथा दाय इति देयमुच्यते
459 एवमुपादायेत्यनेनोपादेयमिति । सविषयत्वं सद्विषयत्वं सिद्धान्तिनोक्तमिति
मन्वानश्चोदयति—तमःशब्दस्य सविषयत्व इति । यद्यप्यभावविषयत्वे अपि न
निर्विषयत्वं तथापि देशकाभिमानमनुविदधानः परिहरति—न सूत्रार्थेति ।


पुनर्दृष्टान्तो नास्तीति । पूर्वमात्मानुपकारकत्वे साध्ये दृष्टान्ताभाव उक्तः
पुनरिहोच्यत इत्यर्थः । देशयति—अथात्मशब्द इति । यो यो वर्णात्मकः स
सर्वोऽनित्यविषयो यथा घटादिशब्दः, तथा चानित्यत्वे सति तद्विज्ञानमेव स्यात्
नात्मेति फलत आत्मप्रतिषेध इत्यर्थः । एतदपि दूषयति—तथापीति ।
नित्यशब्दस्तावन्नित्यमाचष्टे अन्यथा तत्प्रतिषेधानुपपत्तेरित्यर्थः1843 । शङ्कते—अथेति ।
सिद्धसाधननिवृत्त्यर्थं शरीरादिव्यतिरिक्तविधिविषय इति । निराकरोति—तथापीति ।
रूपादिस्कन्धपञ्चकातिरिक्तं नास्तीति भवतां राद्धान्तस्तदतिरिक्ताभ्युपगमे
विरुध्यते इत्यर्थः ।


यदि विवक्षितार्थव्यतिरेकेणेति । वादिनो हि शरीरेन्द्रियबुद्धिवेदनासंघातस्य
पारार्थ्यं विवक्षितम् । परार्थाश्चक्षुरादय इति ब्रुवतो न संघातपरार्थत्वं1844 तच्चेह पक्ष
धर्मताबलात् सिध्यदस्याभिप्रायेण व्याप्यते । न तु साक्षाद्विवक्षितम् । तद्वदिहाभिप्राय
व्याप्तं विवक्षितमारोप्य यद्यनन्वयविरोधौ देश्येते, ततः सर्वानुमानोच्छेदप्रसङ्गः ।
एतच्च ईश्वरसिद्धौ निपुणतरमुपपादयिष्यते । अथानुमानेन बाध्यत इति ।
संघातत्वानुमानमेवाभिप्रेतविपरीतसंघातपरार्थत्वपक्षो व्यवस्थालक्षणानिष्ट
प्रसङ्गरूपतर्कसहायमस्य बाधकं प्राणादिसत्त्वाद्यनुमानं वेति । एकदेशेन
चैकदेशान्तराणामिति
ब्रुवतो वार्त्तिककारस्य गृहप्रासादादयो नावयविनो
विजातीयानामनारम्भकत्वादित्यभिमतम् ।


दर्श…णात् । अकार्यकारणभूतानां चेति । यथा हि कालाक्षीं गामीक्षितवतः
स्वस्तिमत्यां गवि भवति प्रतिसन्धानम्, न चैतयोरस्ति कार्यकारणभाव इत्यर्थः ।
460 भाष्यम्—भिन्ननिमित्ताविति । भिन्नमिन्द्रियं निमित्तं ययोः । अनन्यकर्तृकौ
आत्मैककर्तृकौ समानविषयौ द्रव्यमेकं विषय इत्यर्थः ॥ १ ॥


न विषयव्यवस्थानात् ॥ ३ । १ । २ ॥


पूर्वपक्षसूत्रम्—न वि…नात् ॥ यद्भावाभावानुविधायिनौ ज्ञानभावाभावौ
तच्चेतनम् । इन्द्रियभावाभावानुविधायिनौ च ताविति तदेव चेतनमिति भावः ।


सिद्धान्तभाष्यम्—संदिग्धत्वादहेतुः । अनन्यथासिद्धावन्वयव्यतिरेकौ
कारणत्वमात्रे प्रमाणम्, न तु कर्ता न चेतनश्चेतनं वा करणमित्यत्रेत्यर्थः ॥ २ ॥


तद्व्यवस्थानादेवात्मसद्भावादप्रतिषेधः ॥ ३ । १ । ३ ॥


विषयव्यवस्थानं च विरुद्धमिन्द्रियादीनामचैतन्यस्य साधनादित्याह—
यच्चोक्तमिति । तद्व्य…धः ॥ सर्वज्ञ इत्यस्य विवरणं सर्वविषयग्राही
सर्वेषामिन्द्रियाणां प्रमाणान्तराणां च ये विषयास्तद्ग्राही । इन्द्रियान्तराणि प्रमाणा
न्तराणि च पुनर्व्यवस्थितविषयाणि तेनार्वाग्दृगपि सर्वज्ञ इति सिद्धम् ।
तत्रेदमभिज्ञानमिति । असाधारणं चिह्नमभिज्ञानमुच्यते । तच्चाप्रत्याख्येयमनुभव
सिद्धत्वात् । चेतनवृत्तमभिज्ञानमप्रत्याख्येयमुदाह्रियत इति योजना । अनियतपर्यायम्
अनियतक्रममित्यर्थः । अनेकविषयमर्थजातमिति । अनेकः पदार्थो विषयो
यस्यार्थजातस्य तत् तथोक्तम् । क्वचित् पाठोऽनेकविधमर्थजातमिति । स सुगम एव ।
आकृतिमात्रं त्विति सामान्यमात्रमित्यर्थः ।


1845चैतन्यं त्वात्मनः स्वातन्त्र्ये सत्यव्यवस्थानाच्चक्षुरादिवदिति1846,
461 प्रमाणसंशयविपर्यासस्मृतिषु योऽनुस्यूत एक उपलभ्यते स चेतनः स्वातन्त्र्ये
सत्यव्यवस्थानात् । यस्त्वचेतनो नासौ स्वातन्त्र्ये सत्यव्यवस्थितो यथा चक्षुरादीति
व्यतिरेकी हेतुः । यद्यव्यवस्थानादित्येतावन्मात्रमुच्येत, ततो मनसानैकान्तिकः
स्यादत उक्तम्—स्वातन्त्र्ये सतीति । अथ वा कृतमव्यवस्थानेन स्वातन्त्र्यमेव
केवलमस्तु चैतन्यसाधनमित्याह—नाचेतन आत्मेति । आत्मेति प्रमाणसंशय
विपर्ययस्मृतिष्वनुस्यूतमनुभूयमानमुपलक्षयति । निराकृतमप्यर्थं प्रकारान्तरेण
पुनरुपन्यस्य निराकरोति—पृथिव्यादिनित्यत्वसाधन इति ।


तदेतच्चेतनवृत्तं देहादिभ्यो व्यावर्तमानं तदतिरिक्तं चेतनं साधयतीति स्थितम् ।
नेच्छाद्याधारत्वं देहादीनामिति ॥ ३ ॥


॥ इन्द्रियभेदप्रकरणम् ॥

  1. °विधं प्रमेयम्, तत्C

  2. दर्शयिष्यतेC

  3. °रूपःC

  4. °य्यनति°C

  5. मन्वानस्यC

  6. दर्शयन्त्येषितारं परीक्ष्यन्तेC

  7. शरीरेण
    सह भेदा°
    C

  8. धर्म्यसत्त्ववा°J

  9. ननु विकल्पस्य कोऽयम्C

  10. बाह्यविषया विकल्पा बाह्यमारोपयन्ति चेतिJ

  11. बाह्यभेदग्रहस्त°C

  12. विज्ञानमये हिC

  13. अविज्ञा°J

  14. °विकल्पाकारोC

  15. समारोप्य प्रति°C

  16. देशकालान्तरे वस्तुनि
    विकल्पनम्, विज्ञाने चासं
    C

  17. आत्मेत्येव ?J

  18. विज्ञानंC

  19. °त्वलक्षणःC

  20. परसमवेतक्रियाफलशालितया तद्व्याप्तस्य
    ज्ञानस्यापि निवृ°
    C

  21. युक्तंC

  22. सत्त्वमनुमन्तव्यम्C

  23. तच्चास्य सधर्मेणC

  24. यदि हिJ

  25. °था न तत्प्रतिषेध°C

  26. न त्वसंहतपरा°J

  27. स्वं चैतन्यंC

  28. °दिति हेतुः ।C